SanskritVani
सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान्। १००।
इत्यादि भाष्यानुक्तं बोध्यम्। 'स्वायम्भुवमि'त्यादि लोकेऽसाध्वेवेत्यन्यत्र विस्तरः॥१००॥
कामाख्या
सर्वविधिभ्यइति। लोपविधेः सर्वविध्यपेक्षया बलवत्वे 'नाग्लोपी'त्यत्र प्रत्याहारग्रहणं ज्ञापकम्, अन्यथा पूर्वं वृद्धावकारातिरिक्तस्याको लोपाभावेन तद्वैयर्थ्यं स्पष्टमेवेति प्राञ्चः। वस्तुतस्तु वृद्ध्यापेक्षयैव लोपस्य बलवत्वज्ञापकताया भाष्योक्तत्वेन सामान्यापेक्षज्ञापकत्वे मानाभावेनेदं चिन्त्यम्। इड्विधेर्बलवत्वे 'नेड्वशी'त्यत इडित्यनुवर्तमाने 'आर्धधातुकस्येडि'त्यत्रेट्ग्रहणं ज्ञापकमिति प्राञ्चः। भाष्यकृता च तस्य प्रत्याख्यानेनेदमप्रमाणमिति भावः। नन्वेवमुक्तवचनप्रयोजनानां स्वायम्भुवमित्यादीनां का गतिरत आह स्वायम्भुवमित्यादीति।॥१००॥
नास्ति।