अनुभूयते सुखं, साक्षात्क्रियते गुरुरित्यादौ निपातानां द्योतकत्वेनानुभवसाक्षात्काररूपफलयोर्धात्वर्थत्वेन सकर्मकत्वम् । कर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वमिति निष्कृष्टमतेऽपि फलश्रयतया कर्मसंज्ञकस्य धात्वर्थफले एवान्वयौचित्येन द्योतकत्वमावश्यकम् । द्योतकत्वञ्च स्वसमभिव्याहृतपदनिष्ठवृत्त्युद्बोधकत्वम् । क्वचित्तु क्रियाविशेषाक्षेपकत्वं द्योतकत्वम् । यथा प्रादेशं विलिखतीत्यादौ विर्विमानक्रियाक्षेपकः । प्रादेशं विमाय लिखतीत्यर्थावगमात् । अत एवाथशब्दानुशासनमित्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं कैयाटाद्युक्तं सङ्गच्छते । क्वचित्तु सम्बन्धपरिच्छेदकत्वं द्योतकत्वम् । यथा कर्मप्रवचनीयानाम् । विशिष्टस्य न धातुत्वम्, अपाठात् अडाद्यव्यवस्थापत्तेश्च ।
यत्तु तार्किका उपसर्गाणां द्योतकत्वं तदितरनिपातानां वाचकत्वं 'साक्षात्प्रत्यक्षतुल्ययोः' इतिकोशात् । नमः पदेन देवाय नम इत्यादौ नमस्कारार्थत्वस्य दानावसरे गवे नम इत्यत्र पूजार्थत्वस्य प्रसिद्धत्वाच्च । सकर्मकत्वं च — स्व-स्वसमभिव्याहृत-निपातान्यतरार्थफलव्यधिकरणव्यापारवाचकत्वम् । कर्मत्वं च स्व-स्वसमभिव्याहृतनिपातान्यतरार्थफलशालित्वमित्याहुः ।
तन्न; वैषम्ये बीजाभावात्, अनुभूयत इत्यनेन साक्षात्क्रियत इत्यस्य समत्वात् । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयाभावात्, निपातार्थधात्वर्थयोरन्वयस्यैवासम्भवात्, निपातार्थफलाश्रयत्वेऽपि धात्वर्थान्वयं विना कर्मत्वानुपपत्तेश्च ।
यदपि केचिच्छाब्दिकाः निपातानां वाचकत्वे शोभनः समुच्चय इतिवच्छोभनश्च इत्यापत्तिः, घटस्य समुच्चय इतिवत् घटस्य च इत्यापत्तिः, पटं घटं च पश्येत्यादौ षष्ठ्यापत्तिश्चेत्याहुः ।
तन्न; शब्दशक्तिस्वभावेन निपातैः स्वार्थस्य परविशेषणत्वेनैव बोधनेन विशेषणान्वयाप्रसङ्गात् । चशब्दद्योत्यसमुच्चयस्यासत्वभूतत्वात् षष्ठ्याप्राप्तेश्च । किञ्च घटं पटं च पश्येत्यादौ घटपदस्य घटप्रतियोगिकसमुच्चयवति अप्रसिद्धा शक्तिरेव लक्षणा चशब्दस्तु तात्पर्यग्राहकः । अत एवोभयोः सामानाधिकरण्येन क्रियान्वयाद् द्वितीया । घटसमुच्चयवन्तं पटम्पश्येति बोधः । त्वन्मतेऽपि समुच्चयस्य प्रतियोग्याकाङ्क्षायां सन्निहितत्वात् घटस्य प्रतियोगित्वं, पटे तु समुच्चयस्य भेदेनान्वयो न तु पटस्य समुच्चये इति क्व षष्ठ्यापादनम्, नामार्थयोरभेदान्वयव्युत्पत्तिस्तु निपातातिरिक्तविषया ।
निपातानामर्थवत्त्वमपि द्योत्यार्थमादायैव शक्तिलक्षणाद्योतकतान्यतमसम्बन्धेन बोधकस्यैवार्थवत्त्वात् । नञ्समासे उत्तरपदार्थप्राधान्यं द्योत्यार्थापेक्षयैव । प्रतिष्ठते इत्यत्र तिष्ठतिरेव गतिवाची, धातूनामनेकार्थत्वात् । प्रशब्दस्तु तदर्थगत्यादिमत्त्वस्य द्योतकः ।
अत एव धातुः पूर्वं साधनेन युज्यते पश्चादुपसर्गेणेति सिद्धान्तितम् । साधनं कारकं तत्प्रयुक्तकार्येण, उपसर्गेण उपसर्गसंज्ञकशब्देनेत्यर्थः । तत्र हि भाष्ये — 'पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने'ति । इतर आह — नैतत्सारं पूर्वं धातुस्साधनेन युज्यते पश्चादुपसर्गेण । साधनं हि क्रियां निवर्तयति तामुपसर्गो विशिनष्टीति । सत्यमेवैतत् । यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरं कृत्वा धातुस्साधनेन युज्यते यो ह्योवं मन्यते तस्य आस्यते गुरुणा इत्यकर्मक उपास्यते गुरुरिति केन सकर्मकः स्यात् । हरिणाऽप्युक्तम् —
धातोस्साधनयोगस्य भाविनः प्रक्रमाद्यथा ।
धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥
बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः ।
अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥इति॥
अस्यार्थः — यथा भाविसाधनसम्बन्धाश्रयणेन क्रियावाचित्वमाश्रित्य धातुसञ्ज्ञोच्यते यथा च सन्प्रत्यये चिकीर्षिते भावीषिकर्मत्वमाश्रित्योपक्रमे एवेषिकर्मत्व्मुक्तम्, तथा भाव्युपसर्गसम्बन्धादुपक्रमे एव विशिष्टक्रियावाचकत्वं दृश्यताम् । धातूपसर्गयोस्सम्बन्धं बुद्धिविषयीकृत्योपसर्गार्थकृतो विशेषः धातुनैवाभ्यन्गरीकृतः पदप्रयोगकाले उपसर्गसम्बन्धे सति प्रकाशते । श्रोतुरिति शेषः । उपसर्गयोगात् प्रागेव धातुनैवोपसर्गार्थविशिष्टः स्वर्थ उच्यते इति तात्पर्यम् । पूर्वं धातुरुपसर्गेणेति तु तदर्थस्य धात्वर्थान्तर्भावाद् व्यवहारः ।
चन्द्र इव मुखमित्यादौ चन्द्रपदस्य स्व्सदृशेऽप्रसिद्धा शक्तिरूपा लक्षणा 'नञिवयुक्तमन्यसदृशाधिकरणे' इति न्यायात् । इवपदं तात्पर्यग्राहकम् । तात्पर्यग्राहकत्वञ्च स्वसमभिव्याहृतपदस्यार्थान्तरशक्तिद्योतकत्वमित्यागतम् इवनिपातस्य द्योतकत्वम् ।
यत्तु इवार्थस्सादृश्यं तत्र प्रतियोग्यनुयोगिभावेनैव चन्द्रमुखयोरन्वयोपपत्तौ किं लक्षणया । तथा च चन्द्रप्रतियोगिकसादृश्यस्याश्रयो मुखमिति बोध इत्याहुः; तन्न । चन्द्र इव मुखं दृश्यते, चन्द्रमिव मुखं पश्यामीत्यदौ चन्द्रपदस्य मुखरूपकर्मसामानाधिकरण्याभावादुक्तानुक्तत्वप्रयुक्तविभक्त्यनापत्तेः षष्ठ्यापत्तेश्च ।
परे त्विवशब्दयोपमानताद्योतकत्वम् । उपमानत्वञ्च उपमानोपमेयोभयनिष्ठसाधारणधर्मवत्त्वेनेषदितरपरिच्छेदकत्वम् । तद्धर्मवत्तया परिच्छेद्यत्वञ्चोपमेयत्वम् । साधारणधर्मसमबन्धश्च क्वचिद् विशेष्यतयाऽन्वेति क्वचिद् विशेषणतया । एवञ्च इव आह्लादकं मुखमित्यादौ अह्लादकोपेमानभूतचन्द्राभिन्नमाह्लादकं मुखमिति बोधः । चन्द्र इव मुखमाह्लादयतीत्यादौ चोपमानभूतचन्द्रकर्तृकाह्लादाभिन्नो मुखकर्तृकाह्लाद इति बोधः । इदमुपमानानि सामान्यवचनैरित्यत्र भाष्ये स्पष्टमित्याहुः ।
नञ् द्विविधः — पर्युदासः प्रसज्यप्रतिषेधश्च । तत्रारोपविषयत्वं नञ्पर्युदासद्योत्यम् । आरोपविषयत्वद्योतकत्वञ्च नञः समभिव्याहृतघटादिपदानामारोपितप्रवृत्तिनिमित्तबोधकत्वे तात्पर्यग्राहकत्वम् । प्रवृत्तिनिमित्तं घटत्वब्राह्मणत्वादि, तस्माद् अब्राह्मण इत्यादौ आरोपितब्राह्मणत्ववान् क्षत्रियादिरिति बोधः । अत एवोत्तरपदार्थप्राधान्यं नञ्तत्पुरुषस्येति प्रवादस्सङ्गच्छते । अत एव चातस्मै ब्राह्मणाय असः शिव इत्यादौ सर्वनामकार्यम् । अन्यथा गौणत्वान्न स्यात् ।
प्रवृत्तिनिमित्तारोपस्तु सदृशे एव भवतीति पर्युदासः सदृशग्राहुः' इति प्रवादः । पर्युदासे निषेधस्त्वार्थः । अन्यस्मिन्नन्यधर्मारोपस्तु आहार्यज्ञानरूपः । बाधकालिकमिच्छाजन्यं ज्ञानमेवहार्य्यमिति वृद्धाः । सादृश्यादयस्तु प्रयोगोपाधयः, पर्युदासे त्वार्थिकार्थाः । तदुक्तं हरिणा —
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ॥इति॥
तत्सादृश्यम् गर्दभेऽनश्वोऽयमित्यादौ । अभावस्तु प्रसज्यप्रतिषेधे वक्ष्यते, तदन्यत्वम् अमनुष्यं प्राणिनमानयेत्यादौ । तदल्पत्वम् अनुदरा कन्या इत्यत्रार्थात्स्थूलत्वनिषेधेनोदरस्याल्पत्वं गम्यते । अप्राशास्त्यं ब्राह्मणे अब्राह्मणोऽयमिति प्रयोगे । विरोधः असुरः अधर्म इति प्रयोगे ।
पर्युदासस्तु स्वसमभिव्याहृतपदेन सामर्थ्यात्समस्त एव । क्वचित्तु 'यजतिषु ये यजामहं करोति नानुयाजेषु' इत्यादौ घटः अपटो भवतीत्यर्थके घटो न पट इत्यादौ च समासविकल्पादसमासेऽपि । अत्राऽन्योन्याभावः फलितो भवति ।
प्रसज्यप्रतिषेधस्तु समस्तोऽसमस्तश्चेति द्विविधः । तत्र विशेष्यतया क्रियान्वयनियमात्सुबन्तेनासामर्थ्येऽपि असूर्यललाटयोरित्यादिज्ञापकात्समासः । तदुक्तम्-
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् । इति ।
अत्र क्रियापदं गुणस्याप्युपलक्षणमिति बहवः । अत एव नञ्सूत्रे भाष्ये 'प्रसज्यायं क्रियागुणौ ततः पश्चान्निवृत्तिं करोति' इत्युक्तम् । उदाहरणम् — नास्माकमेकं प्रियमिति । एकप्रियप्रतिषेधे बहुप्रियप्रतीतिः । एवं 'न सन्देहः नोपलब्धिः' इत्याद्युदाहरणं गुणम्य सन्देहादीनां गुणत्वात् ।
क्रियोदाहरणम् — 'अनचि च' 'गेहे घटो नास्ति' इत्यादि । तस्य समस्तस्य तु अत्यन्ताभाव एवार्थः । असमस्तस्य तु अत्यन्ताभावोऽन्योन्याभावश्च । तादात्म्येतरसम्बन्धाभावोऽत्यन्ताभावः । तादात्म्यसम्बन्धाभावोऽन्योन्याभावो भेद इत्यर्थः । असूर्यम्पश्या राजदाराः, गेहे घटो नास्ति, घटो न पटः इत्युदाहरणानि । प्रागभावप्रध्वंसाभावौ तु न नञ्द्योत्यौ ।
तत्रान्त्यन्ताभावो विशेष्यतया तिङन्तार्थक्रियान्वय्येव । नञार्थात्यन्ताभावविशेष्यकबोधे तिङ्समभिव्याहृतधातुजन्योपस्थितेः कारणत्वात् । तथा च घटो नास्तीत्यादौ घटकर्तृकसत्ताप्रतियोगिकोऽभाव इति बोधः । अत एवाहं नास्मि त्वं नासीत्यादौ घटौ न स्तो घटा न सन्तीत्यादौ च पुरुपवचनव्यवस्थोपपद्यते । अन्यथा युष्मदादेस्तिङ्सामानाधिकरण्याभावात् मदभावोऽस्तीत्यादाविव सा न स्यात् । असन्देह इत्यदौ तु आरोपितार्थकनञैव समासः । अत्यन्ताभावस्तु फलित एव । वायौ रूपं नास्तीत्यत्र तु तात्पर्यानुपपत्त्या रूपप्रतियोगिकात्यन्ताभावे लक्षणा, तेन वाय्वधिकरणिकारूपाभावकर्तृका सतेति बोधः ।
वस्तुतस्तु समनियताभावैक्यमाश्रित्य फलितार्थ एवायम्, अरूपमस्तीत्यर्थकं वा तत् । एतेनात्यन्ताभावप्रकारकक्रियाविशेष्यको बोध इति तार्किकोक्तमपास्तम् ।
नन्वेवं घटसत्तारूपोऽर्थः प्रथमं बुद्धो नञा निवर्तयितुमशक्यः, सतो निषेधायोगादसतस्त्वादेव निवृत्तिः सिद्धा निषेधो व्यर्थः । तदुक्तम्-
सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ॥इति चेन्न॥
बौद्धो हि शब्दो वाचकः बौद्ध एवार्थो वाच्य इत्य्क्तत्वात् बुद्धिसतोऽप्यर्थस्य नञा बाह्यसत्तानिषेधात् । बुद्धौ सन्नपि घटो बहिर्नास्तीत्यर्थात् ।
न च घटास्तिपदाभ्यां या घटविषयाऽस्तिबुद्धिर्जाता सा नञा निवर्त्यते किं बौद्धार्थस्वीकरणेति वाच्यम् । बुद्धेश्शब्दावाच्यत्वेन नञा तन्निषेधायोगात् । एतेन बौद्धार्थमस्वीकुर्वन्तो नञर्थबोधाय कष्टकल्पनां कुर्वन्तस्तार्किकाः परास्ताः ।
घटो न पट इत्यत्र घटपदस्य घटप्रतियोगिकभेदाश्रये अप्रसिद्धा शक्तिरेव लक्षणा, नञ्पदं तात्पर्यग्राहकम् । तात्पर्यग्राहकत्वं द्योतकत्वमेवेत्युक्तम् । अत एवान्योन्याभावबोधे प्रतियोग्यनुयोगिपदयोः समानविभक्तिकत्वं नियामकमिति वृद्धोक्तं सङ्गच्छते ।
यत्तु घटपदं घटप्रतियोगिके लाक्षणिकं नञ्पदन्तु भेदवति । अतो घटप्रतियोगिकभेदवान्पट इति बोध इति तार्किकरुक्तम्; तन्न । भेदवति नञर्थे भेदस्यैकदेशत्वात् तत्र घटार्थनन्वयापत्तेः । 'पदार्थ पदार्थेनान्वेति न तु पदार्थैकदेशेन' इति न्यायात् । पदद्वये लक्षणास्वीकारे गौरवाच्च । भाष्यमते लक्षणाया निपातानां वाचकत्वस्य च स्वीकाराभावादिति संक्षेपः ।
एवशब्दस्यार्थोऽवधारणमसम्भवश्च । 'एवे चानियोगे' इति वार्तिके नियोगोऽवधारणम् । तदभावोऽसम्भव इति कैयटोक्तेः । अनयोरर्थयोरेवशब्दो द्योतकः । अत एव तं विनापि तदर्थप्रतीतिः । 'सर्वं वाक्यं सावधारणमिति वृद्धोक्तं सङ्गच्छते । लवणमेवासौ भुङ्क्ते इत्यादौ प्राचुर्यार्थकस्य घट एव प्रसिद्ध इत्यादावप्यर्थकस्य क्वेव भोक्ष्यसे इत्यादावसम्भवार्थकस्य च तस्य सत्त्वमित्यालङ्कारिकाः ।
तच्चावधारणं त्रैविध्यम् । विशेष्यसङ्गतैवकारेऽन्ययोगव्यवच्छेदरूपं, विशेषणसङ्गतैवकारेऽयोगव्यवच्छेदरूपं,क्रियासङ्गतैवकारेऽत्यन्तायोगव्यवच्छेदरूपम् ।
विशेष्ये- पार्थ एव धनुर्धरः । पार्थेतरावृत्ति यद्धनुरर्थरत्वं तादृशधनुर्धरत्ववान् पार्थ बोधः इत्यन्यस्मिन् धनुर्धरत्वसम्बन्धव्यवच्छेदः ।
विशेषणे- शङ्खः पाण्डुर एव । अयोगः सम्बन्धावः, तस्य व्यवच्छेदो निवृत्तिः, द्वाभ्यां निषेधाभ्यां प्रकृतार्थदाढ्यर्थबोधनेन अव्यभिचरितपाण्डुरत्वगुणवान् शङ्ख इति बोधं इत्ययोगव्यवच्छेदः । न तु नील इति तु फलति ।
क्रियायां- नीलं सरोजं भवत्येव । अत्यन्तोऽतिशयितोऽयोगः सम्बन्धाभावस्तस्य व्यवच्छेदोऽभावः । तथा च कदाचिन्नीलत्वगुणवदभिन्नं यत्सरोजं तत्कर्तृका सत्तेति बोधः । कदाचिदन्यादृशगुणसंयुक्तमित्यपि गम्यते इत्यत्यन्तायोगव्ययच्छेदः ।
क्वचिदेवशब्दं विनापि नियमप्रतीतिः । तदुक्तं भाष्ये- अभक्ष्यो ग्राम्यकुक्कुट इत्येतेषां वैयर्थ्यम् । भार्यां विवाहिताम् । तत्राह- व्यवस्थितिरिति । तेषु पुनः प्रापणमित्यर्थः । नियमस्यान्यनिवृत्तिफलकत्वादाह- आसु निवृत्तिरिष्टेति । अन्येष्विति शेषः । तदुक्तम्-
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥
स्वर्गकामोऽश्वमेधेन यजेतेति विधिः । क्षुत्प्रतिघातो यद्यपि शशकादिमांसैः श्वादिमांसैश्च भवति तथापि शशकादिमांसैरेव कर्त्तव्य इति परिसङ्ख्यायते 'पञ्च पञ्चनखा भक्ष्या' इत्यनेन । नखविदलनावहननाभ्यां व्रीहेर्निस्तुषीकरणं प्राप्तम् । तत्रावहननेन निस्तुषीकरणं पुण्यजनकमिति व्रीहीनवहन्तित्यनेन नियम्यते । यद्यपि परिसङ्ख्यायां नियमे च स्वार्थहानिः प्राप्तबाधः परार्थकल्पना चेति दोषत्रयं तथाप्यनन्यगत्या स्वीक्रीयत इति वृद्धाः । 'पञ्च पञ्चनखा' इत्यस्य नियमत्वेन भाष्ये व्यवहृतत्वात् । अन्यनिवृत्तिरूपफलेनैक्याच्च नियमपदेन परिसङ्ख्यापि व्याकरणे गृह्यत इति संक्षेपः ।
॥इति निपातार्थनिरूपणम्॥