नत्वा साम्बं शिवं ब्रह्म नागेशः कुरुते सुधीः।
बालानां सुखबोधाय परिभाषेन्दुशेखरम्॥१॥
कामाख्या
गौर्यालिङ्गितनेमभागचरणौ हेरम्बसंसेवितौ
भक्ताभीष्टफलप्रदौ सुरनुतौ संसेव्य नित्यं मुहुः।
श्रीमत्पादयुगञ्च विश्वजयिनां श्रीमद्गुरूणाङ्गिरां
लेशावेशत एव वच्मि सुधियां संक्षेपतस्तोषिणीम्॥१॥
गूढविस्तृतटीकाश्च बहुशः सन्ति सन्तु चेत्।
वटूनान्तोषजननी ममैवेयं भविष्यति॥२॥
मिथिलाजन्मभूमेश्च हरिशङ्करशर्मणः।
कृतिः सतां प्रमोदाय शिवपादसमर्पिता॥३॥
नत्वेति। अम्बया सहितः साम्बः, अम्बा हि जगज्जननी माया, तत्सहितस्य परमेश्वरस्य सृष्टिकर्तृत्वमुक्तम्। बृंहयति प्रजां वर्धयतीति व्युत्पत्त्या ब्रह्मशब्देन जगत्पालनकर्त्तृत्वमुक्तम्। जगच्छेतेऽस्मिन्निति व्युत्पत्त्या शिवशब्देन प्रलयकर्त्तृत्वमुक्तम्। तथा च जगत्सृष्टिस्थितिप्रलयकर्त्तारम् 'यतो वा इमानि भूतानि जायन्त' इत्यादिश्रुतिप्रतिपाद्यं परमेश्वरं नत्वेति वाक्यार्थः। नमधात्वर्थस्तु स्वावधिकोत्कर्षत्वप्रकारकबोधानुकूलव्यापारः। तादृशव्यापारश्च करशिरःसंयोगरूपो मानसिको वा बोध्यः। तेनान्यत्र तथा बोधसत्वेऽपि उक्तव्यापाराभावान्न नमधातुप्रयोगः। केचित्तु - शिवम् = शिवभट्टनामानं निजपितरं चनत्वेत्यपि व्याकुर्वन्ति। सुधीरित्यनेन सुज्ञानवत्वेन स्वस्मिन् योगजधर्मेण लक्ष्यैकचक्षुष्कत्वं सुमेधावत्वेन च निखिलमहाभाष्यगूढार्थतत्त्ववेत्तृत्वं च सूचितम्। सुधियामेव हि ग्रन्थनिर्मितिर्धीधनसमितौ सुख्यातिं लभते। नागेश इति। यद्यपि 'आत्मनाम गुरोर्नामे'ति स्मृत्या स्वनामोच्चारणं दोषावहम्। तथापि स्मृतौ 'न गृह्णीयादि'ति पदस्य नोच्चारयेदित्यर्थकत्वेन दोषानवधायकत्वकल्पनात्। अत एव तत्तच्छिष्टग्रन्थादौ स्वनामोल्लेखपरिपाटिः संगच्छते। केचित्तु - नागानामीश इति व्युत्पत्त्या पतञ्जलिरेवास्य कर्ता नत्वहमिति। स्वाहङ्कारं परिहरतीत्याहुः। अपरे तु नागानीष्टे = शासयतीति नागेट्। तान्नागेश इति द्वितीयान्तं मत्वा पतञ्जलीँश्च नत्वेति वदन्ति। विनापि चकारेण चार्थो गम्यत इति लोकप्रसिद्धेः। अन्ये तु 'एकादशे द्वादशे वा अह्नि पिता नाम कुर्यादि'ति श्रुतिबोधितनामोच्चारणस्यैव निषेधविषयत्वेन। नागः = पतञ्जलिः, ईशः = प्रवर्तको यस्य स इति। नागस्य ईः = लक्ष्मीः = महाभाष्यरूपा तां श्यति = तनूकरोतीति च व्युत्पत्त्या नागेशशब्दो न निषेधविषय इति वदन्ति। केचित्तु - ग्रन्थकरणजन्यफलविशेषेण नामोच्चारणजन्य-पापसामान्यस्य 'मा हिंस्यात् सर्वा भूतानी'ति निषेधसामान्यस्य 'अग्निषोमीयं पशुमालभेते'ति विधिविशेषेण बाधवद्बाधान्नदोष इति वदन्ति। यत्तु कूपखानकन्यायेन नामोच्चारणजन्यपापस्य नमस्कारजनितधर्मेण ग्रन्थकरणजन्यधर्मेण वा नाश इति वदन्ति। तन्न। तत्तत्पापनाशम्प्रति तत्तत्प्रायश्चित्तविशेषस्यैव धर्मप्रवर्तकेनोक्ततया न सर्वेषां सर्वपापनाशकत्वमित्यास्तां विस्तरेण। बालानामिति। अधीतमहाभाष्याद्याकरग्रन्थानाम्। तेभ्यो झटिति परिभाषार्थबोधनासमर्थानां सुखेन = अनायासेन बोधायेति सम्बन्धः। व्याकरणसिद्धान्तप्रकाशकत्वेन तज्ज्ञाने जायमानक्लेशरूपसन्तापनिवर्तकत्वेन च चन्द्रसादृश्यात् इन्दुरिव परिभाषा, परिभाषैवेन्दुरिति वा। स शेखरः = प्रधानभूतो यस्मिन् ग्रन्थे तम्। परितो भाष्यते पुरुषार्थसाधनतया उद्घोष्यत इति परिभाषः = शिवः। स चासाविन्दुशेखर इति व्युत्पत्त्या परिभाषेन्दुशेखरशब्दस्य शिवविशेषणत्वेन वर्णनम्। कुरुत इत्यत्र 'गन्धनावक्षेपणे'त्यादिना प्रकथनार्थे आत्मनेपदम्। ग्रन्थकरणजन्य-यशोलाभादेः फलस्य कर्तृगामित्वादात्मनेपदम्। तथा च साम्बाभिन्नब्रह्माभिन्नशिवकर्मकनमस्कारोत्तर-कालिकसुध्यभिन्ननागेशकर्तृकबालसमवेतसुखप्रयोज्यबोधोद्देश्यकपरिभाषेन्दुशेखरकर्मिका वर्तमान-कालिकी कृतिरिति सकलवाक्यार्थः सम्पन्नः। एतेन सुखबोध: प्रयोजनम्। परिभाषेन्दुशेखरो विषयः। उक्तरूपबालकोऽधिकारी। प्रतिपाद्यप्रतिपादक-भावसम्बन्ध इत्यनुबन्धचतुष्टयं ग्रन्थादौ दर्शितम्। अनुबन्धत्वञ्च – 'प्रवृत्तिप्रयोजकज्ञानविषयत्वम्'। तच्चैषामेवेति दिक्।
परिभाषापदार्थस्य शास्त्रकारसङ्केतभेदेन भिन्नतया व्याकरणविषये परिभाषापदार्थः क इति चेदत्र केचित् - लिङ्गवत्त्वे सति नियामकत्वम्परिभाषात्वम्। नियामकत्वमित्यस्य अनियमे नियमकारिणीत्वमित्यर्थः। अनियमत्वं च न्यूनाधिकवृत्तित्वम्। नियमत्वं च सङ्कोचकत्वम्। एवं च सर्वासामपि परिभाषाणां लिङ्गवत्त्वेन नियामकत्वाल्लक्षणसमन्वयः।केवलवाचनिकानामपि लिङ्गवत्वमस्त्येव किन्तु भाष्ये वचनरूपेण पठितेति तद्ग्रन्थाशय इति वदन्ति। श्रीगुरुचरणास्तु - 'विधिशास्त्रप्रवृत्तिनिवृत्त्युपयोगि-साधुत्वाप्रकारकशक्त्यविषयकबोधजनकत्वे सति अधिकारशास्त्रभिन्नत्वन्तत्'। परिभाषया हि कस्यचिद्विधिशास्त्रस्य कुत्रचित्प्रवृत्तिः कुत्रचिन्निवृत्तिरवश्यं विधीयते इति लक्षणसमन्वयो बोध्यः। नियमनिषेधसंज्ञापवादशास्त्राणां लक्षणाघटनान्न परिभाषात्वम्। अथवा साक्षाल्लक्ष्यधर्मिकसाधुत्वप्रकारकविधिशास्त्रजन्यशाब्दबोधीयविषयतान्यूनाधिकवृत्तितासंकोचकत्वन्तत्त्वम्। परिभाषातिरिक्तानां नियमादिशास्त्राणां सामान्यविषयतासंकोचकत्वेऽपि शाब्दबोधीय-विषयतासंकोचकत्वाभावान्न तेषु लक्षणावकाश इति वदन्तीति दिक्।
परिभाषार्थमञ्जरी
॥श्री गणेशाय नमः॥
विनायकपदाम्भोजं विनायकपदाम्बुजम्।
नत्वा करोति भीमाख्यः परिभाषार्थमञ्जरीम्॥१॥
गुरोः कटाक्षनिक्षेपसमुज्ज्वलधिया मया।
यदुक्तं क्षम्यतां क्षान्तिविक्षेपणविचक्षणाः॥२॥
आर्या मात्सर्यमुत्सृज्य समर्यादमिमां कृतिम्।
पश्यतां पश्यताह्लादजननीं जननीधियः॥३॥
हंसः सारं यथाऽऽदत्ते सारासारविवेकतः।
त्यक्त्वाऽसारं तथा सारमङ्गीकुरुत धीजनाः॥४॥
ग्रन्थसमाप्त्यादिप्रतिबन्धकविघ्नौघप्रशमनाय प्रकृतग्रन्थादौ नमस्कार्यस्वेष्टदेवतानमस्काररूपं 'मङ्गलादीनिहि शास्त्राणि प्रथन्ते' इत्यादिवृद्धिसंज्ञासूत्रादिस्थभाष्यात्ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च पुनः पुनरिति शिष्टाचारबोधितस्मृतेश्चावश्यकर्तव्यतया सूचितं मङ्गलमाचरन् शिष्यशिक्षार्थं निबध्नाति। नत्वा साम्बशिवमिति। अम्बा =जगन्माता पार्वती, तत्सहितं शिवम्। शेतेऽस्मिञ्जगदिति अधिकरणव्युत्पत्त्या जगदाधारमित्यर्थः। 'सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे' इत्युणादिसूत्रेण शीङो ह्रस्वत्ववन्प्रत्यययोर्निपातनात्। यद्वा शिवं = मङ्गलमस्यास्तीतिशिवः। अर्श आद्यच्। साम्बेति विशेषणं तु तदवियोगसूचनाय। ननु गुणशून्यनमने किं फलमित्याशङ्क्याह- ब्रह्मेति।बृंहन्ते गुणा अस्मिन्नानन्दादयो यत्रेत्यर्थः। यद्वा बृंहते = प्रजांवर्धयति इति ब्रह्म। 'बृंहेर्नोच्च' इत्युणादिसूत्रेण अन्तर्भावितण्यर्थान्मनिन्।शिवब्रह्मशब्दाभ्यां सृष्टिस्थितिकर्तृत्वं बोधितम्। 'शिवो मोक्षे महादेवे कीलके ग्रहयोगयो'रिति कोशबलेन शिवशब्दस्य मोक्षपरत्वे तु मोक्षदातृत्वमपि तस्य बोध्यम्। एवञ्चत्रितयकर्तृत्वेन तस्यैव सर्वोत्कृष्टत्वात्तस्यैव नमस्कारविषयतेति ग्रन्थकृताकूतम्। यद्वा माता च कमलादेवीत्युक्तेरम्बा =लोकमाता लक्ष्मीस्तत्सहितं शिवम्।'सर्व्वः शर्व्वःशिवः स्थाणुरि'ति महाभारतोक्तेर्नृसिंहनामानं विष्णुमित्यर्थः।क्वचित्तु साम्बशिवमिति पृथक् पदमपि दृश्यते। न च रथकाराधिकरणन्यायेन रुढेरुद्भटता। विष्णुसहस्रनामेति शिष्टसम्प्रदायस्य अत्राप्यविशिष्टत्वात्। न च रूढेस्तुल्यत्वेऽस्यैवात्र ग्रहणे मानाभाव इति वाच्यम्।
रुजंद्रावयतेयस्माद्रुद्रस्तस्माज्जनार्दनः।
ईशानादेव चेशानोमहादेवोमहत्त्वतः॥१॥
पिबन्ति ये नरा नाकं मुक्ताःसंसारसागरात्।
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥२॥शिवः सुखात्मकत्वेन सर्व्वः संरोधनाद्धरिः।कृत्यात्मकमिमं देहं यतो वस्ते प्रवर्तयन्॥३॥कृत्तिवासास्ततो देवो विरञ्चिश्च विरेचनात्।बृंहणाद्ब्रह्मनामासावैश्वर्यादिन्द्र उच्यते॥४॥
एवं नानाविधैश्शब्दरेक एव त्रिविक्रमः।
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः॥५॥
न तु नारायणादीनां नाम्नामन्यत्र सम्भवः।
अन्यनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः॥६॥
अन्ते नारायणादीनि नामानिपुरुषोत्तमः।
प्रादादन्यत्र भगवान् राजे वर्ते स्वकं पुरम्॥७॥
चतुर्म्मुखः शतानन्दो ब्रह्मणःपद्मभूरिति।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च॥८॥
विशेषनामानि ददौस्वकीयान्यपि केशवः।
इति ब्रह्माण्डवामनस्कन्दब्रह्मपुराणैः मुख्यशिवादिपदवाच्यताया विष्णावेव प्रतिबद्धपरिकरत्वात्। नहि मुख्येसत्यमुख्यं युज्यते।
कर्पूरधामधवलं कनकाङ्गदाद्यैः
छन्नं त्रिनेत्रशशिशेखरमण्डितास्यम्।
वामाङ्कमाश्रितरमानयनाभिरामं
मालाक्षशङ्खसहितं नृहरिं नमामि।।इति
ब्रह्माण्डपुराणेनृहरिरूपस्य विष्णोः शशिशेखरत्वस्यापि बोधनेन परिभाषाइव इन्दुः। स शेखरे यस्येत्यर्थकपरिभाषेन्दुशेखरमितिविशेषणस्य विष्णावसम्भवान्न विष्णोर्नमस्कार्यताग्रन्थ-कृदभिप्रेतेति तु न शङ्काकलङ्कलेशोऽपि। देव्या नित्यावियोगित्वं नमस्कारे भगवतः प्राधान्यम्।
यः सर्व्वज्ञः स सर्ववित्, यस्य ज्ञानमयं तपः।
तस्मादेतद्ब्रह्मनामरूपमन्नञ्च जायते॥ इति श्रुतिबोधितब्रह्मशब्दवाच्यचतुर्मुखस्यासंग्रहणम्। गुणपूर्णत्वमर्थप्रकाशकत्वञ्च साम्बशिवब्रह्म-परिभाषेन्दुशेखरपदैः क्रमेण सूचितम्। नागेश इति । ननु -
आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः॥
इति निषेधाशीर्विषयस्य जागरूकत्वात् कथमात्मनामग्रहणमिति चेत्सत्यम्। औपाधिकभेदपरिकल्पनगरुत्मत्पक्षपातेन तस्य मूर्च्छितत्वात्। तथा हि-आत्मानमात्मनाहन्तीत्यादावन्तःकरणशरीराद्युपाधिभेदेनैकस्यैवात्मनो भेदपरिकल्पनवदहङ्करोमी-त्यनुक्त्वा 'नागेशः कुरुते' इत्युक्त्या एतद्वाक्यप्रयोक्त्रपेक्षयाऽन्यस्य ग्रन्थकर्तुर्लाभाद्वाक्य-प्रयोक्तृत्वग्रन्थकर्त्तृत्वादिरूपोपाधिभेदेनैकस्यैवात्मनो भेदकल्पनात्। विधेर्म्मस्तकधृतत्वेनादोषात्। यद्वा 'दशम्युत्तरकालं जातस्य पुत्रस्य नाम विदध्यात् घोषवदाद्यन्तरन्तःस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं' तद्धि प्रतिष्ठितंभवति। 'द्वयक्षरं चतुरक्षरं वा नाम कृतं कुर्यादतद्धितमिति' विधिबोधितनामग्रहणे एव स निषेधः। अत एव निषेधे श्रेयस्काम इति विशेषणं सङ्गच्छते।अन्यथा पूर्वोक्तविधिविरुद्धनाम्नः सर्वथाऽग्राह्यत्वेन तन्निषेधे फलाभावात्। तद्ग्रहणेऽश्रेयसः प्राप्तेरेवाभावात्तदसङ्गतिः स्पष्टैव। विधिविरुद्धनामस्थापने पित्रादीनां विध्युल्लङ्घनमित्यन्यदेतत्। यद्वा पूर्वोक्तनिषेधस्य 'न हिंस्यात्सर्वभूतानी'त्यादिनिषेधकवाक्यानाम् 'अग्नीषोमीयं पशुमालभेते'त्यादिविशेषवाक्यैः तत्तद्यागोद्देश्यकवेदबोधितसंस्कारविकल्पसर्वभूत निषेधकत्वात् ग्रन्थोपक्रमे स्वनामग्रहाविषयकत्व-कल्पनात्। न च तत्रसंकोचकविधिकेशरिणः सत्वाद्युक्तः सङ्कोचः। अत्र तु किं सङ्कोचकमिति वाच्यम्। शिष्टाचारानुमितमङ्गलबोधकस्मृतिवदत्रापि तदाचारानुमितस्मृतिदिग्गजस्य सत्वात्। तत्र श्रुतिः सङ्कोचिका अत्र त्वनुमिता स्मृतिरित्यन्यदेवैतत्। अनुमापकाचारस्तु गोनर्दीय आह। भट्टोजिदीक्षितकृतिरित्यादिः। हृन्मञ्जूषासंकोचनीयो बोध्यः। न च प्रथमाध्यायीयतृतीयपादे पञ्चमाधिकरणे क्रमप्राप्तमातुलकन्यापरि-णयनापरिणयनविचारपरभट्टपादग्रन्थव्याघ्रदंष्ट्रापातापत्तिः। तत्र हि क्वचिद्दक्षिणदेशे मातुलकन्यापरिणयनं दृश्यते। सोऽयमाचारः प्रमाणं शिष्टाचारात्। होलकाद्याचारवदित्यनुमानेन स्मृतिं कल्पयित्वा तादृशाचारस्य प्रामाणिकत्वमाशङ्क्य न शिष्टाचारेण स्मृतिरनुमातुं शक्येति सिद्धान्तितमितिवाच्यम्।
मातुलस्यसुतामूढ्वामातृगोत्रांतथैवच।
समानप्रवराञ्चैवत्यक्त्वा चान्द्रायणं चरेद्॥
इति स्मृतिनिशितखड्गेन शिष्टाचारानुमिति-स्मृतेर्व्विच्छेद इत्याशयात्। न चात्रापि पूर्वोक्तरीत्या प्रत्यक्षस्मृतिकृत्ययाशिष्टाचारानुमितस्मृतिकामिनी प्रमोह इति वाच्यम्। एवं तर्हि शिष्टाचारानुमितश्रुत्या प्रत्यक्षायाअपि स्मृतेर्बाधेनादोषात्। ननु न शिष्टाचारः साक्षादनुमापकः किन्तु मध्ये स्मृतिकल्पनया श्रुत्यनुमापकः।अन्यथा पूर्वोक्तभट्टपादव्याकोप-गिरिगह्वरगुहान्धतमः प्रक्षेपः। अत एवाहुः –
आचारात्तु स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम्।
तेन चान्तरितं तेषां प्रामाण्यं विप्रकृष्यते॥ इति
एवञ्चप्रत्यक्षस्मृत्याबाधएवेतिचेन्न-
श्राद्धे विवाहे सन्यासेऽप्यापत्कालादिषु क्वचित्।
नामग्रहन्तु कुर्वन्स श्रेयस्कामोप्यदोषभाक्॥ इति
तदपवादकस्मृतावादिपदेन ग्रन्थारम्भ-सन्ध्यावन्दन-प्रेषिताभिवादने नामग्रहस्य ग्रहणेनादोषात्। भाष्यकारस्यापि ऋषित्वाविशेषेण पूर्वोक्ततदुक्तेरादिपदेन तस्यापि ग्रहणाच्च षोडशीग्रहणाग्रहणयोरिव विकल्पस्य वा कल्पनाच्चेति दिक्। कुरुत इति। अनेन फलस्य कर्तृगामित्वं सूचितम्। तत्फलन्तु न मया अन्यार्थो ग्रन्थः क्रियते किन्तु स्वात्मबोधार्थमित्यहङ्कृतिखण्डनम्। सुधीरिति।अनेन ग्रन्थकरणे स्वेष्टदेवतानुग्रहात् स्वस्य सामर्थ्यमस्तीति सूचितम्। घटायोन्मीलितं चक्षुरितिन्यायेन परार्थोऽपि भवत्वित्याह - बालानामिति। यथान्धकारे स्वात्मार्थं नीयमानो दीपः परप्रकाशकश्चेत् को वारयितेति भावः।
टीकाकर्तृमङ्गलाचरणम्
जयन्ति दामोदरकृष्णपादा जयन्ति तच्चालितसर्वगावः ।
कदम्बवृक्षस्थसुवस्त्रलीला लोकोत्तरोऽसौ व्रजभूमिभागः ॥ १ ॥
शारदां वरदां नत्वा गुरूंश्चापि महाशयान् ।
मूलस्योद्भेदिकाव्याख्या क्रियते वै सुबोधिनी ॥ २ ॥
अम्बा (पार्वती) सहित ब्रह्मस्वरूप शिव को नमस्कार करके सुधी नागेश बालकों के सुखपूर्वक बोध के लिये परिभाषेन्दुशेखर नामक ग्रन्थ को बनाते हैं ।
विमर्श - ग्रन्थ की निर्विघ्नतापूर्वक समाप्ति के लिये उसके प्रारम्भ में मङ्गलाचरण करने के शिष्टाचार के अनुसार ग्रन्थकार ने 'नत्वा यह मङ्गलाचरण किया है । यहाँ अम्बा से पार्वती और शिव शब्द से विश्वेश्वर शिव का ग्रहण किया गया है । अथवा 'अम्बयतीजीवयतीति अम्बा' इस व्युत्पत्ति के आधार पर अम्बा शब्द से उत्पादन शक्ति, तथा शेते जगत् यस्मिन् असो शिवः इस व्युत्पत्ति से शिव शब्द से संहारशक्ति का ग्रहण किया जाता है । इन दोनों शक्तियों से युक्त ब्रह्मशब्द से पालन शक्ति विशिष्ट का बोध होने के कारण तीनों शक्तियों से विशिष्ट ब्रह्म को नमस्कार करके इस गन्थ की रचना की जा रही है । अथवा अम्बा शब्द से माता सती देवी (नागेश की माता) तथा शिव शब्द से पिता शिवभट्ट का ग्रहण किया जाता है । इस प्रकार माता के साथ ब्रह्म स्वरूप अपने पिता को नमस्कार करके नागेशभट्ट परिभाषेन्दुशेखर बना रहे हैं ।
बालानाम् - यहाँ बाल शब्द से स्तनन्धय बालक न समझकर उनका ग्रहण करना चाहिये जिन्होंने व्याकरणशास्त्र सम्बन्धी अच्छी प्रौढि प्राप्त करने के उपरान्त भाष्य कैय्यादि ग्रन्थों के द्वारा सारे परिभाषार्थों को समझने की क्षमता नहीं प्राप्त की है । ऐसे बालक ही इस ग्रन्थ को पढ़ने के अधिकारी हैं । ‘सुखबोधाय' इस पद के द्वारा अनायासेन परिभाषार्थबोध ही इस ग्रन्थ का प्रयोजन द्योतित किया गया है । 'परिभाषेन्दुशेखरम्' इस पद के द्वारा परिभाषार्थनिरूपण इस ग्रन्थ का विषय बतलाया गया है । परिभाषाओं के साथ इस ग्रन्थ का प्रतिपाद्यप्रतिपादकभाव सम्बन्ध भी यहाँ स्पष्ट ही व्यक्त होता है । इस प्रकार मङ्गलाचरण के द्वारा ‘अनुबन्धचतुष्टय' की ओर भी ग्रन्थकार का संकेत है ।