Logo SanskritVani

आकाङ्क्षाविचारः

 

(आकाङ्क्षाविचारः)

 

अथ शाब्दबोधसहकारिकारणानि आकाङ्क्षायोग्यताऽऽसत्तितात्पर्याणि । वाक्यसमयग्राहिकाऽऽकाङ्क्षा । सा चैकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य यज्ज्ञानं तद्विषयेच्छा 'अस्याऽन्वय्यर्थः कः'इत्येवंरूपा पुरुषनिष्ठैव, तथापि तस्याः स्वविषयेऽर्थे आरोपः । अयमर्थोऽर्थान्तरमाकाङ्क्षत इति व्यवहारात् । इदमेवाभिधानापर्यवसानमित्युच्यते । पदे तु नारोपः अर्थबोधोत्तरमेवाऽऽकाङ्क्षोदयात् । पदं साकाङ्क्षमिति तु साकाङ्क्षार्थबोधकमित्यर्थकम् । तदुक्तं समर्थसूत्रे भाष्ये — 'परस्परव्यपेक्षां सामर्थ्यमेके । का पुनश्शब्दयोर्व्यपेक्षा । न ब्रूमश्शब्दयोरिति, किं तर्हि, अर्थयोरि'ति ।

ईदृशजिज्ञासोत्थापकं चैकपदार्थेऽपरपदार्थव्यतिरेकप्रयुक्तस्य अन्वयबोधाजनकत्वस्य ज्ञानमिति, तद्विषये तादृशान्वयबोधाजनकत्वेऽप्याकाङ्क्षेति व्यवहारः ।

(आकाङ्क्षायाः स्वरूपान्तरविचारः)

 

यद्वा उत्थापकताविषयतान्यतरसम्बन्धेनोभयसम्बन्धेन वाऽर्थान्तरजिज्ञासा आकाङ्क्षा । आद्यं पश्य मृगो धावतीत्यत्र दर्शनार्थस्य कारकधावनाकाङ्क्षोत्थापकत्वं, धावनं तु तद्विषय एव । अन्त्यं पचति तण्डुलं देवदत्त इत्यादौ क्रियाकारकयोर्द्वयोरपि परस्परं तदुत्थापकत्वात्तद्विषयत्वाच्च ।

अत एव घटः कर्मत्वमानयनं कृतिरित्यतो घटमानयेतिवन्नान्वयबोधः आकाङ्क्षाविरहात् । घटमानयेति विभक्त्यन्ताख्यातान्तयोरेव साकाङ्क्षत्वाच्च ।