Logo SanskritVani

तात्पर्यविचारः

(तात्पर्यविचारः)

एतद्वाक्यं पदं वा एतदर्थबोधायोच्चारणीयमितीश्वरेच्छा तात्पर्यम् । अत एव सति तात्पर्ये सर्वे सर्वार्थवाचका इति शाब्दिकनये घटशब्दात्पटप्रत्ययो नेत्याद्युक्तम् । नानार्थस्थले लोके तात्पर्यन्तु एतत्पदं वाक्यं वा एतदर्थप्रत्ययाय मयोच्चार्यते इति प्रयोक्तुरिच्छारूपं, तात्पर्यनियामकं च लोके प्रकरणादिकमेव; अतो भोजनप्रकरणे सैन्धवमानयेत्युक्ते सैन्धवपदेन लवणप्रत्ययः । युद्धाऽवसरेऽश्वप्रत्ययः । वेदवाक्ये ऐश्वरतात्पर्यादर्थबोधः ।
ननु प्रकरणादीनां शक्तिनियामकत्वे शक्त्यैव निर्वाहे किन्तात्पर्येणेति चेन्न । अस्माच्छब्दादर्थद्वयविशेष्यको बोधो जायते अर्थद्वये शक्तिसत्त्वात्तात्पर्यं तु क्वेति न जानीम इत्यनुभवविरोधात् । अत एव च पय आनयेत्युक्तेऽप्रकरणज्ञस्य दुग्धं जलं वा आनेयमिति प्रश्नः सङ्गच्छते ।