Logo SanskritVani

कारकविचारः

 

(कारकपरिगणनम्)

 

कर्ता कर्म च करणं सम्प्रदानं तथैव च ।

अपादानाधिकरणमित्याहुः कारकाणि षट् ॥

(कारकत्वनिर्वचनम्)

 

तत्र क्रियानिष्पादत्वं कारकत्वम् । तच्च कर्त्रादीनां षण्णमपि ।

(कर्तृत्वपरिष्कारः)

 

धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । इति हर्य्युक्तेः ।

अन्यकारकनिष्ठो व्यापरस्तु न प्रकृतधातुवाच्यः । यथा वह्निना पचतीत्यत्र वह्निनिष्ठः प्रज्वलनादिः । अन्यकारकनिष्ठव्यापाराश्रयस्य कर्तृत्ववारणाय धातुवाच्येति ।

तत्रोक्ते तु कारकमात्रे प्रथमैव तिङ्समानाधिकरणे प्रथमा अभिहिते प्रथमेति वार्तिकद्वयात् । सूत्रमते तु कर्तृकर्माद्यर्थकप्रत्ययेन कर्त्रादृरुक्तत्वात् प्रथमायाः प्रातिपदिकार्थ एवार्थः । तस्य चाख्यातार्थकर्त्रादिनाऽभेदान्वयेन प्रथमार्थस्य कारकत्वम् । अत एवाख्यातार्थद्वारकक्रियान्वयात् तदर्थस्य क्रियाजनकत्वादस्याः कारकविभक्तित्वेन भाष्ये व्यवहारः ।

चैत्रो भवतीत्यत्र एकत्वावच्छिन्नचैत्राभिन्नकर्तृकं भवनमिति बोधः । आख्याताकृदादिना कर्त्रादेरभिधानेऽपि प्रथमायाऽनुद्भ्रूतकर्तृत्वादिशक्तिः प्रतिपाद्यते इति तात्पर्यम् ।

कर्माख्याने तु चैत्रेण ग्रामो इत्यत्र चैत्रकर्तृकव्यापारजन्य एकत्वावच्छिन्नग्रामाभिन्नकर्मनिष्ठः संयोग इति बोधः ।

(सम्बोधनपरिष्कारः)

 

सम्बोधनप्रथमार्थस्यापि अनुवाद्यत्वेनोद्देश्यतया युष्मदर्थाभेदेन विधेयक्रियायामन्वयात् क्रियाजनकत्वरूपकारकत्वं । देवदत्त त्वं गच्छेत्यादौ अभिमुखीभवद्देवदत्ताभिन्नयुष्मदर्थोद्देश्यप्रवर्त्तनादिविषयो गमनमिति बोधः । अतएव-

आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा ।

यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः ॥

इत्यभियुक्तोक्तम् ।

सुपां कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिङाम् ॥

इति भाष्यं सङ्गच्छते । अनुक्तकर्त्रादिषु तृतीयादयो विभक्तयः अनभिहिताधिकारे तासां विधानात् इत्यन्यत्र विस्तरः ।

ननु क्रियानिमित्तत्वं कारकत्वमपि स्वीकार्यमिति चेन्न । चैत्रस्य तण्डुलं पचतीत्यत्र सम्बन्धिनि चैत्रादावतिव्याप्तेः । अनुमत्यादिप्रकाशनद्वारा सम्प्रदानादेरिव तण्डुलादिद्वारा सम्बन्धिनोऽपि क्रियानिमित्तत्वात् । किन्तु क्रियान्वितविभक्त्यर्थान्वितत्वं क्रियानिर्वर्तकत्वं वा कारकत्वम् । विशेष्यतया क्रिया सुप्तिङन्तैतदन्यतरविभक्त्यर्थेऽन्वेति । स च विशेष्यतयैव चैत्रघटादौ । षष्ठ्यर्थस्य तण्डुलादिनामार्थान्विततया क्रियानन्वितत्वात् । अत एव षष्ठ्यर्थस्योपपदविभक्त्यर्थस्य च न कारकत्वं क्रियान्वयाभावदिति शाब्दिकाः । उपपदविभक्तीनामपि सम्बन्ध एवार्थः । चैत्रस्य पचतीत्यादावपि ताण्डुलादिपदाध्याहारेणैव बोधः । षष्ठ्यर्थसम्बन्धस्य नामार्थेनैव क्रियायाः कर्मत्वादिनैव साकाङ्क्षत्वेन सम्बन्धक्रिययोर्निराकाङ्क्षत्वात् ।

यत्तु कारकान्तरप्रयोज्यत्वे सति कारकचक्रप्रयोजकत्वं कर्तृत्वमिति; तन्न । स्थाली पचति असिश्छिनत्तीत्यादौ स्थाल्यादेः कारकचक्राप्रयोजकत्वात् कारकान्तरप्रयोज्यत्वाच्च तत्त्वं न स्यादित्यलम् ।

(कर्मत्वलक्षणपरिष्कारः)

 

कर्मत्वं च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलश्रयेत्वेनोद्देश्यत्वं । इदमेव कर्मलक्षणे ईप्सिततमत्वम् । गां पयो दोग्धीत्यादौ पयोवृत्तिर्यो विभागस्तदनुकूलो व्यापारो गोवृत्तिः तदनुकुलश्च गोपवृत्तिः । अत्र पयसः कर्मत्वसिद्धये प्रयोज्यत्वनिवेशः जन्यत्वनिवेशे तन्न स्यात् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृतधात्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थः, किन्तु नान्तरीयकतया गमने उत्पद्यते प्रयागस्य फलाश्रयत्वेनानुद्देश्यत्वाच्च ।

ननु प्रकृतधात्वर्थस्य ग्रहणेनैवात्र वारणादुद्देश्यत्वनिवेशः किमर्थ इति चेन्न । तस्यासाधारणं प्रयोजनं काशीं गच्छन् पथि मृत इति काश्याः फलाश्रयत्वाभावेऽपि फलाश्रयत्वेनोद्देश्यत्वात्कर्मत्वम् ।

ननु काशीं गच्छति चैत्रे चैत्रः काशीं गच्छति न प्रयागमिति प्रयोगानुपपत्तिः, प्रयागस्य फलाश्रयत्वेनोद्दयेश्यत्वाभावादिति चेदुच्यते । कर्मलक्षणे ईप्सिततमपदस्य स्वार्थविशिष्टयोग्यताविशेषे लक्षणा । तथा च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्दयेश्यत्वयोग्यताविशेषशालित्वं कर्मत्वं । तच्च प्रयागस्याप्यस्तीति कर्मत्वं तस्य सुलभम् । एतेन कार्यान्तरं कुर्वति चैत्रे किं ग्रामं गच्छति अथ वा ओदनं पचतीति प्रश्ने न ग्रामं गच्छति नौदनं पचतीत्यादिप्रयोगा व्याख्याताः ।

यत्र तु ताडनादिन पराधीनतया विषभोजनादिकं तत्र विषादि तादृशफलश्रयत्वेनोद्दयेश्यमेव । अत एव 'आतश्च विषमीप्सितं यद्भक्षयति ताडनाद्' इति भाष्यं सङ्गच्छते । एतेन कशाभिर्हतः कारागारं गच्छतीति व्याख्यातम् । कालत्रये काशीगमनशून्ये चैत्रे 'काशीं गच्छति चैत्र' इति वारणाय विशेष इति । काश्याः फलाश्रयत्वेनोद्देश्यत्वयोग्यतासत्त्वेऽपि तद्विशेषाभावान्न कर्मत्वम् । तद्विशेषश्च वायपारसमकालिकस्तटस्थजनगम्यः । किञ्च ईदृशस्थले तद्विशेषवत्त्वेऽपि निषेध एवानुभवसिद्ध इति काशीं न गच्छतीति किमनुपपन्नम् ।

(अनीप्सितस्थलेऽपि कर्मत्वोपपादनम्)

 

नन्वन्नं भक्षयन्विषं भुङ्क्ते ग्रामं गच्छंस्तृणं स्पृशतीत्यादौ विषतृणयोरुद्देश्यत्वाभावात् कथं कर्मत्वमिति चेत् श्रृणु, तथायुक्तमिति लक्षणान्तरात् । प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थ-फलाश्रयत्वमनीप्सितकर्मत्वमिति तदर्थात् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृतधात्वर्थफलेति द्वेष्योदासीनकर्मसंग्रहार्थमिदं लक्षणम् ।

दुहादीनां व्यापारद्वयार्थकत्वपक्षे अकथितञ्चेति व्यर्थम् । पूर्वेणैवेष्टसिद्धेः । एकव्यवहारबोधकत्वपक्षे तु सम्बन्धषष्ठीबाधनार्थं तत्पक्षे कर्मसम्बन्धित्वे सति अपादानादिविशेषा विवक्षितत्वमकथितकर्मत्वमिति तृतीयलक्षणेन गां पयो दोग्धीत्यादौ गामित्यस्य कर्मत्वसिद्धिरित्यन्यत्र विस्तरः ।

(तार्किकमतनिराकरणम्)

 

यत्तु तार्किकाः — कर्मत्वं तु न करणव्यापारवत्त्वं तद्धि करणजन्यव्यापारवत्त्वम् । दात्रेण धान्यं लूनातीत्यादौ हस्तादिकरणजन्यव्यापारवति दात्रादावताव्याप्तेः । नापि क्रियाजन्यफलशालित्वं तत्, चैत्रश्चैत्रं गच्छतीत्यापत्तेः । संयोगरूपफलस्योभयकर्मकर्तृनिष्ठत्वात् ।

नापि परसमवेतक्रियाजन्यफलशालित्वं तत्, गमिपत्योः पूर्वस्मिन् देशे त्यजेश्चोत्तरस्मिन् देशे कर्मत्वप्रसङ्गात्, नदी वर्धत इत्यादौ अवयवोपचयरूपवृद्धिक्रियायाः तीरप्राप्तिरूपफलाश्रये तीरे कर्मत्वापत्तेश्चेति ।

अत्र ब्रूमः — धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् । तादृशफलं च गमेस्संयोगः त्यजैर्विभागः पतेरधोदेशसंयोगः । अधोदेशरूपकर्मणो धात्वर्थनिविष्टत्वादकर्मकत्वे तु पर्णं वृक्षाद्भूमौ पततीति । संयोगमात्रफलपक्षे वृक्षाद्भूमिं पततीति ।

ननु चतुर्थलक्षणेऽपि चैत्रश्चैत्रं गच्छतीत्यपत्तिः, तत्र हि धात्वर्थतावच्छेदकफलं संयोग इति चेन्न । लक्षणे व्यापारनधिकरणत्वे सतीति विशेषणदानादित्याहुः ।

तन्न; काशीं गच्छन् पथि मृत इत्यादौ काश्याः, काशीं गच्छति न प्रयागमित्यादौ प्रयागस्य, ग्रामं न गच्छतीत्यादौ ग्रामस्य तादृशफलशालित्वाभावात् एतस्य लक्षणस्यात्र सर्वत्रव्याप्तेः ।

ननु वृक्षं त्यजति खग इत्यत्र वृक्षस्य विभागरूपफलाश्रयत्वेनापादानत्वमस्त्विति चेन्न । अत्र हि विभागः प्रकृतधात्वर्थः । यत्र च विभागो न प्रकृतधात्वर्थस्तद्विभागाश्रयस्यैवापादानत्वम्, यथा वृक्षात्पततीत्यादौ । यत्र च प्रकृतधात्वर्थो विभागस्तत्रोभयप्राप्तौ अपादानमुत्तराणि बाधन्ते इति भाष्ययुक्तेः कर्मत्वम् । अनुक्ते कर्मणि षष्ठीद्वितीये भारतस्य श्रवणं भारतं श्रृणोतीति यथा ।

(सकर्मकत्वाकर्मकत्वनिरूपणम्)

 

सकर्मकत्वं च फलव्यधिकरणव्यापारवचकत्वं । फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् । अद्य देवदत्तो भवति उत्पद्यत इत्यर्थः । अत्रोत्पत्तिरूपं फलं बहिर्निस्सरणं च व्यापारः देवदत्तनिष्ठ एव । व्यापारमात्रवाचकत्वं वाऽकर्मकत्वम् अस्ति भवति विद्यते वर्तत इत्यादिधातुषु फलस्य सर्वैर्दुविज्ञेयत्वात् । सत्ता हि स्थितिरूपो व्यापारविशेषः । देवदत्तोऽस्तीत्यादौ देवदत्तकर्तृका सत्तेत्येव बोधाच्च । फलव्यापारयोर्धातुर्वाचक इति तु बाहुल्याभिप्रायेणेति दिक् ।

(करणत्वविचारः)

 

स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकत्वं करणत्वम् । इदमेव साधकतमत्वम् ।

क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।

विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥

इति हर्युक्तेः । क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । रामेण बाणेन हतो बालीत्यादौ धनुराकर्षणादेर्व्यापारस्य बाणव्यापारात्पूर्वमपि कर्तरि सत्त्वाद्रामाभिन्नकर्तृनिष्ठव्यापारप्रयोज्यो बाणनिष्ठो व्यापारस्तज्जन्यं यत्प्राणवियोगरूपं फलं तदाश्रयो बालीति बोधाच्च । रामो बाणेन बालिनं हन्तित्यादौ कर्तृप्रत्यय बाणव्यापारजन्मो यो बालिनिष्ठः प्राणवियोगस्तदनुकूलो रामकर्तृको व्यापार इति बोधः । अर्थाद्रामव्यापारप्रयोजको बाणव्यापार इति पार्ष्णिको बोधः । कर्त्रादिपञ्चकारकाणां करणत्ववारणाय व्यापाराव्यवधानेनेति दिक् ।

(सम्प्रदानत्वविचारः)

 

क्रियामात्रकर्मसम्बन्धाय क्रियायामुद्देश्यं यत् कारकं तत्त्वं सम्प्रदानत्वम् । यथा ब्राह्मणाय गां ददातीत्यादौ दानक्रियाकर्मीभूतगोसम्बन्धाय ब्राह्मणो दानक्रियोद्देश्यः गोब्राह्मणयोः स्वस्वामिभावः सम्बन्धः । चैत्रो मैत्राय वार्ताः कथयतीत्यत्र मैत्रवार्तयोर्ज्ञेयज्ञातृभावः सम्बन्धश्च ।

यत्तु वृत्तिकाराः — सम्यक् प्रदीयते यस्मै ततसम्प्रदानमित्यन्वर्थसंज्ञेयम् । यथा च गोनिष्ठस्वस्वत्वनिवृत्तिसमानाधिकरणपरस्वत्वोत्पत्त्यनुकूल-व्यापाररूपक्रियोद्देश्यस्य ब्राह्मणादेरेव सम्प्रदानत्वम् । पुनर्ग्रहणाय रजकस्य वस्त्रदाने रजकस्य वस्त्रं ददातीति सम्बन्धसामान्ये षष्ठ्येवेत्याहुः ।

तन्न; खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति भाष्यविरोधात् । 'कर्मणा यमभिप्रैति'ति सूत्रव्याख्यावसरे भाष्यकृताऽन्वर्थसंज्ञाया अस्वीकाराच्च । अत एव 'तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत्' इति सप्तशतीश्लोकः सङ्गच्छते । तस्माद्रजकाय वस्त्रं ददातीत्यादि भवत्येव । अत्राधीनीकरणेऽर्थे ददातिः । चपेटां ददातीत्यत्र न्यसनेऽर्थ इति ।

सम्प्रदानचतुर्थ्यर्थ उद्देश्यः । तथा च ब्राह्मणोद्देश्यकं गोकर्मकं दानमिति बोधो मैत्रोद्देश्यकं वार्ताकर्मकं कथनमिति च । अकर्मकक्रियोद्देश्यत्वं सम्प्रदानत्वमिति लक्षणान्तरम् । यथा पत्ये शेते इत्यादि । पत्युद्देश्यकं नायिकाकर्तृकं शयनमिति बोधः ।

ननु दानादिकं तदर्थत्वात्तादर्थ्ये चतुर्थ्यैव सिद्धौ किं 'कर्मणा यम्' इति सम्प्रदानसंज्ञया, 'चतुर्थी सम्प्रदाने' इति सूत्रं तु रुच्यर्थानामिति विषये चतुर्थ्यर्थमिति चेन्न । दानकर्मणो गवादेर्ब्राह्मणार्थकत्वेऽपि दानक्रियायाः परलोकार्थत्वात् । अत एव तादर्थ्यचतुर्थ्या दानकर्मणो गवादेः सम्प्रदानार्थकत्वेऽपि दानक्रियायास्तदर्थत्वाभावेन चतृर्थ्यन्तार्थस्य दानक्रियायामन्वयानापत्त्या कारकत्वानापत्तिरिति हेलाराजः ।

उपकार्योपकारकत्वसम्बन्धस्तादर्थ्यचतुर्थ्यर्थः । ब्राह्मणाय दधीत्यादौ ब्राह्मणोपकारकं दधीति बोधादिति दिक् ।

(अपादानत्वविचारः)

 

तत्तत्कर्तृसमवृततत्तत्क्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वमपादानत्वम् । तदेवावधित्वं, विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पितोऽपि माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इत्यादौ बुद्धिपरिकल्पितापायाश्रयणेनैव भाष्ये पञ्चमीसाधनात् । अत एव चैत्रान्मैत्रः सुन्दर इत्यादिः लोके प्रयोगः ।
 

(शब्दालिङ्गितशाब्दबोधस्योपपादानम्)

 

वृक्षं त्यजति खग इत्यादावपादानत्ववारणाय प्रकृतधात्ववाच्येति । परस्परस्मान्मेषावपसरत इत्यत्रापादानत्वाय तत्तत्कर्तृकेति । तत्तत्पशुविशेषनिष्ठव्यापारजन्यविभागाश्रयस्तत्तत्पशुविशेषः । किं च मेषपदवाच्ययोः पशुविशेषयोः क्रियाश्रयत्वविवक्षा परस्परपदवाच्ययोस्तयोस्तु विभागाश्रयत्वविविक्षेत्यौपधिकस्तयोर्भेदः । शब्दस्वरूपोपाधिकृतभेदोऽप्यर्थे गृह्यते । यथाऽऽत्माऽत्मानमात्मना वेत्तीत्यादौ शरीरावच्छिन्नं कर्तृ, अन्तःकरणावच्छिन्नं करणं, निरवच्छिन्नं निरीहं कर्म । एकस्यैव शब्दभेदाद्भेदः शब्दालिङ्गितस्यैव सर्वत्र भानात् । तदाह-

न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।

अनुविद्धमिदं ज्ञानं सर्वं शब्देन भासते ॥इति॥

ननु ह्योतदौपाधिक भेदमादायैवात्रापादानत्वे सिद्धे किं तत्तत्कर्त्तृसमवेतेत्यनेनेति चेन्न । पर्वतात्पततोऽश्वात्पतत्यश्ववाह इत्यादावश्वस्यापादानत्वाय तत्स्वीकारात् । ननु वृक्षात्पर्णं पततीत्यादौ तादृशफलाश्रयत्वात्पर्णस्याप्यपादानत्वं विभागस्य द्विष्ठत्वादिति चेन्न । परया कर्तृसंज्ञया बाधात् । अत एव 'अपादानमुत्तराणि कारकाणि बाधन्त' इति भाष्यं सङ्गच्छते ।

(भूषणकारादिमतखण्डनम्)

 

यत्तु केचिद्गत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयत्वमपादानत्वमिति; तन्न । तत्तद्वाक्ये मेषाश्वयोरपादानत्वानापत्तेः ।

यदपि अपसरत इति सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रतीतेरस्यापादानत्वमविरुद्धमिति तन्न । क्रियाया एकत्वात् । अत एव 'न वै तिङन्तान्येकशेषारम्भं प्रयोजयन्ति क्रियाया एकत्वादिति' भाष्यं सङ्गच्छते ।

पञ्चम्यर्थोऽवधिः । वृक्षावधिकं पर्णकर्तृकं पतनमिति बोधः । पर्वतावधिकपतना-श्रयाभिन्नाश्वावधिकमश्ववाहकर्त्तृकं पतनमिति बोधः । परस्परमेषावधिकं द्वित्वाव-च्छिन्नमेषकर्त्तृकमपसरणमिति बोध इति दिक् ।

(अधिकरणत्वविचारः)

 

कर्त्तृकर्मद्वारकफलव्यापाराधारत्वमधिकरणत्वम् । यथा स्थाल्यामोदनं गृहे पचतीत्यादौ कर्मद्वारकविक्लृत्तिरूपफलाधारः स्थाली, कर्तृद्वारकव्यापाराधारो गृहमिति ।

ननु साक्षात्क्रियाधारयोरोदनचैत्रयोरधिकरणत्वलब्धौ परम्परया तदाधारयोर्गृहस्थाल्योस्तत्संज्ञा त्वयुक्तेति चेन्न । परत्वात्कर्तृककर्मसंज्ञाभ्यां साक्षादाधारीभूते बाधात् । स्थाल्याधिकरणिका या ओदननिष्ठा विक्लित्तिस्तदनूलो गृहाधिकरणको मैत्रकर्तृको व्यापार इति बोधः ।

(अधिकरणस्य त्रैविध्यम्)

 

तच्चाधिकरणं त्रिधा । अभिव्यापकमौपश्लेषिकं वैषयिकं चेति । तत्र सकलावयवव्याप्तौ व्यापकाधारत्वम्, यथा तिलेषु तैलमस्तीत्यादि । उप समीपे श्लेषः सम्बन्ध उपश्लेषस्तत्कृतमौपश्लेषिकम् । यथा कटे गावः सन्ति । अत एवेको यणचीत्यादावौप्श्लेषिकाधारे सप्तम्युक्ता संहितायामिति सूत्रे भाष्ये । तत्राजादिसामीप्यमेवेगादीनाम् । यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेषिकमधिकरणम् । मासिकं धान्यमित्युक्तं 'तत्र च दीयते' इति सूत्रे भाष्ये ।

यत्तु कटे आस्ते इत्यौपश्लेषिकोदाहरणमुक्तं तदयुक्तमुक्तभाष्यविरोधात् । एतद्द्वयातिरिक्तवैषयिमधिकरण । कटे आस्ते जले सन्ति मत्स्या इत्यादि । अभिव्यापकातिरिक्तं गौणमधिकरणमिति बोध्यं सप्तम्यर्थौऽधिकरणमिति दिक् ।
 

(सप्तम्यर्थविचारः)

 

ज्ञापकक्रियाश्रयवाचकादुत्पन्नायाः सत्सप्तम्यास्तु क्रियान्तरज्ञापकत्वमित्यर्थः । तत्रानिर्णीतकालिकायाः क्रियाया निर्णितकालिका ज्ञापिका । गोषु दुह्यमानासु गत इत्यादौ गोनिष्ठदोहनक्रियाज्ञापितगमनाश्रयश्चैत्र इति बोधः ।

(षष्ठ्यर्थविचारः)

 

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः सम्बन्धः षष्ठ्या वाच्यः । तत्र राज्ञः पुरुष इत्यादौ षष्ठीवाच्यसम्बन्धस्याश्रयाश्रयिभावसम्बन्धेन पुरुषेऽन्वयः । राजनिरूपितसम्बन्धवान् पुरुष इति बोधात् ।

ननु सम्बन्धस्योभयनिष्ठत्वात् पुरुषशब्दादपि षष्ठ्युत्पत्तिरस्वीति चेन्न । राज सम्बन्धि पुरुष इति विविक्षायां राजशब्दादेव षष्ठी । प्रकृत्यर्थप्रत्ययार्थोः प्रत्ययार्थस्यैव प्राधान्यमिति व्युत्पत्त्यनुरोधात् । अन्यथा तद्विवक्षायां राजा पुरुषस्येति पुरुषशब्दात् षष्ठ्यां पुरुषार्थं प्रति षष्ठ्यर्थस्य विशेषणत्वापत्त्या व्युत्पत्तिभङ्गापत्तेः । अत एवाह-

भेद्यभेदकयोश्चैकसम्बन्धोऽन्योन्यमिष्यते ।

द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ॥इति॥

भेदकः सम्बन्धनिरूपको, भेद्यः सम्बन्धाश्रयः ।

॥इति षट्कारकाणि॥