तत्र संज्ञापरिभाषाविषये पक्षद्वयमित्याह -
यथोद्देशं संज्ञापरिभाषम्।२।
कार्यकालं संज्ञापरिभाषम्॥३
उद्देशमनतिक्रम्य यथोद्देशम्। उद्देश उपदेशदेशः। अधिकरणसाधनश्चायम्। यत्र देश उपदिश्यते तद्देश एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः। देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियते। तत्तद्वाक्यार्थबोधे जाते 'भविष्यति किञ्चिदनेन प्रयोजनमि'ति ज्ञानमात्रेण सन्तुष्यद्यथाश्रुतग्राहिप्रतिपत्रपेक्षोऽयं पक्ष इति 'ईदूत्' सूत्रे कैयटः। केचित्तु परिभाषाविषये 'तस्मिन्' इत्यादिवाक्यार्थबोधे 'सप्तमीनिर्देशादिः क्व' इति पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सकलतत्तत्संस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैव नियमः। कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति विशेषः।
- एतदेवाभिप्रेत्याधिकारो नाम त्रिप्रकारः - कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति 'षष्ठी स्थाने' इति सूत्रे भाष्ये उक्तम्। अधिकारशब्देन पारार्थ्यात्परिभाषाप्युच्यते। कश्चित्परिभाषारूप इति कैयटः। दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम्। एतच्च पक्षद्वयसाधारणं भाष्यम्, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः। तत्रैतावान् विशेषः - यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यता परिभाषाणाम्। तदुक्तं 'क्क्ङिति च' इति सूत्रे कैयटे - 'यथोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जीत' इति। कार्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकवाक्यतेति।
अत्रैकदेशस्थ इत्यनेन तत्र तत्र तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति, यथा व्यवहर्तॄणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्देशीयत्वव्यवहारः किन्त्वभिजनदेशीयत्वव्यवहार एव, तद्वन्निषेधवाक्यानामपि निषेध्यविशेषाकाङ्क्षत्वाद्विध्येकवाक्यतयैवान्वय इति परिभाषासादृश्यात् परिभाषात्वेन व्यवहारः 'क्क्ङिति च' इत्यत्र भाष्ये। तत्रैकवाक्यता पर्युदासन्यायेन। प्रसज्यप्रतिषेधेऽपितेन सह वाक्यार्थबोधमात्रेणैकवाक्यताव्यवहारः।
संज्ञाशास्त्रस्य तु कार्यकालपक्षे न पृथग्वाक्यार्थबोधः, किन्तु प्रदेशवाक्येन सहैव। अत एव 'अणोऽप्रगृह्यस्य' इत्येतदेकवाक्यतापन्नम् 'अदसो मादि'त्येतत् प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेशदेश एवेति तद्देशस्थस्यासिद्धत्वात् पूर्वग्रहणेनाग्रहणात्। एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानं चेति तत्रत्यपरत्वमेव 'विप्रतिषेध'सूत्रप्रवृत्तौ बीजम्। अत एव कार्यकालपक्षे 'अयादिभ्यः परैव प्रगृह्यसंज्ञा' इति 'अदसो मादि'ति सूत्रे भाष्य उक्तम्। आकडाराधिकारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्रत्यपरत्वेनैव बाध्यबाधकभावः। पदादिसंज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्यामपि व्यवहारः। अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे परिभाषाणामेव त्रिपाद्यामप्रवृत्तिमाशङ्क्य कार्यकालपक्षाश्रयेण समाहितमित्याहुः। यथोद्देशपक्षः प्रगृह्यसंज्ञाप्रकरणे भाष्ये॥२॥
कामाख्या
अस्मिञ्छास्त्रे संज्ञापरिभाषाणां कार्यनिर्वाहकत्वं पक्षभेदेन तत्र तत्र दृश्यते।अतस्तौ पक्षावाह। तत्रेति। शास्त्रे इत्यर्थः। विषयशब्दो देशवाची। तथा च संज्ञापरिभाषादेशावच्छेदेन शास्त्रत्वावच्छिन्नाधिकरणता पक्षद्वयनिरूपितेत्यर्थः। परिभाषां विवृणोति। उद्देशमिति। अनतिक्रम्येति 'परावरयोगे चे'ति क्त्वा, वर्तत इत्यध्याहारः। संज्ञाविषये गृहीतशक्त्या।
अयं भावः - स्मरणे उद्बोधकस्य कारणत्वेन विधिशास्त्रघटकतत्तत्सांकेतिक-पदानुभवोद्बोधितेन संज्ञाशास्त्रजन्यबोधादाप्तसंस्कारेणैव शाब्दबोधे जाते विधिप्रदेशे न संज्ञाशास्त्रोपस्थितेः प्रयोजनम्। कार्यकालपक्षस्तु स्मरणे अपेक्षाबुद्धेरपि सहकारितया, फलादर्शनाद्गुरुवाक्ये विश्वासाभावाद्यत्र श्रोतुरुपेक्षा जाता तत्रानुभावकताया असंभवात् पुनर्विधिप्रदेशे संज्ञाशास्त्रजन्यबोधस्यावश्यकत्वादाश्रयणीय इति।
परिभाषाविषये आह - गृहीतपरिभाषार्थेन चेति।अयं भावः - अत्रापि स्वलिङ्गलिङ्गितविधिशास्त्रघटकस्वलिङ्गानुभवोद्बोधितेन संस्कारेणैव निर्वाह इति। इदमत्र तत्वम् - उभयत्र यथोद्देशे वाक्यैकवाक्यता। सा चोपजीव्योपजवकभावापन्नबोधजनकत्वरूपा। 'तस्मिन्नि'त्यादिपरिभाषाणां 'वृद्धिरादैजि'त्यादिसंज्ञाशास्त्राणां च बोध उपजीव्यः। 'इको यणचि', 'वृद्धिरेची'त्यादि विधिशास्त्रजन्योऽप्रामाणिकज्ञानानास्कन्दितो लक्ष्यधर्मिकसाधुत्वप्रकारको बोध उपजीवकः। तादृशबोधस्य संज्ञापरिभाषाबोधाधीनत्वादिति लक्षणसमन्वयः। कार्यकाले तु पदैकवाक्यता। सा च स्वीयपदेन सह विधिशास्त्रीयपदानां परस्परं निरूप्यनिरूपकभावापन्नविषयताप्रयोजकत्वरूपा। 'तस्मिन्निति'परिभाषया पूर्वस्येति पदेऽर्पिते, किन्निरूपितपूर्वत्वमित्यवधिजिज्ञासायाम् 'इको यणची'तिसूत्रघटकमचीति पदं तन्निरूपकं भवति। परिभाषोपस्थाप्यस्तु निरूप्यः। एवं संज्ञाशास्त्रघटकादैच्पदार्थे विधिशास्त्रघटकवृद्धिपदस्याभेदेन बोध इति। तयोर्न्निरूप्यनिरूपकभावो भवतीति लक्षणसमन्वय इति प्राचीनमतम्।
ननु शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते अन्यथाऽशब्दादपि बोधप्रसङ्गः। एवं च उपेक्षाधियामिव अपेक्षाधियामपि न स्मरणेन निर्वाहः, अपितु पदसमर्पणेनैव। तच्च अपेक्षाधियां गुणप्रदेशे विधिशास्त्रोपस्थापनेन। उपेक्षाधियां विधिप्रदेशे गुणशास्त्रोपस्थापनेनेत्याशयेन स्वसिद्धान्तमाह – केचित्विति। भाष्यतत्त्वविद इत्यर्थः। सकलतत्तद्विध्युपस्थिताविति। तस्मिन्नित्यादिपरिभाषया सप्तमीनिर्देशादिलिङ्गचिह्नितस्वदृष्ट सकलसापादिकविधिशास्त्राणां तक्षाधिकरणन्यायेन स्वदेशे आकर्षणे सति, सकलतत्तदिति। तत्तद्विधिशास्त्रीयाप्रामाण्यज्ञानानास्कन्दितसाधुत्वप्रकारकबोधजननाय, गुणस्येति। परिभाषाविधेयस्य निर्दिष्टे पूर्वस्येत्यादिरूपस्य। भेदमिति। यावद्विधिसूत्रमावृत्तिम्। एकवाक्यतयैवेति। पदैकवाक्यतयैव। नियमेति। लक्ष्यसंस्कारकबोधः। जन्यत इति शेषः। अयमेव यथोद्देशपक्षः।
ननु त्रिषादीस्थसूत्राणां परिभाषादृष्ट्याऽसिद्धत्वात्तेषामाकर्षणाभावेन लक्ष्यसंस्कारकबोधो न स्यादत आह - कार्यकालपक्षे त्विति। अयं भावः - त्रिपादी स्थैर्विधिशास्त्रैरेव निजसंस्काराय स्ववृत्तिलिङ्गचिह्नितपरिभाषाणामदृष्टपिशाचन्यायेनाकृष्य पदैकवाक्यतया स्वदेश एव लक्ष्यसंस्कारको बीधो जन्यत इति। अयमेव कार्यकालपक्षः।
पक्षद्वयेऽपि परिभाषाणां पदैकवाक्यतयैव बोधकत्वमित्यर्थे मानमाह – एतदेवेति। पक्षद्वयेऽपि पदैकवाक्यत्वमेव। अधिकार इति। तत्त्वं च स्वदेशे बोधशून्यत्वे सति साक्षादेकवाक्यतया बोधोपयोगित्वम्। त्रिप्रकार इति। एक उत्तरोत्तरं सम्बध्यते। यथाऽङ्गस्येत्यादि। द्वितीयो यश्चकारेणानुकृष्यते। अपरः परिभाषारूपः। नन्विदं भाष्यमधिकारविषयं परिभाषायां नोपपद्यत इत्याह - कश्चिदिति। दीपो यथेति। यथा दीपः स्वावयवप्रभासम्बलितपदार्थप्रकाशकः एवं परिभाषाशास्त्रमपि स्वावयवविधेयसम्बद्धमेव विधिशास्त्रमभिज्वलयतीति दीपदृष्टान्तेन स्पष्टमेव पदैकवाक्यता लभ्यते। वाक्यैकवाक्यतायान्तु अवयवसम्बन्धाभावाद्दृष्टान्तासङ्गतिः स्पष्टैव। एवमेतत्। दीपवत्परिभाषारूपम्। स्वबुद्धिजननद्वारेति। स्वविधेयोपस्थितिद्वारा।
नन्विदं भाष्यं कार्यकालपक्षाभिप्रायकमेव। तत्पक्षे पदैकवाक्यतायाः प्राचीनैरप्यङ्गीकारादत आह – एतच्चेति। भाष्ये पक्षविशेषस्यानुपादानात्। प्रदेशैकवाक्यतायाः = विध्येकवाक्यतायाः। ननु पक्षद्वये पदैकवाक्यतायां तयोः को विशेषोऽत आह – तत्रैतावानिति। तैः = विधिसूत्रैः सह। यथोद्देशपक्षे परिभाषादेशे, कार्यकालपक्षे विधिदेशे लक्ष्यसंस्कारको बोध इत्येव तयोर्विशेषः।
ननु विधिदेशे परिभाषाबुद्धौ एकदेशस्थत्वानुपपत्तिरित्यत आह - अत्रैकदेशस्थ इति। ननूक्तपक्षद्वयस्य संज्ञापरिभाषामात्रविषयकतया 'क्ङिति चे'त्यत्र कार्यकालं संज्ञापरिभाषमिति कार्यकालपक्षोपन्यासो भाष्यकृतां विरुद्ध इत्यत आह – निषेधवाक्यानामिति। विध्युपकारकत्वमात्रेणारोपितं परिभाषात्वं तत्राप्यस्तीति भावः। पर्युदासन्यायेनेति। 'क्ङिति च' इत्यत्रानुवृत्तनञो भेदार्थकत्वेन क्ङित्प्रतियोगिकभेदविशिष्ट-सार्वधातुकार्धधातुकयोर्गुणो भवतीत्यर्थे पदैकवाक्यत्वमुपपन्नम्।
ननु घटो न पट इत्यत्र नञर्थभेदबोधे सत्यपि घटे न पटे इत्यादौ घटभिन्ने पटे इत्यर्थाप्रतीतेः असमस्तनञा भेदबोधने प्रथमान्तप्रतियोग्यनुयोगिवाचकपदसमभिव्याहारस्य कारणताया अवश्यं वक्तव्यतया प्रकृते तथाऽभावेन भेदबोधकत्वं नञो न संभवतीत्याह प्रसज्यप्रतिषेधोऽपीति। यद्यपि प्रसज्यप्रतिषेधे वाक्यार्थद्वयादिगौरवमस्ति, तथापि पर्युदासस्यासम्भवतया गौरवमपि सह्यमिति भावः। अत्र पक्षे नैकवाक्यता किन्तु विधिप्रदेशे वाक्यार्थबोधमात्रेण एकवाक्यत्वमारोप्य भाष्ये परिभाषात्वव्यवहार इति भावः।
इदानीं संज्ञाशास्त्रविषये व्यवस्थामाह - संज्ञाशास्त्रस्य त्विति। तुशब्दोऽप्यर्थे। अयं भावः - संज्ञाशास्त्रस्यापि परिभाषावत् पृथक् जायमानो वाक्यार्थबोधो न कदापि लक्ष्यसंस्कारकः। किन्तु कार्यकालपक्षे प्रदेशवाक्यार्थेन सहैव। अर्थाद्वक्ष्यमाणभाष्यविनिगमकेन संज्ञाशास्त्राणां विधिदेशे गमनेन वाक्यार्थैकवाक्यत्वम्। स्वदेशे लक्ष्यसंस्कारकबोधाभावादेव संज्ञाविषये विधिदेशीय एव पौर्वापर्यव्यवहारः। नैवं परिभाषाणाम्। अत्रैकदेशस्थेति दृष्टान्तेन तथा विनिगमकाभावादिति विशेषः। अत एव परिभाषाशास्त्रस्य कार्यकालपक्षेऽपि स्वपदार्पणमेव न तु तद्देशगमनम्। अत एव च स्वदेशेनैव पौर्वापर्यव्यवहारः। एतत्सर्वं मूले स्पृष्टम्। इदमत्र तत्त्वम् - प्राचीनमते संज्ञापरिभाषाणां वाक्यार्थे जाते, जातस्य संस्कारस्य तल्लिङ्गलिङ्गितविधिघटकलिङ्गेन उद्बोधे स्मरणेनैव विधावुपकारः। एवं च यथोद्देशे वाक्यैकवाक्यतैव फलति। अयमेव च कार्यकालपक्षः। नवीनमते तु शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यत इति नियमान्न संस्कारस्मरणेनोपयोगः अपित्वनुभवेनैव। एवं च परिभाषाविषये पक्षद्वयेऽपि पदैकवाक्यतैव स्वपदार्पणमेव न तु प्रदेशे स्वस्य गमनं जडत्वादिति फलति। संज्ञाविषये तु यथासंभवमेकवाक्यताद्वयम्। प्रदेशगमनं च विनिगमकत्वादिति विशेषः। उभयमतेऽपि पक्षद्वयमपेक्षोपेक्षाबुद्धिकृतमेव। विवादस्तु स्मरणे अनुभवे न त्वेकवाक्यतायाम्। श्रीगुरुचरणास्तु परिभाषाविषये न यथोद्देशः नापि कार्यकालः। किन्तु परिभाषा द्विधा काश्चिच्छास्त्रत्वसंपादिकाः। यथा 'तस्मिन्नि'त्यादिपरिभाषाप्रवृत्तिम्विना 'इको यणची'त्यादिशास्त्राणामनाहार्याप्रामाण्यज्ञानानास्कन्दितसाधुत्वप्रकारकबोधजनकत्वरूपशास्त्रत्वस्यैवासिद्ध्या परिभाषादृष्ट्या त्रिपादीस्थानां विधिसूत्राणां नासिद्धत्वम्। 'पूर्वत्रासिद्धमि'त्यनेन शास्त्रस्यैवासिद्धत्वविधानात्। अत एव च तासान्त्रिपाद्यामपि प्रवृतिः। काश्चिच्छास्त्रत्वावच्छिन्नोद्देश्यताकाः। यथा 'असिद्धं बहिरङ्गमन्तरङ्गे', 'विप्रतिषेधे परमि'त्यादिकाः। तासां प्रवृत्तेः प्रागेव शास्त्रत्वस्य सत्त्वेन तदृष्ट्या त्रिपाद्या असिद्धत्वेन त्रिपाद्यां प्रवृत्तिर्न्न। संज्ञाशास्त्राणामपि संस्कारकशास्त्रदृष्ट्या संस्कार्यस्य नासिद्धत्वमित्यवसानसंज्ञाविधानात्कल्पनेन त्रिपाद्यां प्रवृत्तिसंभवात्तद्विषयेऽपि न पक्षद्वयम्। परत्वादिव्यवस्था चेत्थं कल्पनीया। पाणिन्युच्चारणाधिकरणत्व-लक्ष्यसंस्कारजननाधिकरणत्वपाणिन्युच्चारणाधिकरणत्वे सति लक्ष्यसंस्कारजननाधिकरणत्वैतत्त्रितयाधिकरणत्वेन। तत्रोत्तरं बलवत्। तेषु च परिभाषाविषये तृतीयम्। भपदसंज्ञादिविषये प्रथमम्। प्रगृह्यसंज्ञादिविषये द्वितीयम्। भाष्य लक्ष्यपर्यालोचनेनाश्रीयत इति 'अमू अमी' इत्यादौ नानुनासिकत्वादिदोष इत्याहुः। अत एवेति। 'अदसो मादि'त्यस्य प्रदेशदेशत्वादेव। तत्प्रवृत्तिः। असिद्धत्वप्रवृत्तिः। तद्देशस्थस्येति। 'अणोऽप्रगृह्यस्ये'त्येतद्देशस्थस्य 'अदसो मादि'त्यस्य। असिद्धत्वादिति। मुत्वशास्त्रैकवाक्यतापन्न'पूर्वत्रासिद्धमि'त्यनेनासिद्धत्वात्। पूर्वग्रहणेन। मुत्वशास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धमित्येतद्घटकपूर्वग्रहणेन। एवं तद्बोधोत्तरमेव। विधिदेशे संज्ञासूत्रजबोधोत्तरमेव। तत्रत्य परत्वमिति। विधिदेशीयपरत्वम्। अत्र साधकमाह - अत एवेति। विप्रतिषेधसूत्रप्रवृत्तौ विधिदेशीयपरत्वस्य बीजत्वादेव। परैवेति। प्रगृह्यसंज्ञायाः प्लुतप्रगृह्या इत्येतद्देशस्थत्वात्। तेन 'अमी अत्र', 'अमू आसाते' इत्यादावेयादयो न।
नन्वेवं सर्वसंज्ञाविषये व्यवस्थायां भसंज्ञाया अल्लोपो न इत्येतद्देशस्थत्वेन नलोपैकवाक्यतापन्नपदसंज्ञायास्त्रिपादीस्थत्वादसिद्धत्वेन अकडारीयत्वाभावेन च भसंज्ञया पदसंज्ञाबाधानापत्त्या राज्ञो राजन्य इत्यादावल्लोपोत्तरं नलोपापत्तेरत आह – भपदसंज्ञादीति। अत्र भसंज्ञासाहचर्येण परनिमित्तकपदसंज्ञाया एव ग्रहणात् 'एकदेशविकृतमि'ति परिभाषावतरणविरोधो न। नन्वेवं भपदसंज्ञाविधायकसूत्रदृष्ट्या त्रिपाद्या असिद्धत्वात्तत्र कथं प्रवृत्तिरत आह – पदादिसंज्ञानामिति। तत्र = स्वदेशे। अत्र मानमाह - अत एवेति। स्वदेशे जातशक्तिग्रहेणैव त्रिपाद्यामर्थोपस्थितिसत्वादेव। अन्यत्सर्वं सुगमम् ॥२॥
परिभाषार्थमञ्जरी
उच्चारणकाले इति। 'तस्मिन्निति' सूत्रे निर्दिष्टग्रहणेन उपशब्दपूर्वकस्यैव दिशेरुच्चारणार्थकत्वमित्यस्य व्यभिचारादिति भावः।कैयट इति।अत्रायं प्राचीनमते निष्कर्षः। यथोद्देशे संज्ञापरिभाषयोः स्वदेशे वाक्यार्थबोधोत्तरं विधिप्रदेशे[1] उपस्थित्या वाक्यैकवाक्यतायां तत्रैव लक्ष्यसंस्कारः। कार्यकालपक्षे तु स्वदेशे वाक्यार्थबोधं विनैव तत्रोपस्थितौ पदैकवाक्यतयाऽन्वये लक्ष्यसंस्कारः। एवञ्च स्वदेशे वाक्यार्थबोधः, विधिप्रदेशे वाक्यैकवाक्यतालक्ष्यसंस्कारः, तत्रैव यथाश्रुतग्राहिप्रतिपत्रपेक्षश्च पक्ष इति चतुष्टयं यथोद्देशपक्षे पर्यवसन्नम्। कार्यकालपक्षे च[2] विधिप्रदेशे वाक्यार्थबोधः, पदैकवाक्यता, विशेषप्रतिपत्रपेक्षश्चेति त्रितयं पर्यवसन्नम्। लक्ष्यसिद्धिस्तूभयत्रापि समानैव विधिप्रदेशे। यथोद्दशे वाक्यैकवाक्यतया कार्यकालपक्षे तु पदैकवाक्यतया इत्यन्यदेतत्। अव्यवहितोच्चारिते सप्तम्यन्ते यत्कार्यं तत्पूर्वसम्बन्धि। अव्यवहितोच्चरितेऽचीति सप्तम्यन्ते पूर्वस्य इको यण् भवतीति तन्मते क्रमेण वाक्यार्थः। अत एव 'ईदूदे'त्सूत्रे तपरकरणेन अग्नी इति प्लुतस्य प्रगृह्यत्वाभावमाशङ्क्य प्लुतस्यासिद्धत्वेन संज्ञाप्रवृत्तिर्भविष्यतीत्युत्तरिते अन्येन प्लुतप्रगृह्येति ज्ञापकेन प्लुतस्य सिद्धत्वे ज्ञापिते, यथोद्देशपक्षाश्रयणे प्रगृह्यसंज्ञादृष्ट्या प्लुतस्यासिद्धत्वेन प्रगृह्यत्वं स्यादित्याशयकं 'किमतो यत् सिद्धः प्लुतः स्वरसन्धिषु? संज्ञाविधावसिद्धः' इति भाष्यमुपादाय यथोद्देशसंज्ञापरिभाषे प्रगृह्यसंज्ञा च स्वरसन्धिप्रकरणमध्यपतिता न भवतीति प्रश्न इति कैयटः संगच्छते। अत्रैव प्रतीकान्तरे महावाक्यार्थपर्य्यालोचनप्रवृत्तप्रतिपत्रपेक्षस्तु कार्यकालपक्षः। यदि यथोद्देशेऽपि विधिप्रदेशे पदैकवाक्यतयान्वयस्तर्हि तद्देशस्थत्वेन भाष्यस्य कैयटस्य चासङ्गत्यापत्तेः। किञ्च महावाक्यार्थेति वदता यथोद्देशे पदैकवाक्यत्वाभावस्य कार्यकालतायां तत्सत्ताया बोधनाच्च। न हि वाक्यैकवाक्यतायां महावाक्यार्थः सम्भवति। अत एव कार्यकालपक्षे तु विधिवाक्येनैव वृद्धिसंज्ञाविशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणमेव न प्राप्नोतीति स्पष्टार्थमेव तपरकरणमिति वृद्धिसंज्ञासूत्रशेषे कौस्तुभः सङ्गच्छते। 'वृद्धिरादैच्' सूत्रं तु परिभाषात्वपक्षे 'इको गुणवृद्धी' इतिवत्पदोपस्थापकमित्युक्त्या पदैकवाक्यतायाः तत्रैव बोधनादिति दिक्प्रदर्शनमेतत्। गुणभेदमिति। अत एव भट्टैः 'दशापवित्रेण ग्रहं संमार्ष्टी'ति मंत्रेण ग्रहसम्मार्ज्जनं विधीयते, तत्र 'पशुना यजेते'त्यादौ पशुगतैकत्वविवक्षावत्। अत्रैकत्वविवक्षयैकग्रहः सम्मार्जनीय इत्याशङ्क्य 'ग्रहं प्रति गुणः सम्मार्गः, प्रतिप्रधानञ्च गुणश्चवर्तनीय' इति न्यायेन यावन्तो ग्रहाः सन्ति ते सम्मार्ज्जनीया इति निश्चिते उद्देश्यगत सङ्ख्याश्रूयमाणाप्यविवक्षितेतितृतीयाध्यायीयसप्तम्यधिकरणे समाहितं तद्वदिति भावः। पशुनेत्यत्र तु पशोर्विधेयत्वेन न दोषः।'दशापवित्रंवासः खण्डः'।
ननु वक्ष्यमाणभाष्यात् पक्षद्वयेऽपि प्रदेशैकवाक्यतायाः अविशेषेणप्रतीतेः यथोद्देशापेक्षया कः कार्यकाले विशेषोऽत आह - कार्य काल इति[3]। उपास्थितिरिति विशेष इति। अत्रायं मतनिष्कर्षः – यथोदेशे = स्वदेशे वाक्यार्थबोधः, पदैकवाक्यतापरिभाषाप्रदेशे, लक्ष्यसंस्कारः, विशेषप्रतिपत्रपेक्षश्चेति चतुष्टयम्। [4]तत्र स्वदेशे वाक्यार्थबोधस्तु उभयसाधारणः। कार्य्यकालपक्षे तु 'तस्मिन्निति'सूत्रोक्तभाष्यप्रामाण्यात् साकाङ्क्षे विप्रतिषेधशास्त्रोपयोगिनि शाब्दबोधे परिभाषाप्रदेशे जातेऽनन्तरं विधिप्रदेशे उपस्थितौ निराकाङ्क्षपदैकवाक्यतयाऽन्वयबोधः। लक्ष्यसंस्कारादिकं विधिप्रदेशे एव स्वदेशे वाक्यार्थः। प्राचीनकार्यकालापेक्षया विशेषः। वस्तुतस्तु 'तस्मिन्निति' सूत्रस्थ भाष्यमेकदेश्युक्तिरिति वक्ष्यते। तदा तु न स्वदेशे वाक्यार्थबोध इति ध्येयम्। संज्ञायां यथोद्देशपक्षे तु स्वदेशे वाक्यार्थबोधादिकप्राचीनोक्तयथोद्देशवदेव बोध्यम्।
एतावाँस्तु विशेषः। तेषां यथाश्रुतग्राहिप्रतिपत्रपेक्षोऽयं वाक्यर्थः। एतेषान्तु विशेषग्राहिप्रतिपत्रपेक्षश्चेति। लोकेऽस्य किं नामेति पृष्टे देवदत्तेत्युदीरिते[5] नह्याकाङ्क्षा[6] दृश्यते, किमेतन्नाम्नः प्रयोजनमिति। प्राचीनैस्तुयथोद्देशे निराकाङ्क्षशाब्दबोधाभावाद् यथाश्रुतग्राहित्वं कण्ठत एवोक्तम्। इदं सर्वं जातशक्तिग्रहेणैवेति वदता सूचितम्। संज्ञायामाकडाराधिकारीयबहिर्भूतसूत्रविषयके कार्य्यकालपक्षे तु स्वदेशे वाक्यार्थबोधमन्तरेण विधिप्रदेशे उपस्थितौ ईदूदेत्सूत्रादिस्थभाष्यप्रामाण्येनवाक्यैकवाक्यतयान्वयः। लक्ष्यसंस्कारादिकन्तु परिभाषाविषयककार्य्यकालपक्षवद्बोध्यम्। तत्र हि भाष्ये प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवतीति 'ईदूदेद्विवचनमि'त्येव वदेत्। वाक्यार्थस्तु प्रगृह्य[7]पदाभिन्नेदूदेदन्तस्याचि प्रकृतिभाव इति। यदि विशिष्टोपस्थितावपि पदैकवाक्यतयान्वयस्तर्हि एकं प्रगृह्यपदमतिरिच्यमानं स्यात्। एतदुपक्रम्य भाष्यन्तु प्राचीनोक्तयथोद्देशोपष्टम्भकत्वेन पूर्वमुक्तम्।
सूत्रे कैयट इति। तत्र हि 'क्ङिती'तिपरसप्तम्यामव्यवहिते चितमित्यादौ 'क्ङिति' निषेधः स्यान्न तु भिन्नमित्यादौ व्यवहिते इत्याशयेन तन्निमित्तग्रहणं कर्तव्यमिति वार्तिकप्रवृत्तौ तत्खण्डनाय भिनत्तीत्यादिलक्ष्ये 'गुणनिषेधकनिषेधवाक्ये विधिसूत्रबुद्धावचारितार्थ्येन एतल्लक्ष्यविषयकनिषेधशास्त्रेण बाध' इति भाष्यमुपादाय तेनोक्तम्। अनेन ईदूत्सूत्रस्थकैयटस्य पूर्वापरविरोधोऽपि ध्वनितः।
सूत्रे भाष्ये इति। तत्र हि रोरवीतीत्यत्र यङ्लुकः प्रत्ययलक्षणेन परत्वमाश्रित्य निषेधशङ्कायां 'न लुमते'ति निषेधे उक्तेऽङ्गाधिकारस्थे एव स निषेध इत्यन्येनोक्ते कार्य्यकालमाश्रित्य[1] गुणप्रदेशस्थत्वं निषेधशास्त्रस्योक्तम्। एवं 'निपात एकाजनाङ्' इत्यत्र 'आद्यन्तवदेकस्मिन्', 'येन विधि'रित्यतिदेशसंज्ञासूत्रयोरपि तद्व्यवहारो द्रष्टव्यः। एवञ्च निषेधस्यापि अङ्गाधिकारस्थत्वेन 'न लुमते'ति निषेध इति तात्पर्य्यम्।
अदसो मादिति। तत्र हि प्रगृह्यसंज्ञादृष्ट्या मुत्वस्यासिद्धत्वेनायादीनां प्राप्तिमाशङ्क्य संज्ञाविधानसामर्थ्येन तेषां सिद्धत्वेऽन्येनभिहिते 'अणोऽप्रगृह्यस्ये'त्यनुनासिकप्रतिबन्धकेन[1] कार्य्यकालपक्षे चारितार्थ्यमुक्तम्।भाष्ये उक्तमिति। 'अमू अत्रे'त्यत्र प्रगृह्यसंज्ञाऽयादिभि र्व्विप्रतिषेधे प्रकृतिभावविधायकसूत्रस्थत्वं कार्य्यकाले संज्ञायाम् उक्तम्। आकडारेति।अत्रत्यं तत्त्वम् 'एकदेशविकृतमनन्यवदि'ति परिभाषाव्याख्यावसरे स्फुटीभविष्यति॥२॥
यथोद्देशं संज्ञापरिभाषम् ॥ २ ॥
संज्ञा और परिभाषासूत्र यथोद्देश होते हैं । संज्ञा और परिभाषासूत्र कार्यकाल होते हैं अर्थात् संज्ञा और परिभाषासूत्रों के विषय में यथोद्देश और कार्यकाल ये दो पक्ष होते हैं ।
विमर्श - संज्ञासूत्र 'वृद्धिरादैच्' और परिभाषासूत्र 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्यादि के सम्बन्ध में यथोद्देश और कार्यकालपक्ष स्वीकृत हैं । यथोद्देश्यपक्ष का तात्पर्य यह है कि अष्टाध्यायी के जिस अध्याय, पाद और क्रम में संज्ञासूत्र पढ़ा गया है वही उसका देश होता है । उसी जगह उसका सफल वाक्यार्थ बोध होता है जिसके द्वारा सम्पूर्ण शास्त्र में कार्य किया जाता है । कार्यकाल पक्ष का तात्पर्य यह है कि जब-जब कार्य उपस्थित हो तब-तब वाञ्छित संज्ञा पुनः की जाय । इन दोनों पक्षों का कारण अपेक्षा और उपेक्षा बुद्धियाँ होती हैं । आचार्य के द्वारा 'वृद्धिरादैच्' सूत्र का व्याख्यान करने पर श्रद्धालु छात्र विश्वासपूर्वक आचार्य वाक्य को हृदयंगम करता है । उसे इस बात का ध्यान रहता है कि आगे चलकर विधिसूत्रों में अनेकों जगह वृद्धिपद आयेगा । अतः वह वृद्धि पदार्थ का दृढ़तर संस्कार एक ही जगह कर लेता है । परिणामस्वरूप उसे बार-बार वृद्धि पदार्थ का ज्ञान कराने की आवश्यकता नहीं रह जाती । यह यथोद्देशपक्ष कहा जाता है । इसका कारण अपेक्षा बुद्धि होती है ।
जो छात्र उपेक्षा बुद्धि वाले होते हैं वे सोचते हैं कि जब वृद्धि पदार्थ की आवश्यकता 'मृजेर्वृद्धि' इत्यादि सूत्रों में आगे आने वाली है तो अभी से उसके ऊपर ध्यान देना अनावश्यक है । इस उपेक्षाबुद्धि के कारण 'वृद्धिरादैच्' के देश में आचार्य के द्वारा कराये गये शक्यार्थग्रह की वे उपेक्षा कर देते हैं । परिणाम यह होता है कि जब 'मृजेर्वृद्धि:' सूत्र आता है तब वृद्धि पदार्थ के ज्ञान के बिना छात्र की कठिनाई को देख कर 'वृद्धिरादैच्' का वाक्यार्थ बोध पुनः वहाँ करना पड़ता है, जिससे वृद्धि पदार्थ पुनः बुद्धधारूढ होता है । यह स्थिति सारे विधिसूत्रों में होती है । यह कार्यकाल पक्ष कहा जाता है । इसी बात को ग्रन्थकार स्पष्ट करते हैं -
उद्देशमनतिक्रम्य यथोद्देशम् । उद्देश उपदेशदेशः । अधिकरणसाधनश्चायम् । यत्र देश उपदिश्यते तद्देश एव वाक्यार्थबोधेन गृहीतशक्त्या गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः । देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियते । तत्तद्वाक्यार्थबोधे जाते 'भविष्यति किञ्चिदनेन प्रयोजन'मिति ज्ञानमात्रेण सन्तुष्यद्यथाश्रुतग्रहिप्रतिपत्रपेक्षोऽयं पक्ष इति ईदूत् १.१.११ सूत्रे कैयटः ।
उद्देश का अतिक्रमण न करना यथोद्देश कहा जाता है । उद्देश का अर्थ उपदेशदेश है । यहाँ उपदेश शब्द अधिकरणसाधन है । अर्थात् 'उपदिश्यते यत्राऽसौ उपदेश:' इस व्युत्पत्ति में उप पूर्वक दिश् धातु से बाहुलकात् अधिकरण अर्थ में घन् प्रत्यय करके लघूपधगुण करके उपदेश शब्द बना है । जिस देश (अध्याय, पाद, क्रम) में सूत्रों का उपदेश किया गया हो, नहीं पर संज्ञा और परिभाषासूत्रों का वाक्यार्थबोध हो जाता है । इससे संज्ञाशब्द का शक्तिग्रह किस अर्थ में है तथा परिभाषासूत्र का क्या अर्थ है यह बात उपदेशदेश में ही विदित हो जाती है और उसी के द्वारा शास्त्र (व्याकरण) में सर्वत्र व्यवहार किया जाता है । इस शास्त्र में देश का अर्थ उच्चारणकाल है । तत्तद् सूत्रों का वाक्यार्थबोध हो जाने पर यथाश्रुत का ग्रहण करने वाला प्रतिपत्ता (बोद्धा) यह समझता है कि इस वाक्यार्थं बोध का कुछ प्रयोजन होगा इसलिये वह उस ज्ञानमात्र से सन्तुष्ट हो जाता है अर्थाद उनका दृढतर संस्कार वहीं कर लेता है । इस प्रकार के प्रतिपत्ता की अपेक्षा यह पक्ष है । यह बात 'ईदूदेद् द्विवचनम् ' सूत्र के कैयटभाष्य में स्पष्ट है ।
केचित्तु - परिभाषाविषये तस्मिन् १.१.६६ इत्यादिवाक्यार्थबोधे 'सप्तमीनिर्देशादिः क्व' इति पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सकलतत्तत्संस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैव नियमः । कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति विशेषः । एतदेवाभिप्रेत्याधिकारो नाम त्रिप्रकारः कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति, यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति षष्ठी स्थाने १.१.४९ इति सूत्रे भाष्ये उक्तम् । अधिकारशब्देन पारार्थ्यात्परिभाषाप्युच्यते । कश्चित् परिभाषारूप इति कैयटः । दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत् स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम् । एतच्च पक्षद्वयसाधारणं भाष्यम्, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः ।
अब केचित्तु शब्द से नागेशभट्ट अपना मत कह रहे हैंइस मत के अनुसार 'तस्मिन्निति' इत्यादि परिभाषासूत्रों के वाक्यार्थबोध हो जाने पर सप्तमीनिर्देश कहाँ कहाँ पर है ऐसी जिज्ञासा उत्पन्न होती है । इस पर्यालोचन में सप्तम्यन्तपदघटित जिन विधिसूत्रों का संस्कार उबुद्ध होता है वे सारे विधिसूत्र परिभाषा देश में उपस्थित होते हैं । अथवा सप्तम्यन्तपदघटित सारे सपादसप्ताध्यायी सूत्र परिभाषादेश में उपस्थित होते हैं । उन उपस्थित विधिसूत्रों का अप्रामाण्यज्ञानानास्कन्दितबोधरूपी संस्कार के लिये परिभाषा सूत्र के विधेय की आवृत्ति करके परिभाषासूत्र का विधिसूत्रों के साथ पर्दकवाक्यता की जाती है । यहाँ गुणभेदं का अर्थ परिभाषासूत्र के विधेय का भेद है । विधिसूत्र का उपकारक होने के कारण परिभाषासूत्र को गुण कहा गया है । सम्पूर्ण परिभाषा सूत्र का विधिशास्त्र के साथ अन्वय न होने के कारण केवल उसके विषेय 'निदिष्टे पूर्वस्य' इत्यादि की आवृत्ति की जाती है । इसके बाद वहाँ पदेकवाक्यता होती है । पदैकवाक्यता निरूप्यनिरूपकभावापन्नविषयताप्रयोजकपदघटित रूप होती है । 'तस्मिन्निति' इस सूत्रघटक पूर्वपदार्थ का तथा निर्दिष्ट पद के अर्थ का 'इको यणचि' इस सूत्रघटक 'इक्' और 'अच्' पद के अर्थ साथ अभेद सम्बन्ध से अन्वय होता है । इस अन्वय में पूर्व और निर्दिष्ट पदार्थ में प्रकारता और तन्निरूपित विशेष्यता 'इक्' और 'अच्' पदार्थ में रहती है । इसलिये उपर्युक्त लक्षण लक्षित पदेकवाक्यता यहाँ होती है । परिभाषासूत्रों के लिये यही यथोद्देशा है ।
सप्तमी निर्देशादि कहाँ-कहाँ हैं ऐसी जिज्ञासा होने पर डढतर संस्कार के अभाव के कारण जिन विधिसूत्रों की उपस्थिति नहीं हुई अथवा परिभाषासूत्र की दृष्टि से पादिक विधि सूत्रों के असिद्ध होने के कारण जो विधिसूत्र परिभाषादेश में उपस्थित नहीं हो सके उनके लिए परिभाषासूत्रों का कार्यकाल पक्ष होता है । इस कार्यकालपक्ष में तो परिभाषा सूत्रों की त्रिपादी में भी उपस्थिति होती है । यहाँ तु शब्द से यथोद्देशपक्ष की व्यावृत्ति की गई है । अर्थात् कार्यकालपक्ष में ही त्रिपादी में उपस्थिति होती है, अन्य पक्ष में नहीं । यहाँ अपि शब्द से सपादसप्ताध्यायी का बोध होता है । अर्थात् जिन सपादसप्ताध्यायी सूत्रों की उपस्थिति संस्काराभाव के कारण परिभाषादेश में नहीं हो पाती उनमें भी परिभाषा की उपस्थिति होती है । परिभाषा की उपस्थिति का तात्पर्य परिभाषा विधेय की उपस्थिति से है । विधिदेश में परिभाषा विधेय की स्मरणात्मक उपस्थिति होने के बाद पदकवाक्यता द्वारा विधिसूत्रों का वाक्यार्थबोधहोता है ।
परिभाषासूत्रों की यथोद्देशपक्ष में स्वदेश में आये हुए विधिसूत्रों के साथ स्वविधेय का समर्पण पुरःसर पर्दैकवाक्यता तथा कार्यकालपक्ष में विधिदेश में अपने विधेय का स्मरण कराकर पदैकवाक्यता होती है । ऐसा समझकर ही 'षष्ठीस्थाने योगा' इस सूत्र के भाष्य में लिखा गया है कि अधिकार तीन प्रकार के होते हैं । उनमें कोई ऐसा है जो एकदेशस्थ होकर सारे शास्त्र को अभिज्वलित करता है, जिस प्रकार प्रज्वलित दीप सारे घर को प्रकाशित करता है । यहाँ अधिकार शब्द से परिभाषा का भी ग्रहण किया जाता है । जिस प्रकार अधिकार पदार्थ (विध्यर्थं) होता है उसी प्रकार परिभाषा सूत्र भी परार्थ होता है । इसलिये यहाँ अधिकारसारयात् परिभाषा को अधिकार कहा गया है । 'कश्चिदेकस्थ:' इसमें कश्चित् शब्द का अर्थ कैयट ने 'परिभाषा' किया है । जिस प्रकार दीपक प्रभा के द्वारा सारे गृह का प्रकाशक होता है उसी प्रकार परिभाषाशास्त्र भी अपने विधेय की बुद्धि के द्वारा सम्पूर्ण शास्त्र के उपकारक होते हैं । यही उसका तात्पर्य है । यह 'अधिकारो नाम' इत्यादि भाष्य यथोद्देश और कार्यकाल दोनों पक्षों के लिये है । इस भाष्य से दोनों पक्षों में प्रदेशैकवाक्यता (विधिसूत्र के साथ एकवाक्यता) की प्रतीति होती है । यह विध्येकवाक्यता स्वदेश और विधिदेश दोनों जगह होती है । जो विधिसूत्र परिभाषा के देश में आ जाते हैं उनके साथ स्वदेश (परिभाषादेश) में और जिन विधि सूत्रों की उपस्थिति परिभाषा देश में नहीं होती, उनके देश में ही परिभाषा विधेय का स्मरण करके पदैकवाक्यता होती है । अब शंका होती है कि दोनों पक्षों (यथोद्देश और कार्यकाल) की पर्दक वाक्यता में क्या विशेषता है । उस आशंका के उत्तर में ग्रन्थकार लिखते हैं -
तत्रैतावान् विशेषः - यथोद्देशे परिभाषादेशे सर्वविधिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यता परिभाषाणाम् । तदुक्तं क्क्ङिति च १.१.५ इति सूत्रे कैयटे - 'यथोद्देशे प्रधानान्यत्मसंस्काराय सन्निधीयमानानि गुणभेदं प्रयुञ्जीत' इति । कार्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकवाक्यतेति । अत्रैकदेशस्थ इत्यनेन तत्र तत्र तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति, यथा व्यवहर्तृणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्देशीयत्वव्यवहारः किन्त्वभिजनदेशीयत्वव्यवहार एव, तन्निषेधवाक्यानामपि निषेध्यविशेषाकाङ्क्षत्वाद्विध्येकवाक्यतयैवान्वय इति परिभाषासादृश्यात् परिभाषात्वेन व्यवहारः क्क्ङिति च १.१.५ इत्यत्र भाष्ये । तत्रैकवाक्यता पर्युदासन्यायेन । प्रसज्यप्रतिषेधेऽपि तेन सह वाक्यार्थबोधमात्रेणैकवाक्यताव्यवहारः ।
वहाँ इतनी विशेषता है कि यथोद्देशपक्ष में परिभाषा के देश में सारे विधिसूत्रों की उपस्थिति होने पर परिभाषासूत्र आत्मभेद (अपने विधेयभेद) की परिकल्पना करता है जिससे उन विधिसूत्रों के साथ परिभाषाओं की एकवाक्यता (पदैकवाक्यता) की जाती है । कैयट ने 'क्ङिति च' सूत्र में कहा है कि यथोदेशपक्ष में प्रधान विधिसूत्र अपने वाक्यार्थबोधरूपी संस्कार के लिये परिभाषा में सन्निहित होकर गुणभेद (परिभाषाविधेयभेद) कराते हैं ।
कार्यकालपक्ष में तत्तदुद्विधिप्रदेश में परिभाषाविधेय का स्मरण करके पदैकवाक्यता होती है । सारांश यह हुआ कि यथोद्देशपक्ष में परिभाषादेश में और कार्य कालपक्ष में विधिदेश में लक्ष्यसंस्कारकबोध होता है । यही यथोद्देश्य और कार्यकालपक्ष की पदैकवाक्यता में अन्तर है ।
उपर्युक्त भाष्य में जो एक देशस्थ शब्द आया है उसका तात्पर्य यह है कि कार्यकालपक्ष में विधिदेश में जब परिभाषा की उपस्थिति होती है तो उसे एक देशस्थ कैसे कहा जाय ऐसा नहीं सोचना चाहिये, क्योंकि जिस प्रकार व्यावहारिक कार्य के लिये अनेक देशों में जाने पर भी उस देश के नहीं कहे जाते किन्तु अभिजन देश के ही कहे जाते हैं, उसी प्रकार परिभाषाएँ यद्यपि विधि देश में जाती हैं तथापि वहाँ जाने से वे तद्देशीय नहीं हो जाती । उनका देश तो वही होता है जहाँ उनका आद्योच्चारण है ।
यहाँ यह शंका होती है कि यथोद्देश और कार्यकाल ये दोनों पक्ष यदि केवल संज्ञा और परिभाषा यहाँ सूत्रों के लिये ही हैं तो 'क्ङिति च' सूत्र के लिये कार्यकालपक्ष का प्रयोग भाष्यकार ने कैसे किया है ? इस प्रकार की शंका के उत्तर में 'निषेधवाक्यानामपि' इत्यादि कहा गया है - तात्पर्य यह है कि निषेध शास्त्र को निषेध्यविशेष की आकांक्षा होती है । इसलिये निषेध शास्त्र की विधिशास्त्र के साथ एकवाक्यता होती है । इस प्रकार विधिसूत्र के साथ एकवाक्यता होने के कारण निषेधसूत्र और परिभाषासूत्र की समानता हो जाती है । इसलिये परिभाषा सादृश्यात् निषेधसूत्र के लिये भी कार्यकालपक्ष का प्रयोग किया गया है । विधिसूत्र का उपकारक होने के कारण निषेधसूत्र में भी आरोपित परिभाषात्व समझना चाहिये ।
निषेघसूत्र की विधिसूत्र के साथ जो एकवाक्यता होती है उसके दो प्रकार हैं । पहला प्रकार पर्युदासन्याय से होता है । 'विङति च' इस सूत्र में जिस नञ की अनुवृत्ति होती है उसे जब पर्युदास अर्थ में माना जाता है तब वह 'तद्भिन्नतत्सदृश' का बोधक होकर 'सार्वधातुकार्धधातुकयोः' सूत्र में उपस्थित होता है । तब 'कित् ङित् से भिन्न सार्वधातुक प्रत्यय पर में रहने पर गुण हो' ऐसा उस सूत्र का अर्थ होता है । इस प्रकार निरूप्य निरूपकभावापन्नविषयताकबोध होने से इस पक्ष में पकवाक्यता होती है ।
जब नव् का अर्थ प्रसज्य माना जाता है तब 'कित् ङित् प्रत्यय पर में रहने पर इक् को गुण न हो' यह 'क्ङिति च सूत्र का अर्थ पृथक होगा । यह वाक्यार्थ बोध गुणविधायक शास्त्र के वाक्यार्थ बोध का उपजीव्य होता है । इसलिए उपजीव्योपजीवकभाव विषयता होने के कारण इस पक्ष में वाक्यैक्य वाक्यता होती है । इस प्रकार विविदेश में उसके साथ वाक्यार्थ बोध होने के कारण एकवाक्यता का व्यवहार किया जाता है ।
संज्ञाशास्त्रस्य तु कार्यकालपक्षे न पृथग्वाक्यार्थबोधः, किन्तु प्रदेशवाक्यार्थेन सहैव । अत एव अणोऽप्रगृह्यस्य ८.४.५७ इत्येतदेकवाक्यतापन्नम् अदसो मात् १.१.१२ इत्येतत् प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेशदेश एवेति तद्देशस्थस्यासिद्धत्वात् पूर्वग्रहणेनाग्रहणात्, एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानं चेति तत्रत्यपरत्वमेव 'विप्रतिषेध'सूत्रप्रवृत्तौ बीजम् । अत एव कार्यकालपक्षे 'अयादिभ्यः परैव प्रगृह्यसंज्ञा' इति अदसो मात् १.१.१२ इति सूत्रे भाष्य उक्तम् ।
संज्ञासूत्रों का भी कार्यकालपक्ष में लक्ष्य संस्कारक और साधुत्वप्रकारक बोध पृथक नहीं होता है । पृथक से तात्पयं स्वदेश से है । किन्तु इस पक्ष में उनका वाक्यार्थबोध प्रदेशवाक्य के साथ अर्थात् विधिसूत्र के साथ ही होता है । संज्ञासूत्रों का यह वाक्यार्थबोध वाक्यकवाक्यतया उपजीव्योपजीवकभावसम्बन्ध से होता है । संज्ञासूत्र विधिसूत्र का उपकारक होने से उपजीव्य होता है और विधिसूत्र उससे उपकृत होने के कारण उपजीवक होता है ।
इस पक्ष में जब कि संज्ञासूत्र का सफलवावयार्थबोध विधिदेश में होता है, तब संज्ञासूत्र का देश भी विधिदेश ही हो जाता है बौर उसी देश के बाधार पर सिद्धत्व और असिद्धत्व सम्बन्धी सूत्रों का पारस्परिक विचार किया जाता है । इसका फल यह होता है कि 'अणोऽप्रगृह्यस्यानुनासिकः ८.४.५७ के साथ जब 'आदसो मात्' १.१.१२ की एकवाक्यता होती है तब 'अदसो मातृ' का देश 'अणोऽप्रगृह्यस्य' का हो जाता है । इसलिये उसके प्रति 'अदसोऽसेर्दादुदो मः' ८.२.८० यह सूत्र असिद्ध नहीं होता है । इसलिये 'अमी' इस प्रयोग में 'अणोऽप्रगृह्यस्य' सूत्र से अनुनासिक नहीं हो पाता । क्योंकि जब अनुनासिक करने चलते है तब अनुनासिक विधायक सूत्र में पठित 'अप्रगृह्य' शब्द में प्रतियोगि मुद्रया आये हुए 'प्रगृह्य' शब्द के ज्ञान की अपेक्षा होती है । इसके लिये 'अदसो मात्' जो प्रगृह्य संज्ञा विधायक सूत्र है को 'अणोऽप्रगृह्यस्य' के देश में जाना पड़ता है । वहाँ जाने से यह सूत्र स्वयं ईत्व विधायक 'एत ईद बहुवचने' ८.२.८१ से पर त्रिपादी हो जाता है । इसलिये ईत्व मत्व असिद्ध नहीं होते हैं और उसकी प्रगृह्य संज्ञा हो जाती है । फलस्वरूप अप्रगृह्य अणू न मिलने के कारण अनुनासिक नहीं होता । कार्यकालपक्ष में संज्ञासूत्रों का यदि विधिदेश नहीं होता तो 'अदसो मात्' की रष्टि से इत्व विधायक सूत्र असिद्ध होता है । इसलिये प्रगृह्य संज्ञा नहीं होती । इस प्रकार अप्रगृह्य अणु मिलने पर अनुनासिकत्व दुर्वार हो जाता है । इसी बात को स्पष्ट करते हैं -
सूत्रों की असिद्धता किसी कार्य के लिये होती है । इसलिये कार्य का ज्ञान होने के बाद ही सूत्रों की प्रवृत्ति होती है । कार्य का शान प्रदेश देश (विधिदेश) में ही होता है । इसलिये 'अणोऽप्रगृह्यस्य' के देश में गया हुआ 'अदसो मात्' सूत्र स्वयं पर त्रिपादी होने के कारण इत्वमत्व विधायक के प्रति असिद्ध है । इसलिये 'पूर्वत्रासिद्धम्' के पूर्वंशब्द से उसका ग्रहण नहीं होता है । विधिदेश में संज्ञासूत्र का वाक्यार्थबोध होने के बाद ही सूत्रों के पारस्परिक विरोध का विचार होता है । इसलिये विधिदेशीय परत्व ही 'विप्रतिषेधे परं कार्यम्' इस सूत्र प्रवृत्ति का कारण होता है । इसलिये 'अदसो मात्' सूत्र के भाष्य में भाष्यकार ने कहा कि कार्यकालपक्ष में 'प्रगृह्य संज्ञा' अयादि से पर में ही है ।
इसका तात्पर्य यह है कि 'अदसो मात्' १.१.१२ सूत्र के भाष्य में भाष्यकार ने यह विचार किया कि 'अमी अत्र' 'अमी आसते' 'अमू अत्र' 'अमू आसते' इत्यादि प्रयोगों में जहाँ मकार से पर में रहने वाले ईकार और ऊकार को प्रगृह्य संज्ञा की जाती है, वहाँ 'अदसो मात्' की दृष्टि से इत्यादि विधायक सूत्रों के असिद्ध हो जाने के कारण 'अमी' की जगह 'अदे' और 'अमू' की जगह 'अदी' दिखायी पड़ेगा । ऐसी स्थिति में यहां अयादि की प्राप्ति होती है जिनका निषेध करना चाहिये । इस निषेध के प्रसंग में भाष्यकार ने एक यह भी उपाय प्रदर्शित किया कि 'परा प्रगृह्यसंज्ञा' अर्थात् कार्यकालपक्ष में 'अदसो मात्' 'प्लुत प्रगृह्या अचि नित्यम्' के देश में चला जायेगा और वहाँ जाने से अयादि की अपेक्षा 'अदसो मात्' ही पर हो गया । इसलिये प्रगृह्य संज्ञा द्वारा अयादि का बाघ हो जाता है । इस भाष्य से यह सिद्ध होता है कि कार्यकाल पक्ष में संज्ञासूत्र विधिदेशीय हो जाते हैं ।
आकडाराधिकारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्रत्यपरत्वेनैव बाध्यबाधकभावः । पदादिसंज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्यामपि व्यवहारः । अत एव पूर्वत्रासिद्धम् ८.२.१ इति सूत्रे परिभाषाणामेव । त्रिपाद्यामप्रवृत्तिमाशङ्क्य कार्यकालपक्षाश्रयेण समाहितमित्याहुः । यथोद्देशपक्षः प्रगृह्यसंज्ञाप्रकरणे भाष्ये ॥ २ ॥
'आकडारादेका संज्ञा' इस सूत्र के अधिकार में आने वाली 'भ' 'पद' आदि संज्ञाओं के विषय में यथोद्देशपक्ष ही होता है । इसलिये इन संज्ञाओं में परत्व के आधार पर किया जाने वाला बाध्यबाधकभाव उपदेश देश के आधार पर ही होता है । इस बात में 'अपादानमुत्तराणि कारकाणि बाघन्ते' अर्थात् अपादान कारक को उत्तर कारक बाघ लेते हैं । यह भाष्य प्रमाण है । यदि आकाडारीय संज्ञाओं का कार्यकालपक्ष होता तो 'अपादान संज्ञा' 'अपादाने पचमी' के देश वाली होती जो 'कर्मणि द्वितीया' के देश वाली कर्म संज्ञा से स्वयमेव पर हो जाती । ऐसी स्थिति में कर्मादि संज्ञाओं के द्वारा अपादान संज्ञा का बाघ होता है ऐसी भाष्योक्ति असंगत हो जाती ।
पदादि संज्ञाओं का तत्र स्वदेश में ही हुए शक्तिग्रह के द्वारा त्रिपादी में मी व्यवहार होता है । यहाँ अपि शब्द से सपादसप्ताध्यायी का ग्रहण होता है । अर्थात् सपादसहाध्यायी में तो पदादि संज्ञाओं का स्वदेशीय शक्ति ग्रह से व्यवहार होता ही है, त्रिपादी में भी स्वदेशीय शक्तिग्रह से ही व्यवहार किया जाता है । अतएव संज्ञाशास्त्र का स्वदेश में हुए शक्तिग्रह से त्रिपादी में भी व्यवहार किया जाता है । ऐसा मानने से ही 'पूर्वत्रासिद्धम्' सूत्र में केवल परिभाषाओं की ही त्रिपादी में अप्रवृत्ति की आशंका की गई । क्योंकि त्रिपादीसूत्र परिभाषाओं की दृष्टि से असिद्ध हो जाते तो वहाँ परिभाषाओं के द्वारा किया जाने वाला वाञ्छित कार्य संभव नहीं होता । ऐसी शंका करके कार्यकाल पक्ष के द्वारा इसका समाधान किया गया । अर्थात् कार्यकाल पक्ष में परिभाषा विधेय का त्रिपादीस्थ विधिसूत्रों में स्मरण करके कार्य कर लिया जाता है ।
प्रगृह्य संज्ञाप्रकरण के भाष्य में यथोद्देश पक्ष का संकेत किया गया है । इस पक्ष में संज्ञासूत्रों का स्वदेश में ही सफल वाक्यार्थबोध होता है । इसलिये 'आगच्छतम् अग्नी इति' इस प्रयोग में प्लुत और प्रगृह्य दोनों संज्ञाओं की साथ ही प्राप्ति होने पर 'ईदूदेद्' सूत्र की दृष्टि से 'दूराद्धूते च' यह प्लुतविधायक सूत्र असिद्ध हो जाता है । इसलिये प्रगृह्य संज्ञा होने से अनुनासिक नहीं होता है । यदि कार्यकाल पक्ष माना जाता तो प्रगृह्य संज्ञा 'अणोऽप्रगृह्यस्य' के देश वाली हो जाती । तब उसकी दृष्टि में प्लुत असिद्ध नहीं होता । ऐसी स्थिति में प्रगृह्य संज्ञा नहीं होती और अप्रगृह्य अणु मिलने के कारण उपर्युक्त प्रयोग में अनुनासिकत्व की आपत्ति हो जाती । इससे यथोद्देश पक्ष की पुष्टि होती है ।। २ ।।
तत्र संज्ञापरिभाषाविषये पक्षद्वयमिति। तत्रेत्यस्य शास्त्र इत्यर्थस्तस्य च पत्क्षद्वयपदार्थेऽन्वयः। तेन पक्षद्वयत्वावच्छिन्नाधेयतानिरूपिताधिकरणता शास्त्रत्वावच्छिन्नेति लभ्यते। तत्रेत्यनुक्तौ तु संज्ञापरिभाषादेशत्वावच्छि-नाया एव तस्या लाभेन प्रतिसंज्ञाविषयं प्रतिपरिभाषाविषयं पक्षद्वयमि-त्यनिष्टं सम्भाव्येत। तावन्मात्रोक्तौ तु विधिसूत्रेऽपि पक्षद्वयाधिकरण-त्वापत्तिः। विषयशब्दो देशबाची। सप्तम्याश्वावच्छेदकत्वमर्थोऽधिकरण-त्वान्वयि। तथा च संज्ञापरिभाषादेशावच्छेदेन शास्त्रे पत्तद्वयमित्यर्थः। यत्र देश उपदिश्यत इति । छात्रो द्विविधः- एकश्च श्रद्धालुः गुरुभिर्य'न्मा-म्प्रत्युपदिश्यते तदवश्यमेव मदुपयोगी'ति निश्चयवान् यथाश्रुतमाही । स वृद्धिर। दैजित्यस्य वृद्धिपदमादैजू निरूपितशक्तिमदित्यर्थे तस्मिन्नित्या-दिपरिभाषायाः सप्तमीनिर्देशेन विधीयमानं कार्यमव्यवहितपूर्वस्य भव-तीत्याद्यर्थे च गुरुभिर्बोधिते सादरानुभवाञ्जाततत्तदर्थविषयसंस्कारो वृद्धि-रेचीको यणचीत्यादौ वृद्धिपदौपश्लेषिकाधिकरणबोधकाचीतिपदेत्यादिरूपैकसम्बन्धिज्ञानेनोद्युद्धतत्तत्संस्कारेणानुभूततत्तदर्थं स्मृत्वा लक्ष्यसं-स्कारोपयोगिवाक्यार्थबोधवान् भवति। तदपेक्षया यथोद्दे शपक्षः।
अपरश्च फलानुरोधेनैव गुर्वादिवाक्येऽपि श्रद्धावान्। स वृद्धिरादैच्-तस्मिन्नित्यादिवाक्यार्थे गुरुभिर्बोधितेऽपि शब्दसाधुत्वज्ञानार्थं प्रवृत्तस्य मम नानेन साधुत्वम्बोधितमिति नैतन्मदुपयोगीति निश्चित्योपेक्षितवान्। तेन तत्तदर्थविषयकदृढसंस्काराजननादृद्धिरेचीत्यादौ वृद्धद्यादिपदज्ञा-नेऽपि तत्तदर्थज्ञानाभावाद्वाक्यार्थबोधाप्रसक्तौ कोस्ति वृद्धिपदार्थ इत्यादि-जिज्ञासायां पुनर्गुरुभिरुच्यमानेन वृद्धिरादैजित्यादिनां सहैवं तस्मिन्नित्या-दिनाच सह वृद्धिरेचीत्यादीनां पदैकवाक्यतयैवार्थो बुद्धचते। तदपेक्षः कार्यकालपक्षः।
अनुभवेन संस्कारजनने अनुभवस्येवापेक्षा बुद्धेरपि हेतुत्व-मिति भावः। तथा च यथोद्दे शपक्षे परिभाषया संज्ञासूत्रेण च विधिशास्त्रस्य वाक्यैकवाक्यता। सा चोपजीव्योपजीवकभावापन्न बोधजनकत्वरूपा। तस्मिन्नित्यादिपरिभाषाणां वृद्धरादैजित्यादिसंज्ञासूत्राणाञ्च बोध उप-जीव्य "इको यणचि', "वृद्धिरेची"त्यादिशास्त्रजन्योऽप्रामाण्यज्ञानाज्ञा-स्कन्दितो लक्ष्यधर्मिमकसाधुत्वप्रकारको बोध उपजीवकः। तादृशत्रोधस्य संज्ञापरिभाषाबोधाधीनत्वादिति लक्षणसमन्वयः। कार्यकालपक्षे च पदैरुवाक्यता। सा च निरूप्यनिरूपकभावापन्नविषयताप्रयोजकपदघ-टित्तत्त्वरूपा । तत्पक्षे च विधिशास्त्रेण सह संज्ञापरिभाषयोर्बोधजनक-त्वात्। परिभाषाघटकस्य पूर्वपदार्थस्य निर्दिष्टपदार्थस्य च सूत्रघट के इकूपदार्थे अपदार्थे चाभेदसम्बन्धेनान्वयात्। संज्ञा सूत्रघटकादैच्प-दार्थे सूत्रघटकवृद्धिपदस्याभेदेनान्वयाच्च। तत्रत्यप्रकारताविशेष्यतयोर्नि-रूप्यनिरूपकभावापन्नयोः प्रयोजकत्वं पूर्वादिपदानां तद्घटितत्त्वञ्च प-पूर्वापदा रिभाषाविधिसूत्रयोः संज्ञा सूत्रविधिसूत्रयोश्चति लक्षणसमन्वयः। इदं प्राचीनमतम्।
स्वमतमुपन्यस्यति - केचित्त्विति। भाष्यतत्त्वविद इत्यर्थः। सक-सतत्तद्विष्युपस्थिताविति। परिभाषया स्वीयसप्तमीनिर्देशादिलिङ्गचिह्नित स्वदृष्टसकलसापादिकशास्त्राणामाकर्षणःमिति भावः। सकलतत्तत्संस्कारायेति। तत्तद्विधिशास्त्रीया प्रामाण्यज्ञानाना स्कन्दितसाधुत्वप्र-कारकबोधजननायेत्यर्थः। गुणस्येति। विधेयस्य निद्दिष्टे पूर्वस्येत्यादि-रूपस्य। भेदमिति। यावद्विधिसूत्रमावृत्तिम् एकेन विधेयबोधकपदेन सह सर्वविधिसूत्राणामन्वयासम्भवादिति भावः। संपूर्णपरिभाषाया विधि-सूत्रेणानन्वयात्तदावृत्तौ फलाभावाद्गुणभेदमित्युक्तम् । एकवाक्यतयंव नियम इति। पदैकवाक्यतयैव लक्ष्यसंस्कारको बोध इत्यर्थः। परिभाषया जन्यत इति शेषः। पदैकवाक्यता तु पूर्वमुक्ता। यत्र देशे परिभाषो-पदिश्यते तद्देश एवं विधिसूत्रेण सह पदैकवाक्यतया लक्ष्यसंस्कारोप-योगिवाक्यार्थबोधः परिभाषया सम्पाद्यत इति निष्कर्षः। अयमेव यथोद्द शपक्षः।
त्रिपादीस्थशास्त्राणां परिभाषादृष्ट्या असिद्धत्वान्तेषामाकर्षणाभावात् परिभाषया ल क्ष्यसंस्कारकबोधजनकत्वं तेषान्न स्यादित्यत आह - कार्य-कालपक्ष त्विति। तुशब्देन यथोद्देशपक्षं व्यवच्छिनत्ति। न यथोद्देशपक्ष इति यावत्। त्रिपाद्यामपीति। अपिना यथोद्दे शपक्षे सपादसप्ताध्याय्या-मित्यस्य संग्रहः। अध्ष्टपिशाचन्यायेन त्रिपादीस्थैर्विधिशास्त्ररेव स्वसं-स्काराय परिभाषामाकृष्य पदैकवाक्यतया लक्ष्यसंस्कारको बोधः स्वदेशे जन्यत इति भावः। अयमेव कार्यकालपक्षः।
पक्षद्वयेऽपि परिभाषाणां पदैकवाक्यतयैव बोधव त्वमित्यर्थे मानमाह-एतदेवेत्यादिना । त्रिप्रकार इति । एकः उत्तरोत्तरं सम्बध्यते, यथाऽङ्गस्ये-त्यादि । अपरो यञ्चकारेणानुषज्यते । अपरः परिभाषारूपः। अधिकार-त्वच विधिवाक्येन सह पदैकवाक्यतया बोधजनकत्वम्। न चाधिका-रविषयं भष्यं परिभाषायां नोपयुज्यत इत्यत् आह- कश्चित्परिभाषारूप इति कैयट इति । तथा च परिभाषाविषयमेव भाष्यमिति बोध्यम्। दीपो यथा स्वावयवप्रभासम्बद्धपदार्थप्रकाशकस्तथा परिभाषापि स्वावयववि-धेयसम्बद्धमेव विधिशास्त्रमभिज्वलयतीत्यर्थ इति स्पष्टमेव दीपदृष्टान्तेन पदैकवाक्यता लभ्यते। वाक्यैकवाक्यतायान्त्त्ववयवसम्बन्धाभावाद्दष्टा-न्तासङ्गतः स्पष्टैवेति बोध्यम्। एवं दीपवत्। एतत् परिभाषारूपम्। स्वबुद्धिजननद्वारेति। २वविधेयोपस्थितिद्वारेत्यर्थः।
नन्विदं भाष्यं कार्यकालपक्षाभिप्रायकमेव। तत्ग्चे पदैकवाक्यतायाः प्राचीनैरप्यङ्गीका रान्नै तद्भाष्यविरोधः प्राचामिति चेत्तत्राह-एतच्चेति। भाष्ये पविशेषस्यानुपक्रमादिति भावः। प्रदेशकेति। विध्येवेत्यर्थः। न तु विधिदेश एवेत्याग्रहः।
ननु पक्षद्वये पदैकवाक्यतायां को विशेषस्तयोरित्यत आह-एतावा-निति। परिकल्प्येति। अस्य स्थितानामिति शेषः। अत एव क्त्वाप्रत्त्ययोप-पत्तिः। तैः विधिसूत्रैस्सहेत्यर्थः। कार्यकाले तु तत्तद्विधिप्रदेश इति। तथा च यथोद्देशे परिभाषादेशे, कार्यकाले विधिदेशे, लक्ष्यसंस्कारको चोध इत्ये-तावन्मात्रं तयोर्भेद इति बोध्यम्। ननु विधिदेशे परिभाषाबुद्धौ परिभा-पाया एकदेशस्थत्त्वानुपपत्तिरित्यत आह - एकदेशस्थ इत्यनेनेति । एकदे-शस्थ इत्त्यस्य एकदेश उत्पन्न एवेत्यर्थः। तत्तद्देशस्थत्वमित्यस्य तत्तेद्देशीय-त्वमित्यर्थः । अत्त एव दृष्टान्ते न तु तद्देशीयश्वेत्येवोक्तम्। उत्पत्त्यधिकरण-देशस्यैव परत्वादिव्यवहारप्रयोजकत्तया परिभाषाया विधिदेशस्थि-तिमात्रेण क्षत्यभावाच कस्यचिद्व्याख्यानान्तरन्तु न युक्तमुक्तीत्यैवोपपत्तौ क्लिष्टकल्पनाया अनौचित्यः च्छब्दमर्यादया ऽलाभाचे त्यलम् ।
ननूक्तपक्षद्वयस्य संज्ञापरिभाषामात्रविषयकत्वेन 'किङति चे'त्यत्र कार्य्यकालपत्तोपन्यासो भाष्यकृतां विरुध्येतेत्यत आह-निषेधवाक्याना-मित्यादि। विध्युपकारकत्वमात्रेणारोपितं परिभाषात्त्वं तत्राप्यस्तीति भावः। किङतीत्यौपश्ले पिकसप्तमीत्वाद्भिन्नमित्यादौ दकारेण व्यवधा-नेपि गुणनिषेधोपपत्तये भाष्यकृतोऽयं यन्त्रः । पर्युदासन्यायेनेति । 'क्ङिति चे'त्यन्त्रानुवृत्तस्य नष्यो भेदार्थकत्वेन किङतः स्वप्रतियोगिव त्वसम्बन्धेन भेदै तस्यं च स्वरूपसम्बन्धेन सार्वधातुकार्द्धधातुकपदार्थेऽन्वयः। क्ङि-त्प्रतियोगिकभेदविशिष्ट सार्वधातुकार्द्धधातुकयोः परयोरित्यर्थ इति भावः-तथा च निरुक्तपदैकवाक्यतोपपद्यते। पर्युदासन्यायेनेत्यस्य नवो भेदरूप पर्युदासाऽर्थत्वमिति युक्त्येत्यर्थः।
ननु घटे न द्रव्ये इत्यादिवाक्याद्घटभिन्ने द्रव्य इत्यर्थाप्रतीतेरसम-स्तनव्या भेदबोधने प्रथमान्तप्रतियोग्यनुयोगिवाचकपद समभिव्याहारस्य कारणताया वक्तव्यतया प्रकृते प्रतियोग्यनुयोगिवाचकपदयोस्सप्तम्यन्तत्वेन भेदबोधकत्वं नयो न सम्भवतीत्याह-प्रसज्य प्रतिषेधेपीति। क्ङिति पर इको गुणो न भवतीति पृथगेव वाक्यार्थत्रोधः। पुगन्तलघूपधस्य चेत्यस्य समीपे प्रमज्य प्रतिषेधे यद्यपि वाक्यार्थद्वये गौरवं तथापि पर्युदासस्योक्त-युक्त्या ऽसम्भवदुक्तिकत्वेनागत्या गौरवं स्वोकार्यमिति भावः। न च भिन्न-मित्यादौ दकारेण व्यवधानात् अर्थ निषेध इति वाच्यम्। कार्यकालपक्षे प्रतिनिषेध्यशास्त्र क्रिति चेत्यस्य भिन्नतया पुगन्तलघूपधस्य चेत्यत्रोप-स्थितस्य तस्थ सामर्थ्यादेकवर्णव्यवधानेऽपि प्रवृत्तिस्वीकारेणादोषात्। नत्वेकवाक्यता एतदेवाभिप्रेत्याह- तेन सह वाक्यार्यबोधमात्रेणैकवाक्यता व्यव हार इति। बास्तविकैकवाक्यता नास्ति किन्तु तद्देशे वाक्यार्थबोधेनैक-वादयत्वमारोपितमित्ति तद्भावः।
संज्ञाशास्त्रस्य तु काव्येंत्यादि-ननु इन्तावदयुक्तं पृथग्वाक्या-र्थबोधाभावे तद्वाक्ये शक्तिमाहकत्वस्याज्ञानाद्विधिशास्त्रेण तदाकर्षणा-सम्भवाक्तद्दे शेऽपि वाक्यार्थबोधासम्भवात् न च वाक्यार्थचोध इत्यनेन लक्ष्यधर्मिकसाधुत्वप्रकारको बोधो गृह्यते। स न संज्ञाशःखस्य काय्यका-लपक्षे पृथगित्यर्थ इति वाच्यम् । तथा मति तत्वज्ञे परिभाषाया अपि पृथक् तादृशबोधाजनकत्वेन संज्ञाशास्त्रस्येति विशिष्योक्तेरसङ्गत्यापत्तेः। यथोद्दे शपक्षेऽपि संज्ञाशास्त्रस्य तादृशबोधाजनकत्वेन काये कालपक्ष प्रति विशिष्योक्तेर संगत्यापत्तेश्च ति चेन्मैवम्। वाक्यार्थबोध इत्यनेन लक्ष्यसं-स्कारक एव वाक्यार्थचोधो गृह्यते। लक्ष्यसंस्कारकञ्च साधुत्वप्रकारकः। साधुत्वप्रकारकबोधाधिकरणत्वे सति तदुपयोगी चेत्युभयविधः। संज्ञाशा-स्वस्य तु न पृथक् तादृशो वाक्यार्थबोधः। कदापीति शेषः। पृथगित्यस्य स्वदेश इत्यर्थः। कार्यकालपक्ष इत्यस्य प्रदेशवाक्येन सहवेत्यत्रान्वयः। तथा च कायेकालपच्चे प्रदेशवाक्चेन सहैव । प्रदेशदेश एव तादृशो वा-क्यार्थबोध इत्यर्थात्। तथा च परिभाषाया यथोद्देशे स्वदेशे तथा बोधात् । संज्ञेति । विशेषोक्तिरुपपन्न। वृद्धि। दैजित्यादेर्भपदसंज्ञायाञ्च कार्यकाल पच्चे यथोद्देशपच्छे वा स्वदेशे शक्तिमहात्मकबोधेऽपि लक्ष्यसंस्कारको न सः। कार्यकालपक्षे प्रदेशदेशे तथा बोधेऽपि न स बोधः पृथग्बोध इति सर्वम-बदातम्। अत्र बीजन्तु यथा परिभाषाणां स्वोद्दे श्यज्ञानाय विधिशास्त्रस्या-पेक्षणाच्ताभिस्तेषामाकर्षणं तथा संज्ञाशास्त्रस्य न सङ्केतकाले सङ्केतितपदेन व्यवहर्त्तरनपेक्षणात् न तेन तस्याकर्षणमिति तस्मिन् शक्तिग्रहे अपेक्षायुद्धौ यथोद्देश उपेच्ताबुद्धौ कार्यकालमिति बोध्यम्। परत्वादिव्यवस्था चेत्थं त्रिविधं तद्दे शत्वप्रयोजकं पाणिन्युच्चारणाधिकरणत्वमेकं, लक्ष्यसंस्कारोप-योगिबोधाधिकरणत्वं द्वितीयं, पाणिन्युच्चारणाधिकरणत्वविशिष्ट लक्ष्यसं-स्कारकबोधाधिकरणत्वं तृतीयम् । तञ्चोत्तरोत्तरं बलवत्। परिभाषायाः स्न-देशे तृतीयप्रयोजकस्य सत्त्वात्स एव देशः। वृद्धचादिसंज्ञाया विधिदेशे द्वितीयप्रयोजकस्य सत्त्वात् स एव देशः। भपदसंज्ञाया अभिमप्रयोज कस्य कुत्राप्यसम्भवात् स्वदेशे प्रथमप्रयोजकस्य सत्त्वात्स एव देश इति। असो, प्रगृहास्येत्येतदित्यादि, श्रयादिभ्यः परैवेत्यादि, अष्टाध्यायीपाठकृतेत्यावि, यथोई शपक्ष एवेति, तत्रत्यपरत्वेनैवेति च सर्व सुव्यवस्थितमिति परे ।
तत्त्वविदस्तु कार्य्यकालपच्चे संज्ञाशास्त्राणां स्त्रदेशे बोध एव न। संज्ञात्वग्रहस्तु वृद्धिरादैजित्यादौ प्रथमान्तपद्द्वयसमभिव्याहारादनुमि-त्यात्मकोऽव एव वृद्धिसंज्ञासूत्रे भाष्ये संज्ञाधिकारप्रत्याख्यानावसरे समानविभक्तिकत्वेन संज्ञासंज्ञिभावज्ञानमुपपादितम् । तथा च ययाश्रुता-र्थकमेव तत् । द्विविधमेव तद्दे शत्वप्रयोजकम्। शाब्दबोधाधिकरणत्ववि-शिष्टोच्चारण। धिकरणत्वं तदसम्भवे शाब्दबोधाधिकरणत्वं परिभाषाणां विशिष्टाधिकरणत्वं स्वदेशस्यैवेति तस्यैव तद्दशत्वं भपदसंज्ञानां स्वदेश-स्यैव विशिष्टाधिकरणत्वेन तद्देशत्वं प्रगृह्यसंज्ञादीनाञ्च कार्यकालपक्षे स्त्रदेशे बोधाभावेन विधिदेशे बोधात्तद्दे शत्वमेव यथोद्देशे च स्वदेशत्वमि-त्याहुः।
शास्त्रिचरणास्तु न कार्यकालपक्षो न यथोद्दे शपच्क्षः किन्तु परिभा-पाणां संज्ञानाखोचारणाधिकरणदेश एव परत्वादिनियामकः। परि-भाषा द्विविधाऽस्ति - कयाचित् शास्त्रत्वं क्रियते यथा तस्मिन्नितीत्यादि। तत्त्परिभाषाप्रवृत्तिम्विना इको वणचीत्यादीनामनाहार्य्याप्रामाण्यज्ञानाना-स्कन्दितसाधुत्वप्रकार कबोध जनकत्वरूपशाखत्वस्यैवासिद्धिरिति तादृशप-रिभाषादृष्टया त्रिपादीशास्त्राणां नासिद्धत्वं शास्त्रस्यैव पूर्वत्रासिद्धमित्त्यने-नासिद्धत्त्वविधानात्। कस्यश्चिदुद्देश्यतावच्छेदकं शास्त्रत्वं यथाऽसिद्धम्ब-हिरङ्गमन्तरङ्ग इत्यस्याः। तत्प्रवृत्तेः प्रागेव शास्त्रत्वस्य सत्त्वात्तद्दृष्टद्या त्रिपाद्या असिद्धत्वेन न सा त्रिपाद्यां प्रवर्त्तते। संज्ञादृष्ट्या संज्ञाघटित-शास्त्राणामसिद्धत्वेऽपि न क्षतिस्तत्र जातशक्तिप्रहेणैत्र व्यवहारसिद्धेस्तत्प्र-वृत्तिं बिना तेषां शास्त्रत्वाभावाच्च । अदसो मादित्येतत्प्रति न मुत्वस्या-
सिद्धत्वं सूत्रस्यैव वैयर्थ्यापत्तेरित्यम् इत्यत्र नानुनासिकत्वमित्याहुः। प्रदेशत्वा देवेत्यर्थः।
अत एवेति । असो मादित्यस्यतद्दे शस्थस्येति - अणोऽप्रगृह्यस्येत्येतद्देशस्थस्यादसो मादित्यस्येत्यर्थः। असिद्धत्वादिति। मुत्वशास्त्रैकवाक्यतापन्न पूवत्रासिद्ध मित्येतत्प्रति अ-णोऽप्रगृह्यस्येत्येक वाक्यतापन्नपूवन्ना सिद्धमित्यनेनासिद्धत्त्रादित्यथः। पूर्व-ग्रहणेनेति। सुत्वशास्त्रैकवाक्यतापन्नपूर्वत्रा सिद्धमित्येतद् घटकपूर्वग्रहणेने-त्यर्थः । एवं तद्बोधोत्तरमेवेति । विधिदेशे संज्ञा सूत्रजबोधोत्तरमेवे-त्यर्थः। परैवेति। प्रगृह्यसंज्ञायाः प्लुतः प्रगृह्या इत्येतद्देशस्थत्वादिति भावः । भपदसंशाविषये त्विति । अत एव राज्ञः इत्यादौ नलोपो न । कार्यकालत्वे तु भसंज्ञाशास्त्रस्याल्लोपो न इत्येतद्देशस्थत्वेन नृ लोपैकवाक्यतापन्नपदसंज्ञायास्त्रिपादीस्थत्वेन भसंज्ञादृष्ट्याऽसिद्धत्वेन पूर्व भसंज्ञायामल्लोपे कृते पदत्वे नलोपापत्तेः तत्पक्षे आकडारीयत्वाभा-वेन निरवकाशेनापि भत्वेन कृत्यसंज्ञया कृत्संज्ञाया इव पदसंज्ञाया-स्समावेशसम्भवात्। दण्डिना गौयेत्यादौ भविष्यति किश्विदनेन प्रयो-जनमित्यभिसन्धिमात्रे ए प्राप्तमत्वेन पत्वश्य बाघेन नलोपप्रकृतिभा-वयोरप्रवृत्तिरपि यथाद्देशत्वे सिद्धा। कार्यकालत्वे तु भत्वप्रयुक्तकार्या-भावेन भत्याप्राप्त्या पदत्वेन तयोरापत्तिदुर्वारा। न चैकदेशविकृतन्या-याबतरणे पदसंज्ञायां कार्यकालत्वोक्त्या ततो विरोध इति वाच्यम् । भसंज्ञासाहचर्येण परनिमित्तकपदसंज्ञाया एवात्र विवक्षितत्वात् । यदा कार्य तदा संज्ञा संज्ञाशास्त्रस्य विधिदेशे बोधजनकत्वञ्चेत्यंशद्वयात्मककार्य-कालपक्षचरमांशस्यैवैव कारेण व्यावर्त्तनाच्च । प्राचीनमतेनावतरणस्य सत्त्वाच्च । 'कार्यकालं संज्ञापरिभाषं भस्येत्युपस्थितमिदं भवति यचि भमिति' - व्यङः संप्रसारणमितिसूत्रस्थभाष्यविरोधस्तु न। तस्यैकदेश्युक्त-त्वादिति स्पष्टं शब्देन्दुशेखरे। अत एवेति । संज्ञाशास्त्रजबोधे विधि-शास्त्रज्ञानानपेक्षणेन स्वदेशस्थशक्तिग्रहेणैव त्रिगद्यामपि व्यवहारादेवे त्यर्थः । यथोद्देशपक्षः प्रगृह्मसं शेति । आगच्छतकमी इत्यादी प्लुत-स्यासिद्धत्वात्प्रगृह्यत्वे कृते ततः प्लुते जाते तस्यासिद्धत्वात् पुनः प्रगृह्यत्वेन नानुनासिकः । कार्यकालत्वे तु प्रगृह्यसंज्ञाया 'अणो ऽप्रगृह्यस्ये' त्येत-देशभ्थत्वेन तद्दृष्ट्या प्लुतस्य सद्धत्वाभावेनाप्रगृह्यत्वेनानुनासिकत्वा ५० त्तिदु र्वारेति तत्प्रकरणस्थभाष्याशयः ॥२॥
सकलपरिभाषाविषयं परिभाषाद्वयं वक्तुमुपक्रमते तत्रेति। शास्त्रे इत्यर्थः। तेन शास्त्रत्वावच्छेदेन संज्ञापरिभाषाविषयकपक्षद्वयम्, न तु प्रत्येकं संज्ञात्वाद्यवच्छेदेनेति भावः। उद्देशमनतिक्रम्येति। 'परावरयोगे चे'ति क्त्वा, 'यथासादृश्य' इत्यव्ययीभावः। गृहीतशक्त्येति। इदं संज्ञाविषयकम्, संज्ञाशास्त्रजन्यवाक्यार्थबोधरूपशक्त्यनुभवोपोद्वलित्तसंस्कारेणैव तत्तत्साङ्केतिकविधिशास्त्रघटक-पदानुभवोद्बुद्धेन उपस्थितिशाब्दबोधयोर्निर्वाहे विधिदेशे पुनरेतत्प्रतिसन्धानस्य नोपयोग इति भावः।
अथैवं संज्ञाविषये कार्यकालपक्षानुत्थितिः, प्रदर्शितदिशैव उपस्थित्यादेरुपपत्त्या विधिप्रदेशे संज्ञाशास्त्रजन्यवाक्यार्थस्यानुपयोगादिति चेन्न। अनुभवेनोपस्थित्यौपयिकसंस्कारे जननीये अपेक्षाधियोऽपि सहकारितया यस्य श्रोतुः यत्संज्ञाशास्त्रजनितबोधविषये उपेक्षाबुद्धिर्जाता, तत्पारिभाषिकपदस्य तदर्थानुभावकतायास्तत्तद्विधिप्रदेशेऽप्रसक्त्या पुनस्तत्र संज्ञाशास्त्रजन्यबोधस्याऽवश्यकत्वात्। एवश्चापेक्षाधीसहकृते तत्तद्वाक्यार्थबोधे सति दृढतरसंस्कारस्य जननात् वारं वारं तत्तद्बोधस्यानपेक्षितत्वेन अपेक्षाधिय एव यथोद्देशपक्षबीजता; उपेक्षाधियश्च कार्यकालपक्षबीजता पर्यवस्यति।
स्वमतमाह- केचित्विति। सवलतत्तदिति। यत्संस्कार उद्बुद्धस्तत्सकलेत्यर्थः, तद्विषय एव च यथोद्देशपक्ष इति भावः। गुणभेदम् = गुणशास्त्रविधेयभेदम्। एकवाक्यतयैवेति। पदैकवाक्यतयेत्ति भावः। एकवाक्यता च त्रिधा-पदैकवाक्यता, अर्थैकवाक्यता, वाक्यैकवाक्यता चेति। तस्मिन्नित्ति शास्त्रस्य पदोपस्थापकत्वपक्षे 'इको यणची'त्यादिसप्तम्यन्तपदघटितशास्त्रैः सह स्वघटकपदप्रयोज्यविषयतानिरूपितविषयताप्रयोजकपदघटितत्वरूपा आद्या; तस्यार्थोपस्थापकत्वपक्षे विधिशास्त्रीय 'अची'त्यादिसप्तम्यन्तपदानां लक्षणया अजव्यवहितपूर्वत्वाद्यर्थतात्पर्यकत्वरूपे च स्वोपस्थाप्यार्थनिष्ठविषयतानिरूपितविषयताप्रयोजकपदघटितत्वरूपा द्वितीया; उपजीव्योपजीवकभावापन्नबोधप्रयोजकत्वरूपा तृतीया; यथा 'क्ङ्ति चे'त्यादिनिषेधशास्त्राणां 'सार्वधातुके'त्यादिनिषेध्यशास्त्रीयसार्वधातुकेत्यादि-पदसम्बन्धिक्ङिद्भिन्नसार्वधातुकाद्यर्थनिर्णायकत्वरूपा। कार्यकालपक्षे त्विति। तुरेवार्थे, कार्यकाले एव त्रिपाद्यामुपस्थितिर्नान्यपक्षे इत्यर्थः। त्रिपाद्यामपीति। अपिना सपादीसङ्ग्रह:। वस्तुतः इदं शास्त्रत्वावच्छिन्नोद्देश्यताकपरिभाषाविषयकम्। शास्त्रत्वसम्पादकपरिभाषाणान्तु पक्षद्वयेऽपि त्रिपाद्यामुपस्थितिः, तत्परिभाषाप्रवृत्तेः प्राक् त्रैपादिकस्य शास्त्रत्वाभावेन 'पूर्वत्रासिद्धमि'त्यनेन असिद्धत्वप्रत्तिपादनासम्भवात्। त्रिप्रकार इति। मूलोक्त एकः। द्वितीयो यथा- रज्ज्वायसा वा बद्धं काष्ठमनुकृष्यते, तद्वदनुकृष्यते चकारेणेति। चकारमन्तराऽपि 'योगे योगे' उपतिष्ठत इति तृतीयोऽङ्गस्ये'ति सूत्ररूपः। अधिकारत्वञ्च - स्वदेशे लक्ष्यसंस्कारोपयोगिविधिशास्त्रीयवाक्यार्थबोधोपकारकवाक्यार्थाननुभावकत्वे सति विधिशास्त्रीयलक्ष्यसंस्कारोपयोगिवाक्यार्थबोधप्रयोजकत्वम्। संज्ञादिवारणाय सत्यन्तम्, शेष इत्यत्राव्याप्तिवारणाय वाक्यार्थे विधिशास्त्रीयवाक्यार्थबोधोपकारकेति विशेषणं सत्यन्ते। एवम् - दीपवत्।
एतत् = परिभाषाशास्त्रम्। स्वबुद्धीति। स्वविधेयबुद्धीत्यर्थः। यथोद्देशपक्षाभिप्रायकमिदं भाष्यमिति कैयटमतं खण्डयति - एतच्चेति । यथोद्देशपक्षाभिप्रायकत्वे तु-परिभाषाविषये कार्यकाल पक्ष एव न स्यात्, परिभाषामात्रस्याधिकारपदेन ग्रहणात्। तदाऽऽह = पक्षद्वयेऽपीति। इतः = भाष्यात्। आत्मभेदम् = परिभाषाविधेयभेदम्। परिकल्प्य बोद्धृभिः परिभाषाणां तैर्विधिशास्त्रैः सहैकवाक्यता क्रियत इत्यर्थः, तैः विधिशास्त्रैरिति कर्तृपदं वा। अत्र क्रियत इत्यध्याहारान्न समानकर्तकत्वहानिः। व्यवहर्तॄणामिति। स्वसम्बन्धिनः कस्यचित्तत्र गमनेऽपि न स्वस्य तद्देशस्थत्वं भवति, सुतरां तु तद्देशीयत्वम्। यथा - दीपप्रभायास्तत्र गमनेऽपि न दीपस्य तद्देशस्थत्वमेवं परिभाषाया अपि तत्र देशे स्वविधेयगमनेऽपि न तद्देशस्थत्वमित्यर्थः। वस्तुतः - परिभाषाया अचेतनत्वेन गमनासम्भवात्तद्विधेयस्मरणमात्रेण तत्र वर्तमानत्वबुद्धेरसम्भव इति प्रतिपादयति - तत्र तत्र तद्बुद्धावपीति।
यत्तु - प्रधानस्य राज्ञो नाप्रधानभृत्यादिनाऽऽकर्षणम्, नहि प्रयाजादिवाक्यैर्दर्शपौर्णमासादिवाक्यमाकृष्यत इति परिभाषाशास्त्रेण कथं विधिशास्त्रमाकृष्येतेति नागेशमतमयुक्तमिति। तदयुक्तम्, परिभाषादेशे विधिसूत्रोपस्थितावपि तेन तदाकर्षणाभावात्। अत एव ग्रन्थकर्त्रा 'तत्र तत्र तद्बुद्धावपी'त्याद्येवोक्तम्, नहि भृत्यादेरप्रधानस्य राजविषयकज्ञानं प्रति तादात्म्येन प्रतिबन्धकत्वमृते भवतः कोऽप्यभ्युपैति। प्रत्युत उभयाकाङ्क्षारूपप्रकरणात्मकचतुर्थप्रमाणेन प्रयाजादिवाक्यार्थे निर्णीते भाव्याकाङ्क्षायां तत्र दर्शपूर्णमासप्रधानवाक्योपस्थित्यैव तयोरङ्गाङ्गिभावः सर्वसम्मतः।
ननूक्तपक्षद्वयस्य संज्ञापरिभाषामात्रविषयकत्वे 'क्ङिति चे'ति सूत्रे कार्यकालपक्षोक्तिरसङ्गतेत्यत आह-निषेधवाक्यानामिति। नञो भेदपरतया क्ङिति नेत्यस्य विधावुपस्थितौ क्ङिद्भिन्नसार्वधातुकेत्यादिक्रमेणार्थे निरुक्तपदैकवाक्यतेत्यर्थः। ननु प्रथमान्तान्यसमभिव्याहृतासमस्तनञो न भेदबोधकत्वमत आह- प्रसज्येति। एकवाक्यतेति। वाक्यैकवाक्यतेत्यर्थः। निषेधशास्त्रस्य निषेध्यशास्त्रीयपदधर्मिकार्थविशेषविषयकबोधजनकत्वप्रकारक-तात्पर्यग्राहकत्वात् विषयतानामुपजीव्योपजीवकभावो बोध्यः। संज्ञाशास्त्रस्य त्विति। तुरप्यर्थे। न पृथगिति। लक्ष्यसंस्कारोपयोगी नेत्यर्थः।
अत्रायं विवेकः - कार्यकालपक्षे 'वृद्धिरादेजि'त्यादौ वाक्यार्थबोधे सति तस्मिन्नैष्फल्यग्रहेणोपेक्षाबुद्ध्या तदभ्यासाभावेन दृढतरसंस्काराभावात् 'मृजेर्वृद्धिरि'त्येतद्वाक्यार्थबोधकाले उद्बोधकान्तरसत्त्वेऽपि संस्कारलोपात्तदुद्बोधाभावेन 'मृजेवृद्धिरि'त्यस्य देशे 'वृद्धिरादैजि'त्यस्य पुनर्वाक्यार्थबोधात् तेन सह पदैकवाक्यता। अत्र पक्षे विधिदेश एक संज्ञाशास्त्रस्य सफलवाक्यार्थबोधाद्विधिदेशीयत्वमेव । अत एव 'अयादिभ्यः परैव प्रगृह्यसंज्ञे'ति भाष्यं सङ्गच्छते। 'अमी' इत्यत्र च 'अणोऽप्रगृह्यस्ये'त्येतदेकवाक्यतापन्नाऽदसो मादित्येतदृष्ट्या मीत्वस्य सिद्धत्वेन प्रगृह्यसंज्ञायां नानुनासिकः। यथोद्देशपक्षे तु 'वृद्धिरादेजि'त्यस्य वाक्यार्थबोधरूपे शक्तिग्रहे वृत्ते, भविष्यति किञ्चिदनेन प्रयोजनमिति
भाविफलानुसन्धानादपेक्षाबुद्ध्या आचार्यवाक्ये विश्वासवता छात्रेण तदभ्यासेन दृढतरसंस्कारेण 'मृजेवृद्धिरि'त्येतद्वाक्यार्थबोधकाले एकसम्बन्धिज्ञानमितिविधया संस्कारोद्बोधे सति आदेचामुपस्थितौ 'वृद्धिरादैजि'त्येतद्वाक्यार्थबोधस्य पुनर्नापेक्षा, सफलवाक्यार्थबोधाधिकरणदेशस्यैव मुख्यदेशत्वव्यवहारात्। अत्र पक्षे संज्ञाशास्त्रस्य स्वदेश एव सफलवाक्यार्थबोधात् पाठदेशीयत्वमेव। अत एव 'आगच्छतमग्नी३' इत्यत्र 'इदूदेदित्येतदृष्ट्या प्लुतस्यासिद्धत्वेन द्विमात्रत्वात् प्रगृह्यसंज्ञायाम् 'अणोऽप्रगृह्ये'ति नानुनासिकः। अत्र विषये कार्यकालपक्षस्वीकारे तु ईदूदेदित्यस्याणोऽप्रगृह्येत्येतद्देशीयत्वापत्त्या तदृष्ट्या प्लुतस्य सिद्धत्वेन द्विमात्रत्वाभावात् प्रगृह्यसंज्ञाभावे नानुनासिकापत्तिः। एवमेव 'तस्मिन्नित्यादिपरिभाषाविषये पक्षद्वयं बोध्यमिति प्राचीनमतम्।
नवीनास्तु - 'तस्मिन्नि'त्यादिपरिभाषाशास्त्राणां वाक्यार्थबोधे सति सप्तमीनिर्देशादि क्वेति पर्यालोचनायां कतिपयविध्युपस्थितौ तेन सहैकवाक्यतयाऽन्वयबोधेन साफल्यग्रहे सति दृढतराभ्यासाद् अनुपस्थितविधिविषयेऽपि पूर्ववत्तत्तद्विधेयोपस्थितौ न पुनर्वाक्यार्थबोधापेक्षा। परिभाषाविषय एवेदृशजिज्ञासुसत्त्वे प्रमाणञ्च निरुक्तभाष्यकैयटाद्येव। एवं शिष्यजिज्ञासया ये विधय उपस्थितास्तद्विषय एव यथोद्देशत्वम् अनुपस्थितविधिविषये कार्यकालत्वम्। पूर्वत्रासिद्धमित्यनेन त्रिपाद्या असिद्धत्वात् पूर्वोक्तशिष्यजिज्ञासायां सत्यामपि आचार्येण त्रैपादिकस्य नोपस्थितिः कृता, अत्रापि भाष्यादिव्यवहार एव शरणमिति प्राहुः।
अत एवेति। प्रदेश एव सफलवाक्यार्थबोधेन प्रदेशस्य मुख्यदेशत्वादेवेत्यर्थः।
अत एवेति। सफलवाक्यार्थबोधाधिकरणमुख्यदेशमादाय विप्रतिषेधशास्त्रप्रवृत्तिस्वीकारादेवेत्यर्थः। अयादिभ्यः परैवेति। अत्र पक्षे 'अदसो मादि'त्यस्य 'प्लुत्तप्रगृह्या' इत्येतदेकवाक्यत्वादित्यर्थः। यथोद्देशपक्ष एवेति। अत्र मानञ्च 'अपादानमुत्तराणि कारकाणि बाधन्ते' इति भाष्यम्। अत्र विषये कार्यकालपक्षस्वीकारे तु अपादानसंज्ञाया अपादाने पञ्चमीत्येतदेकवाक्यतापन्नाया एव 'कर्मणि द्वितीये'त्येतदेकवाक्यतापन्नकर्मसंज्ञापेक्षया परत्वेन कर्मादिसंज्ञानां परत्वाद् अपादानसंज्ञाबाधकत्वकथनमसङ्गतं स्यात्। तत्फलन्तु 'राज्ञ' इत्यत्र नलोपाभावः; अन्यथा 'अल्लोपोऽनः' इत्येतदेकवाक्यतापन्न-यचि भमि'त्येतदृष्ट्या नलोपः प्रातिपदिकेत्येतदेकवाक्यतापन्न "स्वादिष्वसर्वनामस्थाने' इत्यस्यासिद्धत्वेन नलोपो दुर्वारः स्यात्। न च निरवकाशतया भसंज्ञा बाधिका स्यादिति वाच्यम्, 'नित्यवीप्सयोरि'त्येकवाक्यतापन्न-पदसंज्ञाबाधनद्वारा प्रकृतिमात्रस्य प्राप्तद्वित्वाभावसम्पादनेन सूत्रस्य चारितार्थ्यादसिद्धकाण्डैकवाक्यतापन्नपदसंज्ञाबाधने मानाभावात्। किञ्च - यदा कार्यं तदा संज्ञेत्यस्यैव कार्यकालत्वेन 'दण्डिने'त्यत्र भसंज्ञाप्रयुक्तकार्याभावेन भत्वाप्राप्त्या स्वादिष्विति पदत्वमादाय नलोपः 'नद्ये'त्यत्र 'इकोऽसवर्ण' इति प्रकृतिभावश्च स्यादिति भसंज्ञादिविषये यथोद्देशपक्षः स्वीकार्यः। अत्र भाष्यान्तरं प्रमाणयति - अत एवेति।
यद्यपीदं भाष्यं सर्वसंज्ञाविषये यथोद्देशपक्षे प्रमाणभूतम्, तथाप्यन्यसंज्ञाविषये कार्यकालस्याप्युक्तत्वेन एतद्भाष्यमाकडारीयसंज्ञायामेव यथोद्देशपक्षत्वे पर्यवस्यति।
'अनस्तक्ष्णे'त्यस्य वारणाय 'अल्लोपोऽनः इत्यत्र कार्यकालपक्षोपपादनन्तु एकदेशिन इति न तद्विरोध इति शेखरे स्पष्टम्। यद्वा अत एवेत्यस्य पक्षद्वयेऽपि त्रिपाद्यां संज्ञाशास्त्रस्य प्रवृत्तौ बाधकाभावादित्यर्थः। तदेवाऽऽह - परिभाषाणामिति।
आहुरिति। संज्ञापरिभाषाणां प्रत्येकं पक्षद्वयस्वीकारे न फलम्, किन्तु 'आगच्छत्तमग्नी३' इत्यादिफलानुरोधात् संज्ञाविषये यथोद्देशः, पूर्वत्रासिद्धमि'ति सूत्रभाष्यात् परिभाषाविषये कार्यकालः। 'अयादिभ्यः परे'ति भाष्यस्थपरशब्दोऽपवादत्वपर एव। 'अनुदात्तं पदमेकवर्ज्यमि'त्यादिपरिभाषाणां त्रिपाद्यामप्रवृत्तिस्तु 'अन्तरङ्ग'परिभाषावत्सर्वसम्मतैव। न च 'अमूषामि'त्यादौ षत्वं न स्यात्, यथोद्देशपक्षे 'आदिरन्त्येने'त्येतद्दृष्ट्या 'अदसोऽसेरि'त्यादेरसिद्धत्वेनोकारादेरनिण्त्वात्, मम तु 'आदेशः प्रत्यययोरि'त्येतदेकवाक्यतापन्ना'ऽऽदिरन्त्येने'त्येतदृष्ट्या ऊत्वस्य सिद्धत्वेनेण्त्वात् षत्वं भवत्येवेति वाच्यम्, जातिपक्षे दोषाभावात्। अत्र पक्षे आदिरन्त्येनेति शास्त्रं मध्यगवृत्तिजातिमतां संज्ञां करोति, उत्वादिजातेश्च सिद्धासिद्धोकारवृत्तित्वेन सिद्धस्येव असिद्धोकारादेरिण्पदशक्यत्वबोधने बाधकाभावः। न च 'अइउण्'सूत्रे स्वदृष्ट्या तस्यासिद्धत्वेनोत्वेन रूपेणाऽपि कथमसिद्धमुकारं सङ्गृह्णीयादिति वाच्यम् चतुर्दशसूत्र्या अष्टाध्यायीबहिर्भूतत्वेन 'पूर्वत्रासिद्धमि'त्यनेन असिद्धत्वप्रतिपादनासम्भवात्, अणादिसंज्ञायाम् 'अइउणि'त्यादिसूत्राणां तत्तज्जातिपुरस्कारेण सङ्ग्रहरूपव्यापारस्यानुपयोगाच्च।
ननु संज्ञाविषये यथोद्देशस्यैव स्वीकारे 'राजन् + अस्, पुरुष + स्' इत्यवस्थायां पूर्व भसंज्ञायामल्लोपापत्तिः। न चान्तरङ्गानपीति न्यायेनाल्लोपो नेति वाच्यम्; यथोद्देशपक्षे 'अल्लोपोऽन' इत्यत्र 'यची'त्यस्यानुपस्थित्या लुगुत्तरमपि भसंज्ञायाः सत्त्वेन लोपप्राप्तेर्लुकोऽन्तरङ्गनिमित्तविनाशकत्वाभावात्। संज्ञाविषये कार्यकालस्वीकारे तु 'अल्लोपोऽन' इत्यत्र 'यची'त्युपस्थित्या लुगुत्तरं यजादिप्रत्ययपूर्वत्वाभावेन लोपाप्रसक्तेरिति चेन्न। कार्यकालपक्षेऽपि पदैकवाक्यतयाऽन्वयस्य दूषितत्वेन 'यची'त्यनुपस्थितेः पक्षद्वयेऽपि दोषसाम्यात्, यथोद्देशपक्षस्वीकर्तृमते दोषदानस्यायुक्तत्वात्, अन्तरङ्गानपीति न्यायेन भसंज्ञायाः पूर्वमप्रवृत्त्या दोषाभावात्। न च संज्ञाविषयेऽन्तरङ्गानपीति न्यायाप्रवृत्तिः, अत एव 'नित्स्वरे प्रत्ययलक्षणप्रतिषेधः' इति वार्तिकं सङ्गच्छते, अन्यथा 'गर्गा' इत्यादावित्संज्ञायाः प्रागेवोक्तन्यायेन लुकि स्वराप्राप्त्या वार्तिकासङ्गतिरिति वाच्यम् इत्संज्ञायामुक्तन्यायाप्रवृत्तिस्वीकारेऽपि संज्ञामात्रेऽप्रवृत्तिस्वीकारे प्रमाणाभावात्। इति यथोद्देशपक्षविचारः॥२॥
न तु प्रत्येकं संज्ञात्वाद्यवच्छेदेनेति। अत्रेदं तात्पर्यम् - शास्त्रे पक्षद्वयमित्येतन्मात्रोक्तौ 'उद्देश्यतावच्छेदकव्यापकत्वं विधेये भासते' इति न्यायेन शास्त्रत्वावच्छेदेन पक्षद्वयप्राप्त्या विधिसूत्रादावपि तदापत्तिः; केवलं संज्ञापरिभाषाविषये पक्षद्वयमित्येतदुक्तौ च प्रत्येकं संज्ञात्वावच्छेदेन पक्षद्वयं प्राप्नोतीत्यतः उभयमुपात्तम्। तथा च 'शास्त्रत्वं संज्ञापरिभाषासमुदायनिष्ठं ग्राह्यमिति तदवच्छेदेन पक्षद्वयम्' इत्यत्रैव तात्पर्यग्राहकत्वं संज्ञापरिभाषाविषये इत्यस्य। संज्ञापरिभाषासमुदायनिष्ठशास्त्रत्वञ्च – लक्ष्यधर्मिकसाधुत्वप्रकारबोधोपयोगिबोधजनकत्वप्रकारकेच्छया पाणिन्याद्युच्चरितानुपूर्वीमद्वाक्यकदम्बविशेषत्वमिति बोध्यम्। एतेन - प्रतिसंज्ञापरिभाषं पक्षद्वयं प्राप्नोतीति क्वचिद्यथोद्देश एव, क्वचित्कार्यकाल एव, क्वचिदुभयमित्येतदसङ्गतं स्यादित्यपास्तम्; प्रतिसंज्ञापरिभाषं पक्षद्वयाभावेऽपि शास्त्रे पक्षद्वयस्य सत्त्वादिति भावः।
संस्कारे जननीये इति। स्मरणं प्रत्यनुभवस्य कारणत्वोपपत्तये मध्ये संस्काराख्यो व्यापारः आत्मन्यङ्गीक्रियते, तस्य संस्कारस्यात्मनि सदा सत्त्वात् सर्वदा स्मरणवारणाय, उद्बुद्धसंस्कारस्यैव स्मरणं प्रति कारणत्वमङ्गीक्रियते; उद्बोधकैकसम्बन्धिज्ञानादिसत्त्वेऽपि कुत्रचित् स्मरणादर्शनात् दृढतरस्यैव संस्कारस्य कारणत्वमङ्गीक्रियते; संस्कारदार्ढ्यं प्रति चापेक्षाबुद्धेः कारणत्वम्, उपेक्षाबुद्धौ च न दृढतरसंस्कार उत्पद्यते। एवञ्चोपेक्षाबुद्धौ नैष्फल्यज्ञानं कारणम्, अपेक्षाबुद्धौ च साफल्यज्ञानमिति बोध्यम्। तथा च 'आदेचो वृद्धिपदवाच्याः' इति शक्तिग्रहे जाते साध्वनुशासनेऽस्मिन् शास्त्रे सङ्केतग्रहस्यानुपयोगात् 'इदं शास्त्रमनर्थकम्' इत्याऽऽनर्थक्यज्ञानेन उपेक्षाबुद्धिश्चेत् कार्यकालपक्षः।
यद्यपीदानीं फलं न दृश्यते, तथापि 'इदं शास्त्रमाप्तमहर्षिणा प्रणीतमतोऽनर्थकं न भवति, किन्तु भविष्यति किश्चिदनेन प्रयोजनम्' इति सार्थक्यबुद्ध्याऽपेक्षा बुद्धिश्चेत् यथोद्देशपक्षः, इत्येतदाशयेनाह - अपेक्षाधिय एवेत्यादिः।
वस्तुत इति। इदं प्राचां मतेन। नवीनमते तु शास्त्रत्वावच्छिन्नोद्देश्यताकपरिभाषाणाम् अन्तरङ्गे इत्यादीनां त्रिपाद्यामप्रवृत्तिरेव। तुरप्यर्थे इति। अपिना परिभाषाशास्त्रस्यापि ग्रहणम्। तस्यापि लक्ष्यसंस्कारोपयोगिप्रदेशवाक्येन सहैव भवतीत्यर्थः। 'लक्ष्यसंस्कारोपयोगीत्यस्य च लक्ष्यधर्मिकसाधुत्वप्रकारकबोधोपयोगीत्यर्थः। एतेन पदार्थोपस्थितियोग्यताज्ञानादिसामग्रीसत्त्वे शाब्दबोधस्य दुर्वारतया इदमसङ्गतमित्यपास्तम्।
तेन सह पदैकवाक्यतेति। इदं प्राचां मतेन, तैः संज्ञाशास्त्राणां पदैकवाक्यतयाऽन्वयः स्वीक्रियते। नव्यैश्च संज्ञासूत्रजवाक्यार्थबोधस्य विधिसूत्रजबोधं प्रति कारणतया कारणत्वस्य कार्यनियतपूर्ववृत्तित्वेन एककालिकोत्पत्तिकत्वस्यासम्भवेन पदैकवाक्यत्वस्य वक्तुमशक्यत्वाद्वाक्यैकवाक्यतयाऽन्वयः स्वीक्रियते। परिभाषाजन्यबोधस्य तु न विधिसूत्रघटकपदधर्मिकशक्तिग्राहकत्वमिति न सूत्रघटकपदजन्यबोधकारणत्वमिति न वाक्यैकवाक्यत्वम्, अपि तु पदैकवाक्यत्वमेव।
एवमेवेति। यथोद्देशपक्षे- परिभाषाशास्त्रजन्यवाक्यार्थबोधे साफल्यग्रहेणापेक्षाधिया दृढतरसंस्कारोत्पादेन 'इको यणची'त्यादिविधिशास्त्रजन्यवाक्यार्थबोधकाले 'अची'त्याद्यौपश्लेषिकाधिकरणबोधकपदज्ञानेनोद्बुद्धसंस्कारजनितेन गृहीतपरिभाषाविधेयार्थस्मरणेन पदैकवाक्यतया लक्ष्यसंस्कारको बोधः। यद्वा - परिभाषार्थज्ञानरूपप्रकरणगृहीततात्पर्यानुपपत्त्या अचीति पदस्य अजव्यवहितपूर्वत्वे लक्षणया वाक्यैकवाक्यतया लक्ष्यसंस्कारको बोध इति। कार्यकाले तु- प्रदेशवाक्येन सहैव बोधो न पृथगिति संज्ञाशास्त्रवदेव सर्वं बोध्यम्। पूर्वत्वपरत्वव्यवस्थाऽपि तद्वदेव। 'एकदेशस्थ' इति भाष्यन्तु एतन्मते यथोद्देशपक्षाभिप्रायकमेव। 'ङमो ह्रस्वादची'ति सूत्रस्थभाष्यविरोधपरिहारस्त्वग्रे स्फुटीकृत एव। परिभाषाविषये यथोद्देशपक्षफलन्तु अन्तरङ्गशास्त्रस्यासिद्धतया बहिरङ्गपरिभाषाया अप्रवृत्त्या 'राज्ञः' इत्यत्र श्चुत्वसिद्धिः। कार्यकालपक्षफलन्तु - परिभाषाणां त्रिपाद्यामपि प्रवृत्तिरिति बोध्यम्। गृहीतपरिभाषार्थेन तु न निर्वाहः, 'पूर्वत्रासिद्धमि'ति सूत्रस्थभाष्यविरोधात्।
प्राहुरिति। अत्रायं परिभाषाविषये प्राचीन-नवीनमतविवेकः- नव्यमते यथोद्देशपक्षे परिभाषादेशे एव विधिशास्त्राणामुपस्थित्या पदैकवाक्यतयैव लक्ष्यसंस्कारको बोधः, विधिशास्त्राणामुपस्थितौ च 'सप्तमीनिर्देशादि क्व' इति छात्राणां जिज्ञासैव बीजम् ।
प्राच्यमते तु - अस्ति किञ्चिदस्याः प्रयोजनमित्यपेक्षाबुद्धिपूर्वकपरिभाषावाक्यार्थबोधः स्वदेशे एव, एकवाक्यतया बोधस्तु विधिदेशे एव। नवीनमते स्वदेशे पदैकवाक्यतयैव लक्ष्यसंस्कारक-बोधोदयेनोपेक्षाबुद्धेरनवकाशेन येषां दैवाद् देशे उपस्थानं तेषु यथोद्देशः, येषां चानुपस्थितिस्तैः स्वदेशे स्वसंस्काराय परिभाषाशास्त्रविधेयमात्रमुपस्थाप्यते इत्ययमेव कार्यकालपक्षः, न तु परिभाषा तत्रोपतिष्ठते। एवञ्च नव्यमते नोपेक्षाऽपेक्षाबुद्धी तत्पक्षयोर्बीजमूले इति वेदितव्यम्। 'न च कार्यकालपक्षे ङमो ह्रस्वादीत्यादावि'ति मूलोक्तशङ्काग्रन्थस्तु प्राचामनुरोधेन। प्राचीनमते तु त एव बीजभूते इति कार्यकालपक्षे परिभाषाया एव विधिदेशे उपस्थानं गुरुणा क्रियते, उपेक्षाबुद्ध्या छात्राणां विधेयार्थस्मरणासम्भवात्। नव्यमते उभयपक्षे परिभाषाणां पाठदेश एव मुख्य इति तत्कृतैव पूर्वत्वपरत्वव्यवस्था ज्ञेया। अत एव 'एकदेशस्थ..' इति भाष्यं सङ्गच्छते। प्राचीनमते तु यथोद्देशे पाठदेश एव मुख्यः, कार्यकाले तु विधिदेशीयत्वेन स एव देशो मुख्यः। विधिदेशीयत्वादेव 'तावताऽप्यसिद्धिरि'ति 'पूर्वत्रे'ति भाष्यं स्वरसत उपपद्यते। परमुख्यासंभवे गौणेनापि पूर्वत्वपरत्वव्यवस्थेति न 'ङमो ह्रस्वादि'ति सूत्रस्थभाष्यविरोधः। 'एकदेशस्थ' इति भाष्यन्तु यथोद्देशपक्षाभिप्रायेणेति।
वस्तुतस्तु - पूर्वत्रेति 'भाष्यानुरोधात् प्राचीनाभिमत एव कार्यकालपक्षो नागेशसम्मतः, अन्यथा तावताऽप्यसिद्धिरित्यभिप्रायके 'कथमिति' प्रश्नस्य निर्दलतापत्तेः। किञ्च यथोद्देशपक्षोऽपि प्राचीनसम्मत एव नागेशेनाभिप्रेयते, 'केचित्तु' मतम् एकदेशिन एव बोध्यम्। 'एकदेशस्थ' इति भाष्यं यथोद्देशपक्षाभिप्रायेण। अभिज्वालकत्वञ्च संस्कारकत्वमात्रम्, न तु एकवाक्यतया संस्कारकत्वमिति बोध्यम्। किञ्च - परिभाषाणां विधिदेशे उपस्थितावपि तद्देशीयत्वं वारयति इदं भाष्यमिति सर्वमुपपन्नमित्यलम्।
अयादिभ्यः परैवेतीति। संज्ञाशास्त्राणामिदमेव कार्यकालपक्षफलम्। त्रिपाद्यां प्रवृत्तिस्तु न तत्फलम्, भपदसंज्ञावज्जातशक्तिग्रहेण त्रिपाद्यामपि व्यवहारसिद्धेः; अन्यथा संज्ञानामुपजीव्यत्वात् ता विना त्रिपादिस्थशास्त्राणां वाक्यार्थबोधासंभवेन नैरर्थक्यापातात्।
मानाभावादिति। ननु असिद्धकाण्डैकवाक्यतापन्नपदसंज्ञाया भसंज्ञया बाधाभावे 'राजन्य' इत्यत्र पदसंज्ञया नलोपे जाते 'नस्तद्धिते' इत्यस्याप्राप्त्या 'ये चाभावकर्मणोः' इति व्यर्थं स्यादित्यस्ति मानमित्यरुचेराह - किञ्चेति ॥२॥