SanskritVani
नन्वलुगधिकारः प्रागनङः, उत्तरपदाधिकारः प्रागङ्गाधिकारादित्यनुपपन्नमेकयोगनिर्दिष्टत्वात्।तथा 'दामहायनान्ताच्च' इत्यादौ 'सङ्ख्याऽव्ययादेः' इत्यतः सङ्ख्यादेरित्यनुवर्ततेऽव्ययादेरति निवृत्तमिति चानुपपन्नमत आह -
क्वचिदेकदेशोऽप्यनुवर्तते।१८।
एकत्रार्थे योगः = सम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्वनिर्दिष्टयोरित्यर्थ इति 'पक्षात्तिः' इति सूत्रे कैयटः। तावन्मात्रांशे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम्। स्पष्टा चेयम् 'दामहायनान्ताच्च' इति सूत्रे 'औतोऽम्शसोरि'ति सूत्रे च भाष्ये पूर्वा च॥१८॥
कामाख्या
अपवादरूपप्रसङ्गसंगत्त्या परिभाषान्तरमवतारयति नन्विति। इयं च लक्ष्यानुरोधाद्वयवस्थिता। कैयटोक्तपरिभाषार्थमाह एकत्रार्थ इति। परिभाषाघटकैकदेशपदोपादानस्वारस्येनार्थमाह द्वन्द्वनिर्दिष्टयोरिति। वस्तुत इदं चिन्त्यम्। अचिनवमित्यत्रात्ववारणाय 'औतोऽम्शसो'रिति सूत्रे 'वासुपी'त्यतः सुपीत्यनुवृत्तिपरकभाष्यविरोधात् 'अलुगुत्तरपद' इत्यवतरणदानपरभाष्यविरोधाच्च। एवं च परिभाषायामेकदेशपदं सामान्यतः समुदायावयवपरमेव। परिभाषासाधकमाह तावन्मात्रेति। तथा चोभयोः परिभाषयोः समासासमासप्रवृत्तितुल्या। अत एव 'आर्धधातुके'ति सूत्रस्येट्ग्रहणप्रत्याख्यानापरभाष्यविरोधो नेति दिक्॥१८॥
परिभाषार्थमञ्जरी
पक्षात्तिरिति सूत्रे इति। तत्र हि 'तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचा'विति सूत्रान्मूल इति वर्तते, इत्युक्ते पाकेऽपि स्यादिति शङ्कते। अनेन न्यायेन मूले इत्यनुवर्त्तते पाके इति निवृत्तमिति सिद्धान्तिनोक्तम्। तत्र कथमेकदेशानुवृत्तिरिति पूर्वपक्षभाष्यमादाय तथा तेनोक्तम्। औतोऽम्शसोरिति। तत्र हि 'वा सुपी'त्यतः सुपीत्यनुवर्तते वेति निवृत्तमनेन न्यायेनोक्तम्। एतेन 'पक्षात्ति'रिति पूर्व्वपक्षभाष्याशयमादाय कैयटार्थसमर्थनङ्कुर्वन्तः कैयटानुयायिन: परास्ता:। अत एव स्थलान्तरभाष्यविरोधसूचनायावतरणेऽलुगधिकार इत्युक्तम्। अन्ते चौतोऽमित्यमुक्तमिति बोध्यम्॥१८॥