SanskritVani
सर्वे विधयश्छन्दसि विकल्प्यन्ते।३५।
'व्यत्ययो बहुलमि'ति सूत्रे भाष्ये बहुलमिति योगविभागेन 'षष्ठीयुक्तश्छन्दसी'ति सूत्रे वेति योगविभागेन चैषा साधिता। तेन 'प्रतीपमन्यः', 'ऊर्मिर्युध्यति' इत्यादि सिद्धम्। युद्ध्यत इति प्राप्नोति॥३५॥
कामाख्या
विकल्पस्य प्राक्रान्तत्वादाह सर्वे विधय इति। बहुलमिति। छन्दसि विधीयमानानि सर्वाणि कार्याणि बहुलं भवन्ति। एवं वेति योगविभागस्याप्ययमेवार्थः इति परिभाषासिद्धा। युध्यतीति। नचानुदात्तेत्वलक्षणमात्मनेपदमनित्यमित्येव सिद्धे नेदं परिभाषाफलमिति वाच्यम्। एतत्परिभाषाफलदानपरभाष्येण तस्या असत्वबोधनादिति॥३५॥
नास्ति