Logo SanskritVani

कार्यकालं संज्ञापरिभाषम्

​                                                                                   कार्यकालं संज्ञापरिभाषम्॥३॥

कार्यकालमित्यस्य च कार्येण काल्यते = स्वसन्निधिं प्राप्यत इत्यर्थः। कार्येण स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत्। अत एव  'पूर्वत्रासिद्धम्' इति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताध्यायीस्थपरिभाषाणामप्रवृत्तिमाशङ्क्य यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा तावताप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने - कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमित्युक्तम्। न च कार्यकालपक्षे 'ङमो ह्रस्वात्' इत्यादौ 'तस्मादित्युत्तरस्य', 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति 'तस्मिन्' इति सूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्यापत्तेः, स्पष्टं चेदम् 'इको गुणे'त्यत्र कैयट इति वाच्यम्, 'विप्रतिषेध'सूत्रेऽष्टाध्यायीपाठकृत-परत्वस्याश्रयणेनादोषात्। न हि कार्यकालपक्ष इत्येतावता तदपैति, पक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात्। नहि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति। नाप्यस्मदादिबुद्धिजननेन स्वदेशत्यागो भवति। अत एव भाष्य एकदेशस्थस्यैव सर्वशास्त्राभिज्वालकत्वमुक्तम्। अत एव 'तस्मिन्' इति सूत्रे कैयटः - सूत्रपाठापेक्षया परत्वस्य व्यवस्थापकत्वमिति। 'इको गुण' इति सूत्रस्थकैयटस्तु चिन्त्य एव। अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्थत्वेन क्वापि परत्वं न स्यात्। किञ्च 'क्क्ङिति च' इति सूत्रस्थकैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत। एवं च वृक्षेभ्य इत्यत्र 'सुपि च' इत्यतः परत्वाद् 'बहुवचने झल्येत्' इत्येत्त्वमित्याद्युच्छिद्येत, इत्यलम्॥३॥

 

कामाख्या

द्वितीयां व्याचष्टे कार्यकालमितिआक्षेप इति। परिभाषोपस्थाप्य पदानामदृष्ट पिशाचाकर्षणन्यायादुपस्थापनम्। अत एवेति। परिभाषाणामाक्षेपादेव। अप्रवृत्तिमाशंक्येति। त्रिपादीस्थशास्त्रस्यासिद्धत्वेनादर्शनात् आकर्षणन्न करिष्यतीति भावः। यद्यपीदम् = त्रिपादीशास्त्रम्। तत्रेति। सापादिकपरिभाषायां। तत्तु = सापादिकन्तु। इह = त्रैपादिकशास्त्रे।

अयं भावः - परिभाषया स्वदेशे त्रिपादीशास्त्रस्याकर्षणाभावेऽपि त्रिपादीशास्त्रेण स्वदेशे अदृष्टपिशाचन्यायेनाकर्षणं स्यादेवेति। तावताप्यासिद्धिः। एतावत्कालपर्यन्तं भवता कार्यकालपक्षस्याश्रयणाभावेन विधिशास्त्रस्याकर्षणसामर्थ्याबोधनादिति भावः। अष्टाध्यायीपाठेति। न च तद्बोधोत्तरमेव विरोधेत्यादिपूर्वग्रन्थेन सह विरोध इति वाच्यम्, संज्ञाविषये तथास्वीकारेऽपि परिभाषाविषये तथाऽस्वीकारेण विरोधाभावात्। प्रगृह्यसंज्ञाविषये विधिदेशीयपरत्वं परिभाषाविषये पाठकृतपरत्वमिति पूर्वोक्तन्न विस्मर्तव्यम्। अन्यथेति। कैयटोक्तिस्वीकारे। प्रयोगार्थत्वेन = प्रयोगसिद्धि‌फलकत्वेन तत्साधनावसरे द्वयोरप्येकदा बुद्धेर्जातत्वादेकदेशस्थत्वव्यवहारस्तयोः स्यात्। न स्यादिति। तथा च विप्रतिषेधशास्त्रासंगतिरेव स्यात्। ननु विप्रतिषेधशास्त्रभयात्प्रयोगरूपो देशो न गृह्यते इत्यत आह किञ्चेतिएवं च। तेषां परत्वस्य व्याघातेन च। अन्यत्सर्वं सुगममिति दिक्॥

परिभाषार्थमञ्जरी

स्पष्टञ्चेदमिति। स्पष्टमित्यारभ्य कैयट इत्यन्तः पाठ आहुरित्यस्याग्रे प्रक्षिप्तः। तेन संज्ञा विषयस्यास्पष्टत्वात्। न चेद‌मित्यस्य यथोद्देशवर्णनमित्यर्थः।तस्य तदुक्तमित्यनेन स्पष्टमुक्तत्वात्। न च कार्य्यकालेति। यत्तु कैयटानुयायिभिर्य्यथोद्देशपक्षकुत्सितयष्टिमवलम्ब्य इदं भाष्यं व्याख्यातम्। तथा हि यत्र तु यथोद्देशत्वेन परत्वात् त्रिपाद्यां प्रधानस्य संस्कारो यथा 'ङमो ह्रस्वादि'त्यत्र 'न मुन' इति योगविभागेन 'न पदान्त' सूत्रे द्विर्वचनादीनां केषाञ्चिद्ग्रहणेन 'इदुदुपधस्ये'ति सूत्रेऽप्रत्ययग्रहणेन वा केषाञ्चिदसिद्धत्वाभावात्प्रधानस्योपकारक[1] इति। तत्तु स्वेनैव स्वलेखनगौरवभाराक्रान्तमिति न मत्कृतयत्नमपेक्षते। योगविभागस्य भाष्येऽदृष्टत्वात्। द्विर्व्वचनादीनां भगवता[2] प्रत्याख्यानात्। अप्रत्यय इत्यस्याप्रत्ययो यो विसर्ग इत्यर्थं दूषयित्वा प्रत्ययपदस्य तत्सम्बन्धिपरत्वेन प्रत्ययसम्बन्धिभिन्न इत्यर्थस्य भाष्यशेखरशब्दरत्नादौ व्यवस्थापितत्वात्। यदपि कार्य्यकालपक्षपातिमूले 'अदसो मादि'ति सूत्रस्थम् 'अयादिभ्यः परैव प्रगृह्य संज्ञे'ति भाष्यविरोधोद्भावनं पाठकृतपूर्वत्वाश्रयणे अयादीनामेव परत्वं स्यादित्याशयः। तदपि[3] विशेषविषयकत्वरूपदूषणेन पराहतम्। इदं भाष्यं परिभाषाविषयकम्। तत्तु संज्ञाविषयकमिति महान् भेदः। मन्मते तु अन्यतराकाङ्क्षयापि सम्बन्ध इत्युक्तमेव मूलकृता। यदपि 'ङम' इति पञ्चम्या निरवकाशत्वेन परत्वं भाष्योक्तम् अनुपपन्नमित्यज्ञानमूलकृत आविश्चक्रुः। तदपि न। तत्रैव भाष्ये विवरणकारैस्तदुक्तेः। अत्रोल्लेखस्तूक्तिसम्भवप्रदर्शनायैकदेशिनः। सिद्धान्ते तु अनवकाशत्वेन 'ङम' इति पञ्चमीनिर्देशस्यैव प्राबल्यम्। इत्यलमसदालापेनेति दिक्। इत्यलमिति। ननु 'अदसो मादि'ति सूत्रस्थपरैव प्रगृह्यसंज्ञेति संज्ञापदेन तत्कार्य्यं प्रकृतिभाव उच्यते। आशयमजानत अयं[4] प्रश्नः कथमिति। एकदेशिनः उत्तरं कार्यकालमिति। एवञ्चात्रापि पक्षे स्वदेशे वाक्यार्थबोध इति। संज्ञाशास्त्रपरिभाषाशास्त्रयोरेकरूप्यमेव। अन्यथात्रापि पाठकृतपरत्वे गृह्यमाणे अयादीनामेव परत्वमापद्येतेति भाष्यासङ्गतिः। अत एव मदुक्तरीत्यैव भाष्यं व्याख्याय अत एव 'ङमो ह्रस्वादची'ति सूत्रस्थभाष्यविरोधो नेति 'तस्मिन्निति' सूत्रस्थविवरणं सङ्गच्छते इति चेन्न। एकादेशिभाष्यविरोधपरिहाराय यथाश्रुतभाष्यस्यान्यथा व्याख्यानन्तुशपथनिर्णेयमिति तथा वक्तुमशक्यत्वात्। विरोधपरिहारस्तु विशेषविषयत्वेन पूर्वं कृत एव। 'तस्मिन्निति' सूत्रस्थपञ्चमीनिर्देशोऽनवकाशत्वाद्भविष्यतीति भाष्यव्याख्यापरबलवत्वात् स्वार्थ एव भविष्यतीति विवरणविरोधेन 'उभयनिर्देशे पञ्चमी'ति परिभाषा व्याख्यानपरानवकाशत्वात्पञ्चमी निर्देशः प्रबल इति। मूलविरोधेन तत्रत्य गदाविरोधेन चात्रत्यसामान्यविवरणस्य प्राचीनानुसारितत्वात्। तेन विप्रतिषेधस्य ङम[5] इत्यादौ दुष्टत्वं[6] बोधितम्। किञ्च तावताऽपि पदैकवाक्यतावाक्यैकवाक्यताकृतभेदस्य जागरूकतत्वाच्च। उभयत्रापि पदैकवाक्यतास्वीकारे तु 'उपस्थितमिदं भवति ईदूदेद्विवचनमि'ति दूषणदीक्षितादिचरण निगड[7]निर्म्मोके वृद्धिपदाभिन्नादैचां विधाने भाव्यमानतया 'अणुदित्'सूत्राप्रवृत्तौ तपरकरणं स्पष्टार्थमिति तदभीष्टसिद्धौ तपरकरणमैजर्थमिति वृद्धिसंज्ञासूत्रस्थभाष्यविरोधो भवताम्। विरोधश्च तत्रत्यवाक्यैकवाक्यतया प्राचीनमतदूषणपरविवरणस्य। किञ्च वृद्धिसंज्ञासूत्रस्थसंज्ञासूत्रोणां वाक्यैकवाक्यतामङ्गीकृत्य तपरकरणप्रत्याख्यानपरप्राचीनमतखण्डकशेखरग्रन्थविरोधश्च। न चोभयत्रापि वाक्यैकवाक्यतैवास्तु।[8] 'षष्ठी स्थाने'ति सूत्रभाष्येणात्रत्यभाष्येण च तथाऽबोधनात्। विनिगमनाविरहात्। किञ्च लक्षणया तादृशार्थवादिनां मते प्रकृतिभावस्य परत्वेऽपि प्रगृह्यसंज्ञां विना तदप्राप्तेः। प्रगृह्यसंज्ञायास्तु परत्वेनायादिबाधरूपदूषणकीटेन निरुक्तत्वाच्च। त्वदुक्तमर्थमुक्त्वा अन्त्ये दिगित्युक्तं वृद्धैस्तत्र दिगर्थस्तु मदुक्त एवेति न तद्विरोध इत्यलम् अतिलेखेनेति दिक्।

बोधः स्वदेशे लक्ष्याणामपरत्र च संस्कृतिः।

वाक्यैकवाक्यता ह्याद्ये स च मन्दोपकारकः॥१॥

द्वितीये विधिसम्बद्धपदैः सह विनिर्णयः।

तत्रैव लक्ष्यसंस्कारो जिज्ञासा विनिवर्तते[9]॥२॥

संज्ञानां परिभाषाणामेषा प्राचीनपद्धतिः।

यथोद्देशे नवीनानां स्वदेशे ह्यर्थनिर्णयः॥३॥

पदैकवाक्यतालक्ष्यसंस्कारोऽत्रैव सम्मतः।

विशेषज्ञोऽधिकारी स्यात्षष्ठी स्थानेति भाष्यतः॥४॥

विधिप्रदेशे वाक्यार्थः कार्यकाले पदैः सह।

भाष्यान्तरस्य दुष्टत्वात् विशेषज्ञोपकारता॥५॥

यथोद्देशे तु संज्ञानां [10]प्राचीनोक्तेरभिन्नता।

विशेषज्ञोपकारस्तु विशेषो भाष्यकृन्मतः॥६॥

कार्यकाले तु संज्ञानां स्वदेशेनैव निर्णयः।

ईदूत्सूत्रस्थभाष्येण पदानां नैकवाक्यता॥७॥

तत्रैव संस्कृतिः प्रौढमनोरञ्जनता तथा।

आकडाराधिकारस्थसंज्ञासु तु विपर्ययः॥८॥

जातशक्तिगृहेणैव संस्कृतिर्भाष्यमानतः।

संगृहीतो विवेकोऽत्र मतानां बालबुद्धये॥९॥

[1]उपस्करोति इति के खे

[2]भाष्यकृता इति घे

[3]तदापि इति जे

[4]अग्रे इति के खे घे

[5]ङम इत्यंशे इति के खे ङे

[6]सुष्पष्टत्वम् इति ङे

[7]विनिर्म्मोक् इति के खे ङे

[8] 'तन्मूलस्यैकदेश्युक्तित्वरूपदूषणकीटेन उक्तत्वाच्च' इति पाठः चे, घे पुस्तके अधिकः।

[9]विनिवर्तनम् इति के खे ङे

[10]यथोद्देशे तु संज्ञानां स्वदेशेनैव निर्णयः। ईदूत्सूत्रस्थभाष्येण पदानां नैकवाक्यता।। इति के, खे पुस्तके।

कार्यकाल संज्ञापरिभाषम् ॥३॥

कार्यकालमित्यस्य च कार्येण काल्यते स्वसन्निधिं प्राप्यत इत्यर्थः। कार्येण स्वसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामाक्षेप इति यावत्। अत एव पूर्वत्रासिद्धम् ८.२.१ इति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताध्यायीस्थ-परिभाषाणामप्रवृत्तिमाशङ्क्य यद्यपीदं तत्रासिद्धं तत्त्विह सिद्धमित्युक्त्वा तावताप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने - कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमित्युक्तम् ।

अब कार्यकाल 'संज्ञा परिभाषम्' इस दूसरी परिभाषा का व्याख्यान करते हैं कार्येण = कार्यविधायकसूत्र के द्वारा, काल्यते = अपनी सन्निधि में जहाँ परिभाषासूत्रों को लाया जाय, वहाँ कार्यकालपक्ष होता है । कार्यविधायकसूत्र के द्वारा अपने संस्कार के लिये अपने में रहने वाले लिङ्ग (चिह्न) से चिह्नित परिभाषाओं का आक्षेप किया जाता है । यहाँ संस्कार का अर्थ वाक्यार्थबोधरूपी संस्कार तथा आक्षेप का अर्थ स्मरण है । अर्थात् विधिसूत्र अपने वाक्यार्थबोध रूपी संस्कार के लिये परिभाषाविधेय का अपने देश में स्मरण करते हैं ।

कार्यकालपक्ष में परिभाषाओं का ही आक्षेप होता है ग्रन्थकार के द्वारा ऐसा कहने से यह संकेत मिलता है कि यह पक्ष परिभाषाओं के लिये ही सीमित है ।

अतएव विधिदेश में परिभाषाविधेय का स्मरण किया जाता है ऐसा स्वीकार करने से ही 'पूर्वत्रासिद्धम्' इस सूत्रस्थ भाष्य की संगति होती है । भाष्यकार ने वहां कहा कि सपादिसप्ताध्यायी परिभाषा की दृष्टि से त्रिपादी विधिसूत्र असिद्ध हैं, तब वहाँ परिभाषा की प्रवृत्ति कैसे होगी ? इस आशङ्का का समाधान देते हुए भाष्यकार ने कहा कि 'यद्यपि इदम् = विधिसूत्र तत्रासिद्धम् = परिभाषा की दृष्टि से असिद्ध हैं किन्तु तत्तु = परिभाषासूत्र, इह सिद्धम् = त्रिपादी विधिसूत्रों के प्रति सिद्ध ही हैं' । तात्पर्य यह है कि त्रिपादी विधिसूत्र सापादिकपरिभाषा की दृष्टि से असिद्ध होने के कारण परिभाषा देश में नहीं जा सकते, किन्तु त्रिपादी शास्त्र से सापादिकपरिभाषा का अपने देश में आकर्षण तो हो ही सकता है । इसलिये परिभाषाशास्त्र की प्रवृत्ति त्रिपादी सूत्रों में हो सकती है । फिर भाष्यकार ने कहा कि 'कथम्' ? इस कथम् का तात्पर्य है कि विधिसूत्रों के द्वारा सापादिक परिभाषा का अपने देश में आकर्षण करने पर भी असिद्धि ही है । क्योंकि 'पूर्वत्रासिद्धम्' सूत्र के द्वारा परिभाषा की दृष्टि में त्रिपादी विधिसूत्र जब असिद्ध हैं तो विधिदेश में जाने पर भी परिभाषा विधिसूत्र का संस्कार कैसे कर सकती है ?

इस पर भाष्यकार ने कहा 'कार्यकाल संज्ञापरिभाषम्' अर्थात् संज्ञा और परिभाषा के लिये कार्यकाल पक्ष होता है । इस पक्ष में जहाँ कार्य हो, वहीं परिभाषा की उपस्थिति होती है । उपस्थित होने के पश्चात् उस देश के माहात्म्य से परिभाषासूत्र विधिसूत्र को उसी प्रकार देखने लगते हैं जिस प्रकार कोई व्यक्ति स्वर्ग में जाकर उस देश के माहात्म्य से वहां देवताओं को देखने लग जाता है । इस प्रकार कार्यकालपक्ष में परिभाषासूत्रों के द्वारा विधिसूत्रों का संस्कार किया जाता है ।

न च कार्यकालपक्षे ङमो ह्रस्वात् ८.३.३२ इत्यादौ तस्मादित्युत्तरस्य १.१.६७तस्मिन्निति निर्दिष्टे पूर्वस्य १.१.६६ इति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्इति 'तस्मिन्इति सूत्रस्थभाष्यासङ्गतिःउभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्यापत्तेःस्पष्टं चेदम् इको गुण १.१.३ इत्यत्र कैयट इति वाच्यम्, 'विप्रतिषेध'सूत्रेऽष्टाध्यायीपाठकृतपरत्वस्याश्रयणेनादोषात् । न हि कार्यकालपक्ष इत्येतावता तदपैतिपक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात् । नहि तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति । नाप्यस्मदादिबुद्धिजननेन स्वदेशत्यागो भवति ।

कार्यकालपक्ष में परिभाषासूत्रों का विधिदेश में आकर्षण होता है ऐसा स्वीकार करने पर एक यह दोष उपस्थित होता है कि 'ङमो हस्वादचि ङमुण् नित्यम्' इस सूत्र में 'इम' इस पश्चम्यन्त पद के आधार पर 'तस्मादित्युत्तरस्य' इस परिभाषा की तथा 'अचि' इस सप्तम्यन्त पद से 'तस्मिन्निति निर्दिष्टे' इस परिभाषा की जब साथ ही उपस्थिति होती है, तो किसके आधार पर कार्य किया जाय, ऐसा संशय होने पर 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इस परिभाषा के द्वारा पश्चमी निर्देश को बलवान् बनाया जाता है जिससे ङम् से पर में रहने वाले अच् को ङमुट् किया जाता है । यह बात अब संगत नहीं हो रही है । क्योंकि दोनों जब 'ङमो ह्रस्वादचि' के देश के हो गये तो एक देशस्थ होने के कारण पूर्वत्व और परत्व का व्यवहार वहाँ नहीं हो सकता । यह बात 'इको गुण' सूत्र में कंयट ने कही है । इसके उत्तर में कहा गया है कि 'विप्रतिषेधे परं कार्यम्' इस सूत्र में उल्लिखित पर शब्द से अष्टाध्यायी के पाठ के आधार पर ही पर का ग्रहण किया जाता है । फलस्वरूप उपर्युक्त दोनों परिभाषाओं के एकदेशस्थ होने पर भी अष्टाध्यायी में 'तस्मादित्युत्तरस्य' के पर होने के कारण उसी के द्वारा 'ङमो ह्रस्वात्' सूत्र का वाक्यार्थ बोध किया जाता है ।

दूसरी बात यह है कि कार्यकालपक्ष होने मात्र से परिभाषा सूत्र अपने देश को छोड़ नहीं देते । वस्तुस्थिति तो यह है कि यथोद्देश और कार्यकाल दोनों पक्षों में परिभाषासूत्र अपने विधेय की बुद्धि करा कर विधि सूत्रों से एक वाक्यता करते हैं । यहाँ प्रदेश में स्वबुद्धि जनन का अर्थ यह है कि यथोद्देश पक्ष में परिभाषादेश में पदकवाक्यता होती है तथा कार्यकालपक्ष में विधिदेश में पदैकवाक्यता होती है ।

इस प्रकार प्रदेश का अर्थ यहाँ परिभाषादेश और विधिदेश दोनों होता है । निष्कर्ष यह हुआ कि परिभाषासूत्र वास्तव में कहीं जाता नहीं है । केवल उसके विधेयबुद्धि द्वारा कार्य किया जाता है । इसलिये 'तस्मादित्युत्तरस्य' और 'तस्मिन्निति' इन दोनों के एकदेशस्थ होने की तथा तत्प्रयुक्त पूर्वत्वपरत्वादि की शंका का अवसर ही नहीं आता । कार्यकालपक्ष में अचेतन शास्त्र (सूत्र) का स्वदेश त्याग कर विधिदेश में गमन कथमपि संभव नहीं है । इसके अतिरिक्त हम लोगों के द्वारा विधिदेश में परिभाषाविधेयबुद्धि करने से भी परिभाषाओं का स्वदेशत्याग नहीं होता है । ऊपर मूल में आये हुए 'अविशेषात्' पद से यही बात बताई गयी है कि दोनों पक्षों में परिभाषाओं का पाठदेश ही मुख्य होता है । इसलिये उसी के आधार पर विप्रतिषेधसूत्रीय व्यवस्था होगी ।

अत एव भाष्य एकदेशस्थस्यैव सर्वशास्त्राभिज्वालकत्वमुक्तम् । अत एव 'तस्मिन्इति सूत्रे कैयटः - सूत्रपाठापेक्षया परत्वस्य व्यवस्थापकत्वमिति । 'इको गुणइति सूत्रस्थकैयटस्तु चिन्त्य एव । अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्थत्वेन क्वापि परत्वं न स्यात् । किञ्च 'क्क्ङिति चइति सूत्रस्थकैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत । एवं च वृक्षेभ्य इत्यत्र सुपि च ७.३.१०२ इत्यतः परत्वाद् बहुवचने झल्येत् ७.३.१०३ इत्येत्त्वमित्याद्युच्छिद्येतेत्यलम् ॥ ३ ॥

अतएव यथोद्देश और कार्यकाल दोनों पक्षों में परिभाषासूत्रों का पाठदेश ही मुख्य होता है । यह स्वीकार करने से ही यह भाष्य संगत होता है कि कोई सूत्र एक ही देश में रहता हुआ सारे शास्त्र को अभिज्वलित करता है । इसलिये 'तस्मिन्निति' इस सूत्र में कैयट ने कहा कि परत्व का व्यवस्थापक सूत्रपाठ ही होता है । अर्थात् अष्टाध्यायी में किये गये पाठ के आधार पर ही पूर्वत्व और परत्व की व्यवस्था करनी चाहिये । 'इको गुण' सूत्र में कैयट ने जो यह कहा था कि कार्यकालपक्ष में 'तस्मादिति' और 'तस्मिन्निति' ये दोनों परिभाषाएँ एकदेशस्थ हो गयीं इसलिये उनमें परत्व की व्यवस्था नहीं हो रही है । यह उनका कथन चिन्तनीय है क्योंकि एक जगह परत्व की व्यवस्था के सम्बन्ध में संशय को व्यक्त करने वाले कैट दूसरी जगह सूत्रपाठ की अपेक्षा परत्व की व्यवस्था कर रहे हैं । इस प्रकार पूर्वापर विरोध के कारण 'इको गुण' का कैंट चित्य ही है । अन्यथा यदि यह मान लिया जाय कि जो जहाँ गया वही उसका देश हो गया तो कहीं भी परत्यादि की व्यवस्था नहीं हो सकती क्योंकि सारे सूत्र प्रयोगों के लिये हैं, इसलिये सभी प्रयोगरूपी एक देश के हो गये तो फिर एकदेशस्यों का परत्व और पूर्वत्व किस प्रकार होगा ? 

इसके अतिरिक्त 'विति च सूत्र के फैट की रीति से यथोद्देश पक्ष में विधि सूत्रों को परिभाषा देश में जाने तथा तद्देशीय हो जाने से उनका परत्व समाप्त हो जायेगा । ऐसी स्थिति में 'वृक्षेभ्य:' इस प्रयोग में 'सुपि च' को बाधकर परत्वात् 'बहुवचनेत्येत् से एत्व होता है यह कथन भी उच्छिन्न हो जायेगा । क्योंकि 'वृक्षेभ्यः' यह प्रयोग ही दोनों का देश हो गया तो फिर वहाँ परत्व किस बात का होगा ।। ३ ।।

परिभाषा सारांशः - प्राचीन मतानुसार संज्ञा और परिभाषासूत्रों का वाक्यार्थबोध यथोद्देशपक्ष में स्वदेश में होता है । इस पक्ष का कारण अपेक्षाबुद्धि होती है । इस पक्ष में 'वृद्धिरादैच्' 'तस्मिन्निति' इत्यादि सूत्रों के वाक्यार्थबोध होने पर अपेक्षा बुद्धि के कारण इसका कुछ भावी फल है इस भावना से छात्र द्वारा वहीं पर संज्ञा और परिभाषा के अर्थों के ख़तर अभ्यास कर लिया जाता है । इसलिये 'मृजेर्वृद्धिः 'इको यणचि' इत्यादि सूत्रों के लिये संज्ञा और परिभाषा के वाक्यार्थबोध की पुनः आवश्यकता नहीं होती है । इस पक्ष में सज्ञा और परिभाषासूत्रों का विधिसूत्र के साथ वाक्यैकवाक्यता होती है । इसका तात्पयं उपजीव्योपजीकभावापन्नविषयता से है ।

कार्यकालपक्ष में संज्ञा और परिभाषासूत्रों का वाक्यार्थबोध होने के बाद इसकी आवश्यकता जब आगे विधिसूत्रों में आने वाली है तब अभी से इसके ऊपर ध्यान देना अनावश्यक है । इस प्रकार की उपेक्षा बुद्धि होती है । परिणाम यह होता है कि जब 'मृजेर्वृद्धि' 'इको यणचि' इत्यादि विधिसूत्र आते हैं तो वृद्धि इत्यादि पदों के अर्थ का ज्ञान न रहने के कारण वहाँ पर पुनः 'वृद्धिरादैच्' का वाक्यार्थबोध कराया जाता है । परिभाषा का भी इसी प्रकार अर्थ तथा उसके विधेय का ज्ञान विधिदेश में कराया जाता है । इस पक्ष में विधिदेश में ही संज्ञा और परिभाषाशास्त्र का सफल वाक्यार्थबोध होने के कारण इनका देश भी विधिदेश ही हो जाता है । इसलिये 'अयादिभ्यः परैव प्रगृह्य संज्ञा' इस भाष्य की संगति होती है । इस पक्ष में विधिसूत्रों के साथ संज्ञा और परिभाषासूत्रों की पर्देकवाक्यता होती है । तस्मिन्निति सूत्र के पूर्व और निर्दिष्ट पद का अन्वय अभेद सम्बन्ध से क्रमशः इक् और अच् पद में होता है । इसी प्रकार 'वृद्धिरादैच्' सूत्र के आदैच् पद का अभेद सम्बन्ध से 'वृद्धिरेचि' के वृद्धि पद के साथ अन्वय होता है । इसलिये यहाँ अभेद सम्बन्ध की प्रकारता और विशेष्यता निरूप्य निरूपक भावापत्र होती है । इस प्रकार इस पक्ष में पर्दकवाक्यता सम्पन्न होती है ।

नवीनमत के अनुसार 'तस्मिन्निति' इत्यादि परिभाषासूत्रों का वाक्यार्थबोध होने पर 'सप्तमी निर्देश कहाँ है' ऐसी जिज्ञासा होती है । उस समय सप्तम्यन्त पद घटित जो विधिसूत्र वहाँ उपस्थित होते हैं उन सभी के वाक्यार्थ बोध के लिये परिभाषासूत्र के विधेय की आवृत्ति करके विधिसूत्रों के साथ पकवाक्यता होती है । इस प्रकार जो विधिसूत्र परिभाषादेश में आते हैं उनके लिये परिभाषाशास्त्र का यथोद्देशपक्ष होता है । तर संस्कारभाव के कारण अथवा त्रिपादी होने के कारण जो विधिसूत्र परिभाषादेश में नहीं आते, उनके लिये परिभाषाशास्त्र का कार्यकालपक्ष होता है । इस पक्ष में विविदेश में परिभाषा विधेयका स्मरण करके पकवाक्यता की जाती है ।

इस प्रकार नवीन मत के अनुसार अपेक्षा और उपेक्षा बुद्धि इन दोनों पक्षों का कारण नहीं है । इस प्रकार इस मत के अनुसार परिभाषाशास्त्र का दोनों पक्षों में स्वदेश का पाठ ही मुख्य होता है और उसी आधार पर पूर्वत्व और परत्व को व्यवस्था होती है । इसीलिये भाष्यकार का यह कहना भी संगत होता है कि कोई एक देशस्थ होकर सारे शास्त्र को अभिज्वलित करता है । प्राचीनों के मतानुसार यथोद्देश पक्ष में पाठदेश तथा कार्यकालपक्ष में विधिदेश मुख्य होता है ।

संज्ञासूत्रों के सम्बन्ध में नवीन मतानुसार यथोद्देशपक्ष वैसा ही प्रतीत होता है जैसा कि प्राचीनों को अभिमत है, क्योंकि इन्होंने कहा है कि 'संज्ञाशास्त्रस्य तु कार्यकालपक्षे न पृथग् वाक्यार्थबोध:' । अर्थात् संज्ञाशास्त्र का कार्यकालपक्ष में पृथक् वाक्यार्थ बोध नहीं होता किन्तु यथोद्देश में तो होता ही है । पृथक् का तात्पर्य यहाँ स्वदेश से है । इससे सिद्ध हुआ कि संज्ञासूत्रों का यथोद्वेशपक्ष में वाक्यार्थबोध होता है और कार्यकालपक्ष में विधिदेश में परिभाषासूत्रों के सम्बन्ध में यथोद्देश और कार्यकाल पक्ष की व्याख्या दोनों मतों की अपने-अपने ढंग की पृथक्-पृथक् है यह बात कही जा चुकी है ।

यहाँ एक बात आपाततः विरुद्ध-सी प्रतीत होती है कि नागेशभट्ट ने एक जगह लिखा है कि जैसे व्यावहारिक व्यक्ति अनेक देशों में जाने पर भी तद्देशीय नहीं होता, उसी प्रकार कार्यकालपक्ष में विधिदेश में जाने पर कोई सूत्र तद्देशीय नहीं हो सकता है । किन्तु आगे जाकर 'अदसोमात्' को कार्यकालपक्ष में 'अणोऽअगृह्यस्य' इस सूत्र का देशवाला मान लिया है । यह विरोध स्पष्ट प्रतीत हो रहा है । किन्तु बात वैसी नहीं है । विधिदेश में जाने पर भी सूत्र तद्देशीय नहीं होते । यह नागेशोक्ति केवल परिभाषा सूत्रों के लिए है न कि संज्ञा सूत्रों के लिये भी। संज्ञासूत्रों का तो कार्यकाल पक्ष में विधिदेश होता ही है । वस्तुतः परिभाषा सूत्र कार्यकाल पक्ष में भी कहीं नहीं जाते हैं, किन्तु इस पक्ष में विधिदेश में केवल इनके विधेय का स्मरण कर लिया जाता है । इसीलिये भाष्यकार की यह उक्तिसंगत होती है कि 'कश्चित् एकदेशस्यः सर्व शास्त्रमभिज्वलयति ।' यहाँ कश्चित् का अर्थ परिभाषारूपः ही किया गया है 

उपस्थाप्यते

कार्यस्य काल एव कालो = देशो यस्य स कार्यकाल इत्यर्थे एकदेस्थः सर्वं शास्त्रमभिज्वलयती'ति भाष्यविरोधोऽत आह- कार्येण काल्यत इति। कार्येण तद्विधायकशास्त्रेण। परिभाषाणाम् = तद्विधेयानाम्। आक्षेपः = स्मरणम्।

अत एवेति। परिभाषाणां विधेयार्थस्मरणादेवेत्यर्थः। तावताऽप्यसिद्धिरित्यस्य संस्कारकस्य सिद्धत्वेऽपि संस्कारकदृष्ट्या संस्कार्यस्यासिद्धत्वेन संस्कारासम्भव इत्यर्थः। ननु नागेशमते - परिभाषादेशे येषां शास्त्राणां वाक्यार्थबोधो जातस्तेषु यथोद्देशपक्षः, येषां न जातस्तेषु कार्यकाल इत्यस्य सत्त्वेन तावताऽप्यसिद्धिरिति शङ्कोत्थितिर्न सम्भवतीति चेत् शृणु। यथोद्देशपरिभाषामात्रस्वीकारे अप्रवृत्तिशङ्का, द्वितीयपरिभाषास्वीकारेण समाधानम्।

 

यद्यपीति। अयं भावः- त्रैपादिकं विधिशास्त्रं स्वसंस्काराय परिभाषादेशेऽसिद्धत्वान्न गच्छति; तथापि सापादिकपरिभाषाशास्त्रमिहागन्तुं शक्नोतीति सिद्धान्तिनोक्ते पूर्वपक्षी पुनराह- कथमितिअयं भावः - 'पूर्वत्रासिद्धमि'त्यनेन परिभाषादृष्ट्या त्रैपादिकविधेरसिद्धत्वात् कथं त्रैपादिकविधि संस्कुर्यादिति? तत्राऽह- कार्यकालमिति

 

अयमाशयः- यथा कश्चिन्मर्त्य इह लोके देवानपश्यन्नपि भाग्यवशाद्देवैः स्वर्गं प्राप्यमाणः सर्वान् देवान् पश्यति, हरिं गर्भस्थ इव हेमाद्रिशर्मा मनुष्यो लङ्कां गतो रावणादिराक्षसानिव तद्देशमाहात्म्यात्, तथेहापि त्रिपाद्यामुपगतं परिभाषाशास्त्रं त्रैपादिकविधिं पश्यति देशमाहात्म्यादेव । अन्यथा कार्यकालपक्ष उच्छिन्न एव स्यादिति।

 

केचित्तु - एतङ्ग्रन्थस्वारस्यात् परिभाषाविषयेऽपि प्राचीनोक्तकार्यकाल एव नागेशसम्मतः। अत एव नागेशेन केचिदित्युक्तम्। अत एव चाग्रिमः 'न चेति शङ्काग्रन्थोऽपि सङ्गच्छते, अन्यथा स्वदेशत्यागाभावस्य तत्तद्देशस्थत्वं वारयतीत्यादिना उक्तत्वेनैतद्ग्रन्थस्य निर्दलत्वापत्तिरित्याहुः।

अन्ये तु नागेशमते सर्वपरिभाषाविषये कार्यकालपक्ष एव; 'सप्तमीनिर्देशादि क्वे'त्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा विप्रतिषेधे, 'असिद्धं बहिरङ्गम्, सन्निपात.., अनुदात्तं पदमेकेति चतसृणां परिभाषाणां सङ्ग्रहः। 'कश्चिदेकदेशस्थ' इति भाष्यन्तु उक्तपरिभाषाचतुष्टयविषयमेव। अत एव कार्यकालपक्षे 'ङमो ह्रस्वादि'ति शङ्काग्रन्थः सङ्गच्छत इति वदन्ति।

 

चेति। यद्यपि 'तद्देशस्थत्वं वारयती'त्युक्त्या नैतच्छङ्कोत्थितिस्तथापि प्राचीनमतानुसारणैतद्ग्रन्थसत्त्वान्न दोषः। अत एवात्र "स्पष्टं चेदमिको गुण इत्त्यत्र कैयट" इत्युक्तम्। विधिवाक्येनैकवाक्यत्वाद्वा, स्वदेशं विहाय पथिकवद्देशान्तरगमनाद्वा, प्रदेशेऽस्मदादिबुद्धिजननाद्वा स्वदेशत्याग इत्याक्षेपाणां क्रमेण निरासमाह- नहीतिप्रदेशेषु = विधिवाक्यविषये। स्वबुद्धिजननेन स्वविधेयार्थबोधनेन। अविशेषात् - विधिवाक्यैकवाक्यतायाः पक्षद्वयेऽपि सत्त्वादित्यर्थः। यद्वा- प्रदेशेषु - परिभाषादेशेषु। स्वबुद्धिजननेन = सफलवाक्यार्थबोधेन, अविशेषात् = पक्षद्वयेऽपि परिभाषाणां पाठदेशस्यैव मुख्यदेशत्वेन तदनुरोधेन विप्रतिषेधशास्त्रप्रवृत्तेर्वक्तव्यतयाऽत्र विशेषाभावादित्यर्थः। संज्ञाशास्त्राणां कार्यकालपक्षे तु विधिदेश एव सफलवाक्यार्थबोधसत्त्वेन तद्देशस्यैव मुख्यदेशतया 'अयादिभ्य' इति भाष्यसङ्गत्तिरिति तत्त्वम्। द्वितीयं निरस्यति- नहीति। तृतीयं निरस्यति - नापीति। न च 'अयादिभ्य' इति भाष्यासङ्गतिः; तत्रत्यसंज्ञापदस्य संज्ञाकार्यप्रकृत्तिभावोपलक्षकत्वात्, परत्वादित्यस्य अपवादत्वादित्यर्थकत्वाद्वा। प्राञ्चस्तु - यत्र मुख्यदेशगतं परत्वमादाय व्यवस्था न सम्भवति, तत्र गौणपरत्वमङ्गीक्रियते; सफलवाक्यार्थबोधाधिकरणदेशश्च मुख्यदेश इत्युक्तमेव। 'ङम' इत्यत्र कार्यकालपक्षे द्वयोरेकदेशस्थत्वेन तदसम्भवात् गौणं पाठदेशमादाय व्यवस्था। 'अयादिभ्य' इत्यत्र तु मुख्यदेशमादाय व्यवस्थासम्भवान्नाष्टाध्यायीपाठकृतं गौणं तमादाय 'विप्रतिषेध' इत्यस्य प्रवृत्तिः। अत एव "पट्व्या, मृद्व्या' 'इत्यत्र लक्ष्यगतगौणपरत्वमादाय परत्वात् परयणादेशः; 'परिवीरित्यत्र परत्वाद्दीर्घ' इति च भाष्योक्तं सङ्गच्छत इति प्राहुः॥ इति कार्यकालपक्षविचारः॥

 

वस्तुतः - यथोद्देश-कार्यकालपक्षयोर्निरुक्तबीजकत्वे विधिशास्त्रादावपि तत्सम्भवेन संज्ञापरिभाषामात्रविषयकत्वमशक्यं वक्तुम्। किञ्च- 'यथोद्देशमि'त्यादेः परिभाषात्वव्यवहारप्रयोजकविषयसङ्कोचकत्वादेरभावेन परिभाषात्वमप्यशक्यं वक्तुम्। अत एव वाक्यसंस्कारपदसंस्कारपक्षादीनां परिभाषात्वेन व्यवहारः शास्त्रकृच्छैलीपरिशीलितः क्वचिदपि नोपलभ्यते। भाष्ये तत्र तत्र यथोद्देशमित्याद्युल्लेखस्तु प्रकारद्वयस्यैत्र सम्भवाद्वस्तुस्वरूपपरिकीर्तनपरः। किञ्च - प्रदर्शितमूलकैतत्पक्षद्वयोपन्यासस्य विशिष्य फलमप्यशक्यं वक्तुम्। न तावत् 'तस्मिन्निती'त्यादेस्त्रिपाद्यां प्रवृत्तिः कार्यकालपक्षफलम्, शास्त्रत्वसम्पादकपरिभाषाणां त्रिपाद्यां प्रवृत्तेः पक्षद्वयेऽपि सूपपादत्वात्। तद्दृष्ट्या त्रिपाद्या असिद्धत्वन्तु न, त्रैपादिकविधिशास्त्राणां शास्त्रत्वसम्पादकगुणशास्त्रप्रवृत्तितः प्रागप्रामाण्यज्ञानानास्कन्दितबोधजनकत्वरूप-शास्त्रत्वस्यैव असम्भवाच्छास्त्रत्वमुपजीव्यासिद्धत्वबोधकेन 'पूर्वत्रासिद्धमि'त्यनेन असिद्धत्वबोधनस्याशक्यत्वात्। 'पूर्वत्रे'त्यनेन च शास्त्रत्वेन रूपेणैवासिद्धत्वबोधनमावश्यकम्। अत एव 'रोरी'त्यादौ उत्वादिघटितनिर्देशसङ्गतिः। शास्त्रत्वावच्छिन्नोद्देश्यताकं 'असिद्धं बहिरङ्गमन्तरङ्गे, अनुदात्तमित्यादिपरिभाषाचतुष्टयन्तु, त्रिपाद्यां न प्रवर्तते, एतत्प्रवृत्तितः प्रागेव शास्त्रत्वस्य सिद्धतया 'पूर्वत्रासिद्धमि'त्यनेनासिद्धत्वबोधनस्य दुर्निवारत्वात्। एवं यथोद्देशपक्षस्य 'आगच्छतमग्नी३' इत्यपि न फलम्, पक्षद्वयस्यैवाभावेन संज्ञासूत्रदृष्ट्या प्लुतस्यासिद्धत्वेन प्रगृह्यसंज्ञायां नानुनासिकः। शास्त्रे परत्वपूर्वत्वे अष्टाध्यायीपाठकृते एव। एवं स्थिते योऽत्र बहुशः "प्राचीननवीनमतविवेकपरिश्रमः, पदैकवाक्यतावाक्यैकवाक्यतेत्यादिविचारः, स सर्वोऽपि काकदन्तपरीक्षावदुपेक्षणीय एवेति दिक्॥३॥

परिभाषायां प्रमाणमाह मूले- अत एवेतिपरिभाषाणामप्रवृत्तिमिति। संज्ञाशास्त्राणान्तु जातशक्तिग्रहेणैव त्रिपाद्यां व्यवहारस्य सिद्धत्वादिति प्रागुक्तत्वात् परिभाषाणामित्युक्तमिति भावः। इदम् त्रिपादीस्थम्। तत्र सपादसप्ताध्यायीस्थे परिभाषाशास्त्रे। तत्तु - परिभाषाशास्त्रन्तु। इह - त्रिपाद्यामित्यर्थः।

एतङ्ग्रन्थस्वारस्यादिति। 'पूर्वत्रासिद्धम्' इति सूत्रस्थशङ्कासमाधानपरभाष्यग्रन्थस्वारस्यादिति तदर्थः। नागेशमते कार्यकालपक्षेऽपि परिभाषाशास्त्रं स्वदेशे तिष्ठदेव कथमसिद्धं त्रैपादिकशास्त्रं संस्कुर्यात्, अतस्तत्रोपस्थानं परिभाषाशास्त्राणां तैरपि मन्तव्यम्। तथा सति 'यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमिति भाष्यं स्वरसत उपपद्यते। तद्देशस्थत्वेन च पूर्वदेशस्थत्वव्याघातात् 'पूर्वत्रासिद्धम्' इत्यस्याप्रवृत्त्या निष्टङ्कं संस्कारकशास्त्रप्रवृत्तिः सिध्यतीति भावः। व्यापारार्थमन्यत्र गमने सम्प्रति तद्देशे एव तिष्ठामि, न तु स्वाभिजनदेशे इतिवत् परिभाषाणां कार्यकालपक्षे त्रिपादीस्थत्वव्यवहार एव भविष्यतीति तत्त्वम्। तस्मात् प्राचीनमतमेव ज्यायः। प्राचीनोक्तेति। तथा सति संज्ञापरिभाषयोरुभयोरपि विषये एकरूपता सिद्ध्यतीत्यपरमनुकूलम्।

मूले - स्पष्टं चेदं.. कैयट इति। तत्र क्रोष्ट्रीयसम्मतविप्रतिषेधखण्डनावसरे 'नैष युक्तो विप्रतिषेधः' इति भाष्यप्रतीकमुपादाय 'यथोद्देशे परिभाषयोः पौर्वापर्यम्, न तु कार्यकालतायाम्' इति हि तेनोक्तम्। केचिदित्युक्तमिति। अन्यथा 'परे तु' इत्यादिना वदेदिति भावः। मूले- परत्वं न स्यादिति। तथा सति विप्रतिषेधशास्त्रासङ्गतिरिति भावः। ननु विप्रतिषेधशास्त्रासङ्गतिभयात् प्रयोगरूपो देशो न गृह्यते इत्यरुचेराह - किश्चेतिमूले-परत्वं व्याहन्येनेति। न चेष्टापत्तिरेव, अत आह- एवञ्चेतिउच्छिद्येतेति। इदमप्यसङ्गतम्; मुख्यासम्भवेऽपि गौणपरत्वग्रहणस्य सर्वसम्मतत्वादिति भावः॥३॥