SanskritVani
ननु 'आशंसायां भूतवच्च'इत्यनेन लुङ इव लङ्लिटोरप्यतिदेशः स्यादत आह -
सामान्यातिदेशे विशेषानतिदेशः।११०।
सामान्योपस्थितिकाले नियमेन विशेषोपस्थापकसामग्र्यभावोऽस्या बीजम्। तेनानद्यतनभूतरूपे विशेषे विहितयोस्तयोर्नातिदेशः। इयमनित्या, 'न ल्यपि' इति लिङ्गात्। तेन स्थानिवत्सूत्रेण विशेषातिदेशोऽपि। स्पष्टं चैतत् सर्वं स्थानिवत्सूत्रे भाष्ये॥११०॥
कामाख्या
सामान्यातिदेशइति। सामान्यधर्मावच्छिन्ननिमित्तककार्येऽतिदिश्यमाने विशेषधर्मावच्छिन्ननिमित्तककार्यातिदेशो नेति परिभाषार्थः। अत्र बीजमाह सामान्येति। लिङ्गादिति। यदीयं नित्या स्यात्तदा'न क्त्वा सेडि'ति कित्वस्य निषेधेन क्त्वावृत्तिकित्वस्य विशेषधर्मतया तस्यातिदेशाभावेनेत्वाप्राप्तेस्तद्वैयर्थ्यं स्पष्टमेवेति। तेन। अस्याअनित्यत्वेन। विशेषातिदेशोऽपीति। तेनाग्रहीदित्यत्र कृते दीर्घे स्थानिवत्वेनेट्त्वातिदेशाद् 'इट इटी'त्यस्य प्रवृत्तिः। वस्तुतश्चिन्त्यमिदम्। स्थानिवत् सूत्रस्थतदादेशस्तत्स्थानिवद्भवतीत्यस्य संग्राहकवाक्यत्वेन अयं ल्यप् एतत् क्त्वावद्भवतीत्यतिदेशवाक्यकल्पनेन सादृश्यप्रतियोगितावच्छेदके तत्क्त्वावृत्तितद्व्यक्तित्वव्यापकत्वस्य कित्वे सत्त्वेन तदतिदेशस्य सुलभत्वेन 'न ल्यपी'त्यस्य वैयर्थ्याभावात् फलाभावाच्च। न च सूत्रे येन रूपेण स्थानिता आदेशता च तेन रूपेणातिदेशवाक्यकल्पने च मूलं मृग्यमिति वाच्यम्। जजागरतुरित्यादौ गुणानापत्तेः।अतुस्तस्वद्भवति। परस्मैपदवद्भवतीति वेत्यतिदेशवाक्यकल्पने भवन्मते विशेषातिदेशसत्वेन आहतुरित्यादौ तसो ङित्वेन तस्य जजागरतुरित्यादावतिदेशे 'अविचिण् णल्ङिस्वि'ति पर्युदासादिति केचित्॥११०॥
नास्ति।