यद्यपि लकाराणामेवार्थनिरूपणं तार्किकैः कृतम् तथापि 'उच्चारित एव शब्दोऽर्थप्रत्यायको नानुच्चारित' इति भाष्याल्लोके तथैवानुभवाच्चेति तदादेशतिङामर्थो निरूप्यते । 'वर्त्तमाने लट्' इत्यादिविधायक 'लः कर्मणि' इति शक्तिग्राहकसूत्राणामादेशार्थं स्थानिन्यारोप्य प्रवृत्तिः । तत्र सङ्ख्याविशेष-कालविशेष-कारकविशेषभावाः लादेशमात्रस्यार्थाः । तथाहि — लडादेशस्य वर्त्त्मानकालः शबादिसमभिव्याहारे कर्ता, यक्चिण्समभिव्याहारे भावकर्मणी, उभयसमभिव्याहारे एकत्वादिसङ्ख्या चार्थः । तदाह-
फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः।
व्यापारे श्नम्शबाद्यास्तु द्योतयन्त्याश्रयान्वयम् ॥इति॥
फलव्यापरौ तु धात्वर्थावित्युक्तमेव, तत्र तिङ्समभिव्याहारे तदर्थसङ्ख्यातदर्थकारके विशेषणम् । कालस्तु व्यापारे । तदाह-
फलव्यापरयोर्धातुराश्रये तु तिङः स्मृताः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥इति॥
तिङर्थः कर्ता व्यापारे, कर्म च फले विशेषणम् ।
'क्रियाप्रधानमाख्यातम्' इति यास्कोक्कतौ क्रियापदं करणव्युत्पत्त्या व्यापारपरं कर्मव्युत्पत्त्या फलपरमिति बोध्यम् । तथा च ग्रामं गच्छति चैत्र इत्यत्रैकत्वावच्छिन्नचैत्राभिन्नकर्तृको वर्त्तमानकालिको ग्रामाभिन्नकर्मनिष्ठो यस्संयोगः तदनुकूलो व्यापारः, ग्रामो गम्यते मैत्रेणेत्यत्र तु मैत्रकर्तृकवर्त्तमानकालिकव्यापारजन्यः ग्रामाभिन्नकर्मनिष्ठः संयोग इति च बोधः ।
वर्तमानकालत्वं च प्रारब्धापरिसमाप्तक्रियोपलक्षितत्वम् ।
लिट्लिङस्तु भूतानद्यतनकालः परोक्षत्वं चाधिकोऽर्थः । शेषं लड्वत् । परोक्षत्वं च कारके विशेषणं न तु क्रियायाम्, तस्या अतीन्द्रियत्वेन लिट्सूत्रे भाष्ये प्रतिपादनात् व्यभिचाराभावात् । कृभ्वाद्यनुप्रयोगस्थले कृभ्वसां क्रियासामान्यमर्थः । आम्प्रकृतेस्तु तत्तत्क्रियाविशेषः । सामान्यविशेषयोरभेदान्वयः । अकर्मकप्रकृतिकामान्तानुप्रयुक्तकृभ्वसामकर्मिकैव क्रिया ।
वस्तुतस्तु अनुप्रयुक्तानां कृभ्वसां फलशून्यक्रियासामान्यवाचकत्वमेव । सकर्मकाकर्मकत्वव्यवहारस्तु आम्प्रकृतिभूतधातोरेवेति निष्कर्षः । एवं च एधाञ्चक्रे चैत्र इत्यत्र एकत्वावच्छिन्नपरोक्षत्वावच्छिन्नचैत्रकर्तृका भूतानद्यतनकालाधिकरणिका वृद्ध्यभिन्ना क्रियेति बोधः ।
परोक्षत्वं च साक्षात्कृतमित्येतादृशविषयताशालिज्ञानाविषयत्वम् । भूतानद्यतनत्वं च अद्यतनाष्टप्रहरीव्यतिरिक्तत्वे सति भूतत्वम् ।
लुडादेशस्य तु भविष्यदनद्यतनार्थोऽधिकः । शेषं लड्वत् । भविष्यत्त्वं च वर्त्तमानप्रागभावप्रतियोगिक्रियोपलक्षितत्वम् ।
लृट्तिङस्तु भविष्यत्सामान्यमर्थः ।
लेट्तिङस्तु विध्यादिरर्थः । 'छन्दसि लिङर्थे लेट्' इति सूत्रात् । लट्प्रक्रियातो लेटोऽडाटाविति विशेषः । भवाति भवतिति प्रयोगदर्शनात् ।
लोट्तिङस्तु विध्यादिरर्थः । तत्राधीष्टं सत्कारपूर्वको व्यापारः । आगच्छतु भवान् जलं गृह्णातु । सम्प्रश्नोऽनुमतिः । गच्छति चेद् भवान् गच्छतु इत्यादौ ।
लङादेशस्य तु भूतानद्यतनमधिकोऽर्थः । शेषं लड्वत् ।
लिङादेशस्य तु विध्यादिरर्थः । तत्र विध्यादिचतुष्टयानुस्यूतप्रवर्त्तनात्वेन चतुर्णां वाच्यता लाघवत् । तदुक्तं हरिणा-
अस्तिप्रवर्त्तनारूपमनुस्यूतं चतुर्ष्वपि ।
तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥इति॥
प्रवर्तनात्वं च प्रवृत्तिजनकज्ञानविषयतावच्छेदेकत्वम् तच्चेष्टसाधनत्वमेव तदेव लिङर्थः । न तु कृतिसाध्यत्वं तस्य यागादौ लोकत एव लभादित्यन्यलभ्यत्वात् । न च बलवदनिष्टाननुबन्धित्वं, द्वेषाभावेनान्यथासिद्धत्वात् इत्यन्यत्र विस्तरः ।
लुङादेशस्य तु भूतसामान्यमर्थः । भूतत्वं च वर्त्तमानध्वंसप्रतियोगिक्रियोपलक्षितत्वम् ।
लृङादेशस्य तु क्रियातिपत्तौ गम्यमानायां हेतुहेतुमद्भावे च गम्यमाने भूतत्वं भविष्यत्वञ्चार्थः । आपादना तु गम्यमाना । भूते एधश्चेदलप्स्यत ओदनमपक्ष्यत् । भविष्यति, सुवृष्टिश्चेदभविष्यत्सुभिक्षमभविष्यदिति संक्षेपः ।
अथ नैयायिकानां मते संक्षेपाल्लकाराणामर्थो निरुप्यते । तत्र लडादिलृङन्ता दश लकाराः । तत्र लकारस्य कर्त्ता कालः सङ्ख्या चेति त्रयोऽर्थाः । तत्र कर्तेति पातञ्जलाः । 'लः कर्मणि च' इति सूत्रे कर्तुः परामर्शात् । कर्तृस्थाने व्यापार इति भाट्टाः । यत्न इति नैयायिकाः । युक्तं चैतत् । व्यापारताद्यपेक्षया लाघवेन यत्नत्वस्यैव शक्यतावच्छेदकत्वात् । शक्तावच्छेदकं च लकारसाधारणं लत्वमेव । भवतीत्यादौ चादेशेनादेशिनो लस्यैव स्मरणादन्वयधीः । आदेशेषु बहुषु शक्तिकल्पने गौरवात्तदस्मरणे च शक्तिभ्रमादेवान्वयधीः । 'चैत्रो गन्ता गतो ग्रामः' इत्यादौ शतृशानचोरादेशत्वात्कथं कर्तरि शक्तिः । आदेशिशक्त्या निर्वाह एवादेशशक्त्यकल्पनात् । चैत्रः पचन्नित्यादौ सामानाधिकरण्यानुरोधादादेशिशक्त्याऽनिर्वाहादत्रादेशेऽपि शक्तिः ।
इयांस्तु विशेषः- लत्वेन यत्ने शक्तिः, आत्मनेपदत्वेन फले । मैत्रेण गम्यते ग्राम इत्यादौ मैत्रवृत्तिकृतिजन्यगमनजन्यफलशाली ग्राम इत्यन्वयबोधात् । कृतिश्चात्र तृतीयार्थः । जन्यत्वं संसर्गः । मैत्रः कृतौ विशेषणम्, सा च गमने, तच्च फले, तच्च ग्रामे । 'ग्रामं गच्छति मैत्र' इत्यत्र तु ग्रामवृत्तिफलजनकगमनानुकूलकृतिमान्मैत्र इति बोधः । फलं च द्वितीयार्थः । जनकत्वं संसर्गः । ग्रामश्चात्र फले विशेषणम्, तद्गमने, तच्च कृतौ, सा मैत्रे इति च विशेष्यविशेषणाभावभेदेनैव कर्मकृर्तृस्थलीयबोधयोर्विशेषः । तावन्तः पदार्थासतूभयत्रैव तुल्याः । मैत्रेण ज्ञायते इष्यते क्रियते घट इत्यादौ वृत्तिस्तृतीयाया, विषयता त्वाख्यातस्यार्थः । मैत्रवृत्तिज्ञानविषयो घट इति बोधः । घटं जानाति मैत्र इत्यादौ तु विषयता द्वितीयाया आश्रयत्वं चाख्यातस्यार्थः । घटविषयकज्ञानाश्रयो मैत्र इति बोधः ।
कालश्चातीतवर्त्तमानानागतात्मा यथायथं लडादेरर्थः । लटो भवतीत्यादौ वर्त्तमानत्वं लङ्लुङ्लिटाम् अभवत् अभूत् बभूवेत्यादौ भूतकालः । लुट्लृटोर्भविता भविष्यतीत्यादौ भविष्यत्कालः । लिङ्लोड्लेटां भवेत् भवतु आग्नेयोऽष्टाकपालो भवतीत्यादौ विधिः । सङ्ख्या च केवलार्थः ।
लेटस्तु छन्दस्येव प्रयोगः । तत्र दीर्घत्वमपि विकल्पेन भवति, भवातीति दर्शनात् । तत्र व्यापारदिबोधकेन लटा वर्त्तमानत्वं व्यापारादावेव बोध्यते । पचतीत्यादितो वर्त्तमानपाकानुकूलव्यापारवानिति बोधात् । एवमन्यत्रापि ।
व्यापारबोधकाख्यातजन्यवर्त्तमानत्वप्रकारकबोधे आख्यातजन्य- व्यापारोपस्थियतेर्हेतुत्वकल्पनान्नातिप्रसङ्गः ।
व्यापारबोधकज्ञाधात्वादिसमभिव्याहृताख्यातजन्यवर्त्तमानत्वप्रकारकबोधे तु तादृशधातुजन्योपस्थितिर्हेतुः । कार्यकारणतावच्छेदिका च प्रत्यासत्त्या विषयतैवेति नातिप्रसङ्गः । जानाति इच्छति यतते इत्यदौ वर्त्तमानत्वाश्रयज्ञानाश्रयत्वादिबोधस्यैवानुभविकत्वात् ।
तत्र लटा शक्त्या वर्त्तमानत्वं लक्षणयाऽश्रयत्वं बोध्यत इति विशेषः । लटा स्वाधिकरणकालोपाधिस्पन्द एव वर्त्तमानः प्रत्याय्यते । वर्त्तमानसामीप्ये विहितेन तु स्वानाधिकरणसमीपवर्त्ती तादृशकालः । तत्रापि शक्तिर्लक्षणा वेत्यन्यदेतत् ।
नन्वेकपदोपस्थितयोः कृतिवर्त्तमानत्वयोः कथं मिथोऽन्वयः । तत्पदजन्यशाब्दबोधे पदान्तरजन्योपस्थितेर्हेतुत्वात् । कार्यतावच्छेदिका च प्रत्यसत्तिः प्रकारता । कारणतावच्छेदिका च विशेष्यतेति । अनयथा हि हरिपदार्थयोर्दण्डेनेत्यादौ च करणत्वैकत्वयोर्मिथोऽन्वयापत्तेः । मैवम्, तत्तत्पदान्वयस्योक्तव्युत्पत्तौ प्रवेशात् कथमन्यथैवकारार्थयोरन्ययोगव्यवच्छेदयोर्मिथोऽन्वयः ।
घटो नश्यतीत्यादौ वर्त्तमानोत्पत्तिकत्वं प्रतियोगित्वं च लडर्थः । आद्यं नाशेप्रकारः, द्वितीयं घटे प्रकारः । वर्त्तमानोत्पत्तिकनाशप्रतियोगी घट इति बोधस्यानुभाविकत्वात् । अत्र च वृत्तिद्वयस्य युगपद्बोधत्वं सर्वैरेषितव्यम् । तादृशोत्पत्तिकत्वप्रतियोगित्वयोरर्थयोर्युगपदेव बोधात् । न च तादृशोत्पत्तिकत्वमेवार्थोऽस्तु । धात्वर्थस्य नाशस्य घटे प्रातिपदिकार्थे साक्षादन्वयासम्भवात् । न च प्रतियोगित्वमेवार्थोऽस्त्विति वाच्यम् । चिरनष्टेऽपि नश्यतीति प्रसङ्गात् । एतेनात्र वर्त्तमानत्वमेवार्थो नोत्पत्तिरित्यपास्तम् ।
केचित्तु लत्वमेवात्र प्रतियोगित्वस्य वृत्त्यवच्छेदकं लट्त्वन्तु तादृशोत्पत्तिकत्वस्य । एकधर्मावच्छिन्नवृत्तिद्वयस्यैव न युगपद्बोधकत्वम् । अन्यथा दण्डेनेत्यादौ करणत्वैकत्वयोर्बोधो न स्यात् इत्याहुः ।
अन्ये तु नश्यतीत्यादौ लटा नाशसामग्र्येव बोध्यते । तेन न चिरनष्टे नश्यतीति प्रसङ्गः । अत एव विनश्यतौ विनाशसामग्रीसान्निध्यमित्याहुः प्रमाणिकाः ।
आख्यातात्क्रियाविशेष्यको बोध इति वैयाकरणाः भाट्टाश्च । आद्यन्ये धात्वर्थः क्रिया । चैत्रतण्डुलं पचति इत्यादितश्चैत्रकर्तृकतण्डुलकर्मकपाक इति धीः । अन्त्यनये भावना क्रिया प्रत्ययार्थः । चैत्रीयपाककरणिका तण्डुलकर्मिका भावनेति बोधः ।
प्रथमान्तार्थविशेष्यक एव बोधः । ओदनकर्मकपाकानुकूलकृतिमांश्चैत्र इति बोध इति नैयायिकाः । द्वितीयाद्यार्थकर्मकरणत्वादेः क्रियायामेव सर्वमतेऽन्वयः ।
लङस्तु शक्यो ह्यनद्यतनकालः । लुङस्तु भूतसामान्यं, भूतत्वं च वर्त्तमानध्वंसप्रतियोग्युत्पत्तिकत्वं न तु तादृशप्रतियोगित्वमेव । चिरोत्पन्नेऽपि पूर्वेद्युरभवत् इति प्रत्ययापत्तेः । अभवदित्यादौ नु धातुनोत्पत्तिः प्रत्याय्यते, नष्ट इत्यादौ तादृशोत्पत्तिकत्वं प्रत्ययनेति विशेषः । लिटस्तु भूतकाल इव परोक्षत्वमप्यर्थः । अहं चकारेत्यादिप्रयोगदर्शनात् ।
न चैवं 'णलुत्तमो वा' इति ज्ञापकात् उत्तमपुरुषस्तत्र स्यात् इति वाच्यम् । 'सुप्तोऽहं किल विललाप' 'मत्तोऽहं किल वाचचार' इत्यादौ चित्तविक्षेपादिना पारोक्ष्यमुपपाद्यं तत्र सूत्रसार्थक्यसम्भवात् । तत्र च परोक्षत्वेन पारोक्ष्यसादृश्ये तात्पर्यम् । 'चक्रे सुबन्धुः' इति तु न लिट्प्रयोगोऽपि तु तिङन्तप्रतिरूपको निपातः ।
लुट्लृटोस्तु भविष्यत्कालः । भविष्यत्वं तु वर्त्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् । उत्पत्तौ च देशविशेषः कालविशेषश्चाधिकरणत्वेनान्वेति । गृहे घटो भविता, अद्य घटो भविष्यतीत्यादौ धातुनोत्पत्तिः प्रत्याय्यते, वर्त्तमानप्रागभावप्रतियोगित्वमाश्रयत्वं च प्रत्ययेन । गृहाधिकरणकवर्त्तमानप्रागभावप्रतियोग्युत्पत्त्याश्रयो घटः, अद्यतनप्रागभावप्रतियोग्युत्पत्त्याश्रयो घट इत्यन्वयबोधात् । वर्त्तमानप्रागभावप्रतियोगित्वमात्रस्य लृडाद्यर्थत्वे श्वो गृहे समुत्पद्य परश्वः प्राङ्गणं गमिष्यति मैत्रे परश्वः प्राङ्गणे मैत्रो भविष्यतीति प्रसङ्गः ।
केचित्तु देशविशेषः कालविशेषश्च प्रागभावे प्रतियोगिनि चान्वेति । परश्वः प्राङ्गणे मैत्रो भविष्यतीत्यस्य परश्वो वृत्तिः प्राङ्गणवृत्तिर्यः प्रागभावस्तत्प्रतियोग्युत्पत्त्याश्रयः परश्वोवृत्तिः प्राङ्गणवृत्तिर्मैत्र इति बोधः । तेन नोक्तातिप्रसङ्गः । एतेन श्वो भाविनि घटे अद्य भविष्यतीति प्रसङ्गो निरस्त इत्याहुः ।
नङ्क्षयतीत्यादौ वर्त्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वं प्रतियोगित्वं च प्रत्ययार्थः । श्वो घटो नङ्क्षयतीत्यादौ श्वोवृत्तिर्वर्त्तमानप्रागभावप्रतियोगिनी योत्पत्तिस्तदाश्रयनाश प्रतियोगी घट इत्यन्वयबोधः । यत्त्वत्र वर्त्तमानप्रागभावप्रतियोगित्वमेव प्रत्ययार्थः ; तन्न । श्वोभाविनाशके घटे अद्य नङ्क्षयतीति प्रसङ्गात् ।
पक्ष्यतीत्यादौ त्वाद्यपाकव्यक्तिप्रागभावगर्भमेव भविष्यत्वम् । पक्ववानित्यादौ चरमपाकव्यक्तिध्वंसगर्भमेव भूतत्वं भासते । तत्तत्समभिव्याहारस्य तादृशबोधे हेतुत्वात् । तेन पाकमध्ये कस्याश्चित्पाकव्यक्तेरनुत्पादेऽपि कस्याश्चिदतीतत्वेऽपि न पक्ष्यति पक्ववानित्यादिप्रयोगः ।
लिङो विधिराशीश्चार्थः । यजेतेत्यादि विधिः आशीस्तु भूयादित्यादौ । सा च शुभाशंसनं तदिच्छेति यावत् । लोटस्तु विधिरनुमतिर्वा । गच्छत्वित्यत्रानुमतिविषयगमनानुकूलकृतिमानिति बोधस्यानुभविकत्वात् ।
विधिः प्रवर्त्तनेति भाट्टाः । लिङ्निष्ठो व्यापारः पदार्थान्तरं लिङ्पदज्ञानमेव वा । तस्य प्रवर्त्तनात्वेन ज्ञानं शब्दाधीनप्रवृत्तौ कारणम् । लिङ्श्रवणे आचार्यो मां प्रवर्त्तयतीति ज्ञानाद्गमनयजनादौ प्रवृत्तेः । आचार्यनिष्ठप्रवर्त्तना त्वभिप्रायविषय एवेत्याहुः ।
तन्नः; स्तनपानादिप्रवृत्ताविष्टसाधनताज्ञानस्य हेतुताया आवश्यकत्वात् तत एवोपपत्तौ प्रवर्त्तनाज्ञानहेतुत्वे मानाभावात् । स्वर्गकामो यजेतेत्यादौ प्रवर्तनाविषयायागकारणिका स्वर्गकर्मिका भावनेति बोधस्य परैरभ्युपगमात् । प्रवर्त्तनाविषयत्वमात्रज्ञानात् प्रवृत्त्यनुपपत्तेः आवश्यकस्वर्गसाधनत्वादिज्ञानादेव तत्र प्रवृत्तेः ।
कार्यं विधिरिति प्राभाकराः । स्वर्गकामो यजेतेत्यादौ स्वर्गकामनियोज्यकं यागविषयकं कार्यमिति प्रथमिको बोधः । सनियोज्यकं स्थायिस्वर्गसाधनं यागविषयकं कार्यमिति द्वितीयः । स्वर्गकामनियोज्यको यागः स्वर्गकामकार्यं इति तृतीयः । स्वर्गकामो यागकर्तेति चतुर्थः । अहं स्वर्गकामोऽतो यागो मत्कृतिसाध्य इति पञ्चमः । न च प्रथमत एव स्वर्गकामकार्यो याग यति बोधोऽस्तु, तथा च कार्यत्वे एव शक्तिर्न कार्ये इति वाच्यम् । यागादिक्रियायां नियोज्यान्वयं विना कार्यत्वान्वयानुपपत्तेः । नियोज्यत्वं हि क्रियानिष्ठकार्यसाधनताज्ञानाधीनं मत्कार्यमिति बोधवत्वम् । तच्च स्वर्गकामनाविशिष्टे योग्यतावच्छेदकतया भासते । घटेन जलमाहरेत्यत्र घटे छिद्रेतरत्ववत् । न च योगे स्वर्गसाधनत्वज्ञानं विनेदृशं नियोज्यत्वं भातुमर्हति, न वा यागे स्वर्गसाधनत्वं प्रथममेव शक्यं ज्ञातुं, तद्धि साक्षात्परम्परया वा । नाद्य; आशुविनाशिनो यागस्य कालान्तरभाविस्वर्गरूपफले साक्षादहेतुत्वात् । नान्त्यः; परम्परयाघटकापूर्वानुपस्थितेः । अतो यागविषयकं कार्यमिति प्रथमबोधादपूर्वोपस्थितौ तद्द्वारा यागे स्वर्गसाधनत्वग्रहात्तत्र कार्यत्वबोध इत्युक्तम् । नियोज्यत्वं च पदानुपस्थितमपि योगयतया शाब्दबोधे भासते द्वारमित्यत्र पिधेहीतिवत् ।
प्रवर्त्तकज्ञानविषयो विधिरिति नैयायिकाः । प्रवर्त्तकत्वं च कृतिसाध्यत्वेष्टसाधनत्वबलवदनिष्टाननुबन्धित्वानां ज्ञानम् । अतस्तेषु लिङ्शक्तित्रयं सुभेरुश्रृङ्गाहरणनिष्फलाचारणमधुविषयसम्पृक्तान्नभोजनेषु प्रवृत्तिवारणाय यथासङ्ख्यं त्रयाणामेव ज्ञानं प्रवर्त्तकम् ।
यत्तु समुदिते शक्तिरेकैवेति; तन्न । विशेष्यविशेषेणभावे विनिगमकाभावेन त्रिष्वेव पृथक्शक्तेः । एवञ्च स्वर्गकामो यजेतेत्यादौ स्वर्गकामीयो यागः कृतिसाध्यः, इष्टसाधनं बलवदनिष्टाननुबन्धी चेति बोध इत्येके ।
वस्तुतो नामार्थाधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नतया तादृशयागानुकूलकृतिमान् स्वर्गकाम इत्येव बोधः ।
कृतिसाध्यत्वं च प्रवृत्तिसाध्यत्वमतो न समुद्रतरणादौ प्रवृत्तिः । इष्टसाधनत्वं चेष्टनिष्ठसाध्यतानिरूपकत्वमतो न तृप्तस्य भोजने प्रवृत्तिः । बलवदनिष्टाननुबन्धित्वं तु स्वजन्येष्टोत्पत्तिनान्तरीयकदुःखेतरदुःखाजनकत्वम् । न हि सुखं दुःखैर्विना लभ्यत इति न्यायेन नान्तरीयकं किञ्चिद् दुःखमिष्टोत्पत्तौ अवश्यम्भावितदतिरिक्तदुःखराहित्यमेव तत्त्वम् ।
ब्राह्मणो न हन्तव्य इत्यादौ नञः कृतिसाध्यत्वेष्टसाधनत्वनिषेधे स्वारस्याभावात्तेन बलवदनिष्टाननुबन्धित्वनिषेधाद् ब्राह्मणवधो बलवदनिष्टजनक इत्यर्थः पर्यवस्यति । एतेन समुदिते लिङ्शक्तिकल्पनमपास्तम् । यद्यपि प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययस्येति व्युत्पत्त्या नञर्थे बलवदनिष्टाननुबन्धित्वान्वयोऽसम्भवी तथाप्यन्यथानिपपत्त्या एतदतिरिक्तस्थले एव सा व्युत्पत्तिः । अत एव नातिरात्रे षोडशिनं गृह्णातीत्यादौ षोडशिग्रहाणाभाव इष्टसाधनमिति बोध इति दीधितिकृतः । न हन्तव्य इत्यदौ हननाभावविषयकं कार्यमिति बोध इति गुरवः ।
ननु पचतीत्यादौ लडाद्यर्थवर्त्तमानत्वादेः यत्ने एवान्वयान्न सा व्युत्पत्तिः । मैवम् । यत्र प्रत्ययत्वं तत्र प्रकृत्यार्थान्वितस्वार्थबोधकत्वमिति व्याप्तेः यः प्रत्ययार्थः स प्रकृत्यर्थस्य विशेष्यतया भासते इति व्याप्तेश्च ।
लेटस्तु यच्छब्दासमभिव्याहृतस्यैव विधिरर्थः । समिधो यजतीत्यादौ विधिप्रत्यायात् देवांश्च याभिर्यजते ददाति च । य एवं विद्वानमावास्यायां यजते इत्यादौ तदप्रत्ययादिति ।
लृङस्तु भूतत्वं क्रियातिपत्तिश्चार्थः । अतिपत्तिरनिष्पत्तिरापादनारूपा । सा च शक्या । सा चापादना तर्कः । तर्कत्वं च मानसत्वव्याप्यो जातिविशेषः । एधांश्चेदलप्स्यत ओदनपक्ष्यत् इत्यादौ एधकर्मको भूतत्वेनापादनाविषयो लाभस्तदनुकूलकृतिमान् ओदनकर्मको भूतत्वेनापादनाविषयो यः पाकस्तदनुकूलकृतिमांश्चेति बोधः । भविष्यति क्रियातिपतनेऽपि लृङ् । यदि सुवृष्टिरभविष्यत् तदा सुभिक्षमभविष्यत् इति प्रयोगदर्शनाद्भूतत्वभविष्यत्त्वयोर्बोधनियमस्तात्पर्यात् । यदि स्यादित्यादौ लिङोऽप्यापादनायां शक्तिः । यदि निर्वह्निः स्यात्तर्हि निर्धूमः स्यदित्यादौ तस्या एव प्रतीतेः । लाघवेन स्थानिनां वाचकत्वात् सङ्ख्यापि लकारार्थः ।
॥इति लकारार्थनिरूपणम्॥